मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय २४

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 24

महालयेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

महालयं महाभागे चतुर्विंशतिकं शुभम् ॥

ब्रह्मादिस्तंबपर्यंतं त्रैलोक्यं सचरा चरम्

॥१॥

उत्पादितं धृतं व्याप्तं त्वया देव मया श्रुतम् ॥

त्वयैकेन विशुद्धेन सर्वगेन महात्मना

॥२॥

अत्यर्थं मुनयः सर्वे मुदिता मौनिनो ऽव्ययाः ॥

वदंति कारणं चास्य त्रैलोक्यस्य महेश्वर

॥३॥

त्वया सर्वमिदं सृष्टं त्रैलोक्यं भूर्भुवादिकम् ॥

उत्पाद्यमानमुत्पन्नं प्रलीयच्च सहस्रशः

॥४॥

देवदानवगंधर्वमुनिचारणभोगिनाम् ॥

उत्पत्तिस्थितिसंहारास्त्वया दृष्टा मुहुर्मुहुः

॥५॥

जगच्चराचरं देव कुत्र स्थित्वासृजस्य लम् ॥

लीलया संहरस्येतत्प्रसादाद्वक्तुमर्हसि

॥६॥

कोऽसौ महालयो रौद्रग्रहरूपी व्यवस्थितः ॥

यस्मिन्धृतं त्वया सर्वं त्रैलोक्यं भूर्भुवादिकम्

॥७॥

इति पृष्टस्त्वया देवि मया ते कथितं पुरा ॥

इदानीं कथयिष्यामि शृणुष्वैकाग्रमानसा

॥८॥

पृथिव्यादीनि भूतानि महाकालवने प्रिये ॥

धृतानि प्रलयस्यांते एकोद्देशे महालये

॥९॥

ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ॥

स्थानं महालयं तत्र ममानंदकरं परम्

॥१०॥

परं ब्रह्ममयं लिंगं तत्र तिष्ठति सर्वदा ॥

तस्य लिंगस्य मध्ये तु धृतं कृत्स्नं चराचरम्

॥११॥

तत्र ब्रह्मादयो देवा विष्णुस्तत्रैव संस्थितः ॥

लिंगस्याभ्यंतरे देवि सर्वमेवाधितिष्ठति ॥

तस्माल्लिंगात्समुत्पन्नो महानात्मा महामतिः

॥१२॥

भूतादिश्चाप्यहंकारो विष्णुः शंभुश्च पार्वति ॥

बुद्धिः प्रज्ञा धृतिः ख्यातिः स्मृतिर्लज्जा सरस्वती

॥१३॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति

॥१४॥

अस्माद्भूतानि लिंगानि महाभूतानि पञ्च वै ॥

पृथिवी वायुराकाशमापो ज्योतिः प्रलीयते

॥१५॥

स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ॥

अण्डजोद्भिज्जं च सस्वेदं जरायुजमथापि वा

॥१६॥

चतुर्द्धा जन्मचिह्नं यल्लिंगेस्मिन्नेव लक्ष्यते ॥

तपः कर्म च पुण्यं च व्रतं दानं तथैव च

॥१७॥

रजःसत्त्वं तमोभावस्तस्माल्लिंगाच्च जायते ॥

तस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्

॥१८॥

अव्यक्तकारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥

यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः

॥१९॥

विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितर स्तथा

॥२०॥

आपो द्यौः पृथिवी वायुरंतरिक्षं दिशस्तथा ॥

संवत्सरर्तवो मासाः पक्षाहोरात्रयस्तथा

॥२१॥

यच्चान्यदपि तत्सर्वं संभूतं लोक साक्षिकम् ॥

यदिदं दृश्यते किंचित्तस्यांते च प्रलीयते

॥२२॥

अतो महालयोनाम विख्यातो भुवनत्रये ॥

मुक्तीश्वरस्य देवस्य दक्षिणे संव्यव स्थितः

॥२३॥

यः पूजयति तल्लिंगं रुद्रमूर्त्या महालयम् ॥

त्रैलोक्यविजयी नित्यं कीर्त्तिमान्स नरो भवेत्

॥२४॥

महालयेश्वरे पुण्ये पूजिते परमेश्वरे ॥

भक्त्या परमया चैव सर्वे देवाः सुपूजिताः ॥

भवंतीह महाभागे यतस्तैरपि पूज्यते

॥२५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये महालयेश्वरमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥