मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ७७

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 77

पुष्पदन्तेश्वरमाहात्म्यवर्णनम्

श्रीमहादेव उवाच

सप्तसप्ततिकं देवि पुष्पदंतेश्वरं शृणु ॥

यस्य दर्शनमात्रेण गर्भवासो न जायते

॥१॥

शिनिर्नाम द्विजो देवि स चापुत्रोऽभवत्पुरा ॥

पुत्रार्थं चिंतयामास स तपांसि बहूनि ह

॥२॥

वायुभक्षोंऽबुभक्षश्च निराहारोर्ध्वबाहुकः ॥

शाकमूलफलाहारः पर्णाश्येकद्वि पर्णभुक्

॥३॥

एवमादीनि चान्यानि तपांसि श्रेयसे परम् ॥

एतेषां तपसां मध्ये तप एकं समाश्रये

॥४॥

परं विघ्नोपशांत्यर्थं तोषयिष्येऽहमी श्वरम् ॥

एवं संचिंत्य मनसा ऊर्ध्वबाहूर्ध्वपादकः ॥

आभ्यां न स दुरासाद्यो नापराधो भविष्यति

॥५॥

तथा चकार स मुनिर्वर्षाणां द्वादशैव हि ॥

तपस्यंतं च तं दृष्ट्वा नियमे परमे स्थितम्

॥६॥

विज्ञप्तोहं त्वया देवि मंदरे चारुकंदरे ॥

करोत्येष तपः क्रूरं पुत्रहेतोर्मुनिर्म हान्

॥७॥

तेजसा दीपयच्छैलं शोषयन्सलिलाशयान् ॥

तपसा दुष्करेणैव क्षुभिता नाकवासिनः

॥८॥

व्यालेंद्रा व्याकुलीभूता लुलिताश्चाचलेश्वराः ॥

मुनयो विस्मृतिं प्राप्ताः कंपेते चापि रोदसी

॥९॥

अयोनिजः शिनिर्विप्रः पुत्रमिच्छत्ययोनिजम् ॥

त्वं योनिर्गुणसंघानां त्वं योनिस्तपसामपि

॥१०॥

त्वं तपस्त्वं परं धाम शिखिचंद्रार्कलोचन ॥

सर्वेश्वर सुतोऽभीष्टः किं न विप्राय दीयते

॥११॥

सुरासुरगुरो किं न पुत्रमस्मै प्रयच्छसि ॥

तपसा क्षीणदोषस्य ब्रह्मत्वे भावितात्मनः

॥१२॥

शिनेः पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ॥

तपसा दुष्करेणैव गाढं क्लिष्टो महामुनिः

॥१३॥

तेजांसि ज्योतिषामेव महतां च विधिस्थितः ॥

अहरत्तेजसा स्वेन तमांसीव दिवाकरः

॥१४॥

त्वद्भक्तस्य च देवेश व्यर्थः कस्मात्परिश्रमः ॥

उदितेऽर्के तमांसीह न भवंति कदाचन

॥१५॥

त्वत्परस्य न देवश युक्ता दुःखविभीषिका ॥

इत्यहं प्रार्थितो देवि त्वया पर्वतपुत्रिके

॥१६॥

विप्रार्थमनुकंपार्थं पुत्रार्थं च विशेषतः ॥

आकारिता मया देवि गणास्त्व द्गौरवेण तु

॥१७॥

रुद्राश्च हरभक्ताश्च कूष्मांडा गगनेचराः ॥

रोमरौद्रा महानीलाः शिखावंतः सकोकिलाः

॥१८॥

अन्ये च विविधाकाराः कालास्या हरिपिंगलाः ॥

जटाजूटधराश्चित्रा वीथिनक्षत्रचारिणः

॥१९॥

नीलग्रीवा कृष्णमुखाः पिंगधौतजटासटाः ॥

ज्वरो डिंडिर्महाकालो लांगुलिश्च महेश्वरः

॥२०॥

घंटाकर्णो विशाखश्च परिशेषा गणाश्च ये ॥

वृषारूढाः कामतुल्याः कामरूपबलास्तथा

॥२१॥

शूलचंद्रधराः सर्वे सर्वे तुल्यपराक्रमाः ॥

ममादेशात्समायाताः कृतांजलिपुटाः स्थिताः

॥२२॥

स्तुवंतो विविधैः स्तोत्रैरूचुरेवं समाहिताः ॥

किं कर्त्तव्यमिहास्माभिरादेशो दीयतां प्रभो

॥२३॥

गणानां वचनं श्रुत्वा ज्ञात्वा भक्तिं च तादृशीम् ॥

महातपःप्रभावोऽयं शिनिविप्रस्य कीर्त्तितः

॥२४॥

पुत्रार्थं तप्यति तपः शिनिर्ब्राह्मणसत्तमः ॥

मद्वाक्यात्को नु विप्रस्य पुत्रत्वं संप्रदास्यति

॥२५॥

तस्याहं संप्रदास्यामि सर्वान्कामा न्यथेप्सितान् ॥

अमरं चाजरं पुत्रं मुनिर्वांछति सांप्रतम्

॥२६॥

मद्वाक्यं क्रियतां सद्यो विप्रः क्लेशाद्विमुच्यताम् ॥

मद्भक्तस्य न संकल्पो मिथ्या भवितुमर्हति

॥२७॥

मदीयं वचनं श्रुत्वा सर्वे कंपितकंधराः ॥

सर्वे चावाङ्मुखा जाताः सर्वे ध्यानपरायणाः

॥२८॥

न कश्चिद्भाषते किंचिन्न कश्चिद्वीक्षते तदा ॥

अथोक्तं पुष्पदंतेन रभसान्मानितेन तु

॥२९॥

मम चित्तमविज्ञाय गणानामनुकंपया ॥

न यास्यंति गणा देव त्वां विहाय महीतलम्

॥३०॥

इह स्थास्यंति सततं त्वत्समीपे न संशयः ॥

कथं योनिं प्रयास्यंति संप्राप्य मुदमुत्तमाम्

॥३१॥

हीनां रजोऽधिकां दीनां तमोबहुलधारिणीम् ॥

कथं स्वर्गं परित्यज्य यास्यामो नरकं परम्

॥३२॥

ब्रुवन्नेवं भ्रमेणैव भाव्यर्थेन प्रणोदितः ॥

उक्तो मया विशालाक्षि पुष्पदंतो गणाग्रणीः

॥३३॥

पत त्वं मानुषे लोके यस्मान्मे विप्रियं कृतम् ॥

शप्त्वा तं पुष्पदंतं तु वीरकः प्रेरितो मया

॥३४॥

विप्रस्य पुत्रतां तूर्णं पुत्र गच्छ ममाज्ञया ॥

ततस्ते संप्रदास्यामि सर्वान्कामान्यथेप्सितान्

॥३५॥

इत्युक्तो वीरको देवि गतो विप्रस्य पुत्रताम् ॥

पुष्पदंतोऽपि करुणं विललाप सुदुःखितः

॥३६॥

पश्चात्तापेन संयुक्तो निश्वस्य च पुनःपुनः ॥

अहो तत्सफलं जन्म यदाज्ञा क्रियते नरैः

॥३७॥

प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः ॥

तेषामर्थश्च धर्मश्च कुलं चैव च तारितम्

॥३८॥

प्रसन्नास्त्रिदशास्तेषां प्रभु भक्ताश्च ये नराः ॥

सेवाधर्मो हि गहनो योगिनामपि दुष्करः

॥३९॥

न ज्ञेयः केन तत्त्वेन दुराराध्यः प्रभुर्भवेत् ॥

एकेनाप्यपराधेन प्रकोपं कुरुते प्रभुः

॥४०॥

विनश्यंत्युपकाराणि तस्मात्सेवा सुदुष्करा ॥

स्वामी सर्पश्च वह्निश्च तप्तभावं व्रजंति हि

॥४१॥

तस्माद्यत्नेन संसेव्या आत्मरक्षणतत्परैः ॥

सोऽहं भूमौ निपतितः प्रभोरादेशभंजकः

॥४२॥

कांस्तु लोकान्गमिष्यामि कलुषी भूणहा इव ॥

एवं विलप्य बहुशो मामेव शरणं गतः ॥

उवाच दीनया वाचा प्रणिपत्य पुनःपुनः

॥४३॥

दीनोऽस्मि ज्ञानहीनोऽस्मि प्रणतोऽस्मि च शंकर ॥

कुरु प्रसादं देवेश अपराधं क्षमस्व मे

॥४४॥

न हि निर्वहणं यांति प्रभूणामाश्रिता रुषः ॥

प्रसीद देवदेवेश दीनस्य कृपणस्य च

॥४५॥

अपि कीट पतंगत्वं गच्छेयं तव शासनात ॥

भक्तोहं सर्वदा देव पुत्रत्वे हि प्रतिष्ठितः

॥४६॥

इति तस्य वचः श्रुत्वा पुष्पदंतस्य पार्वति ॥

ममत्वेन तदा देवि प्रोक्तमित्थं त्वया वचः

॥४७॥

गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ॥

लिंगमाराधय क्षिप्रं तत्त्वन्नाम्ना भविष्यति

॥४८॥

कीर्त्तिस्ते भविता पुत्र यावदाभूतसंप्लवम् ॥

इत्युक्ते तु त्वया देवि मयाप्युक्तं वरानने

॥४९॥

न मे मिथ्या वचः पुत्र भविष्यति कथंचन ॥

दर्शनादेव लिंगस्य ममाभीष्टो भविष्यसि

॥५०॥

विमाने पुष्पपादे तु समारूढो भविष्यसि ॥

पुष्पैः संपूज्यमानस्तु पदं प्राप्स्यसि शाश्वतम्

॥५१॥

गणैः सार्द्धं मया चैव मुदितो विचरिष्यसि ॥

ममापि न रतिर्वत्स भविष्यति त्वया विना

॥५२॥

अहं तत्रागमिष्यामि महाकालवने शुभे ॥

तुष्टोऽहं सर्वदा वत्स गणानामग्रणीः कृतः

॥५३॥

अनया शुद्धया भक्त्या लोकानामुपकारकः ॥

भविष्यसि न संदेहस्तस्मिन्क्षेत्रे गतो ध्रुवम्

॥५४॥

इत्युक्तो हि मया देवि पुष्पदंतो गणाग्रणीः ॥

मानी ममाज्ञया मौनी महाकालवने शुभम्

॥५५॥

लिंगमाराधयामास दुर्वासेशादथोत्तरे ॥

लिंगेनोक्तस्तु सहसा तुष्टोऽहं गणसत्तम ॥

त्वन्नाम्ना ख्यातिमेष्यामि प्रसादस्ते कृतोऽधुना

॥५६॥

एतस्मिन्नन्तरे देवि त्वया सार्द्धमहं गतः ॥

शक्राद्यैस्त्रिदशैः सार्द्धं गणैर्नानाविधैस्तथा

॥५७॥

हृष्टस्तु पुष्पदंतोऽपि पुष्पपट्टासने शुभे ॥

पुष्पैः प्रकीर्यमाणोऽपि पुनः प्राप्तो ममांतिकम्

॥५८॥

मया संश्लेषितः स्नेहादुत्संगेऽप्यधिरोपितः ॥

स्थानं दत्तं विशालाक्षि इदमुक्तं मया तदा

॥५९॥

ये पश्यंति नरा लिंगं त्वया संपूजितं भुवि ॥

ते यास्यंति पुष्पकेण क्रीडन्तो वै त्रिविष्टपम्

॥६०॥

गणाध्यक्षा भविष्यंति सर्वकामैरलंकृताः ॥

मम लोके गणाध्यक्षा यावदिंद्राश्चतुर्दश

॥६१॥

दर्शनात्क्षीयते पापमैहिकं पूर्वकं तथा ॥

ततः प्रसादान्मे सर्वं ज्ञानं सम्यग्भविष्यति

॥६२॥

यः पूजयेच्चतुर्द्दश्यामष्टम्यां सोमवासरे ॥

अमरैः सह संहृष्टो मोदते दिवि सर्वदा

॥६३॥

पैतृकैर्मातृकैः सार्द्धं कुलैस्तु सप्तभिर्युतः ॥

न वदेत्केनचित्सार्द्धं नरो यः प्रातरुत्थितः

॥६४॥

पुष्पदंतेश्वरं दृष्ट्वा सोऽश्वमेधफलंलभेत् ॥

मुच्यते पातकाद्यैश्च यः शाठ्येनापि पश्यति

॥६५॥

मृतो गांधर्वलोके तु याति विद्याधरैर्वृतः ॥

न तस्य संतति च्छेदो यः पश्यति दिनेदिने ॥

नियमेन गणाध्यक्ष जायते ब्रह्मणो दिनम्

॥६६॥

ऐश्वर्यं सप्तलोकेषु भुक्त्वा भोगान्यथाक्रमम् ॥

पृथिव्यामेकराड्भूत्वा ममांगे संभविष्यति

॥६७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

पुष्पदन्तेश्वरेशस्य अविमुक्तेश्वरं शृणु

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम् आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे पुष्पदन्तेश्वरमाहात्म्यवर्णनंनाम सप्त सप्ततितमोऽध्यायः ॥ ७७ ॥