मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय २

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 2

गुहेश्वरमाहात्म्यवर्णनम्

श्रीरुद्रउवाच

शृणु गुहेश्वरं लिंगं द्वितीयं पापनाशनम् ॥

यस्य दर्शनमात्रेण जायते सिद्धिरुत्तमा

॥१॥

पुरा राथंतरे कल्पे देवदारुवने शुभे ॥

ऋषिर्मंकणकोनाम वेदवेदांगपारगः ॥

योगाभ्यासरतो नित्यं शांतिदांतिसमास्थितिः

॥२॥

सिद्धिकामस्तपस्तेपे कथं सिद्धो भवाम्यहम् ॥

रक्तमयविकारोयं कथं यास्यति संक्षयम्

॥३॥

इति संचिंत्य हृदये प्रारब्धं तप उत्तमम् ॥

बहून्यब्दसहस्राणि तस्यातीतानि पार्वति

॥४॥

कस्मिंश्चिदथ काले तु विद्धस्य पर्वतात्मजे ॥

कराच्छाकरसो जातः कुशाग्रेण तदैव हि

॥५॥

स च दृष्ट्वा तदाश्चर्यं विस्मयं परमं गतः ॥

मेने सिद्धिं परां प्राप्तां सगर्वो वाक्यमब्रवीत्

॥६॥

अहो तपःप्रभावोऽयं प्राप्ता सिद्धिर्मयाद्य वै ॥

मत्तुल्यो नास्ति वै विप्रो येन सिद्धिः समागता

॥७॥

शरीरं कुत्सितं चेदं मलमूत्रेण संयुतम् ॥

मन्त्रस्नायुवसापृक्तमांसशोणितपूरितम् ॥

हर्षेण महता युक्तः स ननर्त्त द्विजस्तथा

॥८॥

एतस्मिन्नृत्यति विप्रे जगत्स्थावर जंगमम् ॥

अनृत्यद्रागसंयुक्तं प्रभावात्तस्य वै मुनेः

॥९॥

न स्वाध्यायो वषट्कारः कर्मकांडो न च क्वचित्

॥१०॥

एतस्मिन्नंतरे देवा ब्रह्मविष्णु पुरःसराः ॥

मामूचुर्विस्मिताः सर्वे नाथ नृत्यं तदा कुरु

॥११॥

ऋषौ मंकणके देव नृत्यति नृत्यति सर्वतः ॥

सदेवासुरमानुष्यं सर्वं लोकत्रयं विभो

॥१२॥

चलिताः पर्वताः स्थानात्क्षुभिता मेघपंक्तयः ॥

शिखराणि विशीर्यंते धरणी पीडिता भृशम्

॥१३॥

स्रोतोमात्रा महानद्यो ग्रहा उन्मार्गतः स्थिताः

॥१४॥

त्रैलोक्यं व्याकुलीभूतं यावन्नायाति संक्षयम् ॥

तावन्निवारयस्वैनं नान्यः शक्तो विना त्वया

॥१५॥

तेषां तद्वचनं श्रुत्वा त्रिदशानां यशस्विनि ॥

प्रतिज्ञातं मयात्यर्थं गत्वा तस्य समीपतः

॥१६॥

द्विजरूपं समास्थाय मया पृष्टो द्विजोत्तमः ॥

किमर्थं नृत्यसि ब्रह्मन्कस्मात्ते हर्ष आगतः

॥१७॥

विरुद्धमृषिधर्माणां कामरागेण नर्त्तनम् ॥

गीतं च नर्त्तनं चैव युवतीजनवल्लभम्

॥१८॥

ब्राह्मणस्य तपो भ्रंशः सदाचारस्य सत्तम ॥

इति मत्वा द्विजश्रेष्ठ किमर्थं नृत्यसे भृशम्

॥१९॥

ऋषिरुवाच

किं न पश्यसि भो ब्रह्मन्कराच्छाकरसं च्युतम् ॥

अतएव हि मे नृत्यं सिद्धोऽहं नात्र संशयः

॥२०॥

तस्य तद्वचनं श्रुत्वा हासोऽतीव मया कृतः ॥

अंगुष्ठस्ताडितः स्वीयोंगुल्यग्रेण च पार्वति

॥२१॥

ततो विनिर्गतं भस्म तत्क्षणाद्धिमपांडुरम् ॥

हासेनोक्तो विशालाक्षि सगर्वो ब्राह्मणो मया

॥२२॥

पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम् ॥

न नृत्येहं न मे हर्षस्तथापि मुनिस्सम

॥२३॥

तद्दृष्ट्वा महदाश्चर्यं लज्जितो द्विजसत्तमः ॥

धैर्यं च तादृशं दृष्ट्वा विस्मयं परमं गतः

॥२४॥

अब्रवीत्प्रांजलिर्भूत्वा विस्मितेनांतरात्मना ॥

नान्यं देवमहं मन्ये त्वां मुक्त्वा वृषभध्वजम्

॥२५॥

नान्यस्य विद्यते शक्ति रीदृशी भुवनत्रये ॥

तस्मात्क्षमस्व देवेश मयाज्ञानादनुष्ठितम्

॥२६॥

तपःक्षयकरं कर्म विरुद्धं नर्त्तनं सताम् ॥

बहुकालार्जितं पुण्यं तपसा दुष्क रेण तु ॥

तद्गतं सहसा देव मदीयं नर्त्तनेन सु

॥२७॥

तस्य तद्वचनं श्रुत्वा मयोक्तो द्विजसत्तमः ॥

वरं वरय भद्रं ते तुष्टोऽहं द्विजसत्तम

॥२८॥

ज्ञानेनानेन विप्रेंद्र कं ते कामं करोम्यहम्

॥२९॥

ऋषिरुवाच

यदि देव प्रसन्नस्त्वं शरणागतवत्सल ॥

यथा न स्यात्तपोहानिस्तथा नीतिर्विधीयताम्

॥३०॥

मया प्रोक्तं प्रसन्नेन तस्य विप्रस्य पार्वति ॥

तपस्ते वर्द्धतां विप्र महाकालवनं व्रज

॥३१॥

तत्रास्ते सर्वदा पुण्या सप्तकल्पोद्भवा गुहा ॥

पिशाचेश्वरदेवस्य उत्तरेण व्यवस्थिता

॥३२॥

तत्र द्रक्ष्यसि यल्लिंगं सप्तकल्पोद्भवं शुभम् ॥

तस्य दर्शनमात्रेण तपस्ते वृद्धिमेष्यति

॥३३॥

काम क्रोधोद्भवं पापं लोभमोहसमन्वितम् ॥

ईर्ष्यामत्सरजं चैव नाशं याति च किल्बिषम्

॥३४॥

मदीयं वचनं श्रुत्वा स विप्रो वेदपारगः ॥

श्रुत्वा च नियमं देवि मदुक्तं स ततो द्विजः

॥३५॥

निःसृतो नियतो भूत्वा नमस्कृत्य पुनःपुनः ॥

आजगाम गुहा यत्र महाकालवनोत्तमे

॥३६॥

ददर्श तत्र तल्लिंगं तपसो वर्द्धनं परम् ॥

द्वादशादित्यसंकाशो जातो वै लिंगदर्शनात्

॥३७॥

एतस्मिन्नंतरे देवि देवैरुक्तं नभस्तले ॥

गोप्यं लिंगं गुहोत्थं तु दृष्टं मंकणकेन तु

॥३८॥

सिद्धिः प्राप्ता द्विजेनैव दर्शनेन सुदुर्लभा ॥

तस्माद्गुहेश्वरो देवि भविष्यति महीतले

॥३९॥

भक्त्या परमयोपेता ये द्रक्ष्यंति गुहेश्वरम् ॥

न तेषां जायते विघ्नो धर्मस्य तपसस्तथा

॥४०॥

अष्टम्यां वा चतुर्दश्यां दर्शनं यः करिष्यति ॥

ब्रह्मलोकं गमिष्यंति पितरस्तस्य देहिनः

॥४१॥

अत्रागत्य प्रयत्नेन दर्शनं यः करिष्यति ॥

उद्धरिष्यति चात्मानं पुरुषानेकविंशतिम्

॥४२॥

कृत्वा पापसहस्राणि दर्शनं यः करिष्यति ॥

स याति परमं स्थानं यत्र देवो महेश्वरः

॥४३॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥

दर्शनात्तस्यलिंगस्य सर्वं यास्यति संक्षयम्

॥४४॥

यत्किंचिदशुभं कर्म जन्मकोटिशतार्जितम् ॥

क्षयं यास्यति तत्सर्वं स्पर्शमात्रेण नान्यथा

॥४५॥

महापातकयुक्ता हि देहिनो ये महीतले ॥

तेऽपि लिंगं समासाद्य मुच्यंते सर्वपातकैः

॥४६॥

इत्युक्त्वा स द्विजो देवि दिव्यो मंकणको मुनिः ॥

कृत्वाश्रमपदं पुण्यं तत्रैव तपसि स्थितः

॥४७॥

एष वै कथितो देवि प्रभावः पापनाशनः ॥

श्रवणात्कीर्त्तनाद्वापि सर्वपापैः प्रमुच्यते

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये गुहेश्वरमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥