त्रिलोचनमाहात्म्यवर्णनम्
श्रीदेवदेव उवाच
पंचचत्वारिकं विद्धि देवं त्रिलोचनेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वसिद्धिरवाप्यते
॥१॥इतिहासमिहासीद्यत्पीठे विरजसंज्ञके ॥
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते
॥२॥नानाभंगिगवाक्षाढ्ये रत्नसानाविवापरे ॥
देदीप्यमानसौवर्णकलशेन विराजिते
॥३॥पार्वणेन शशांकेन खेदादिव समासिते ॥
तत्र पारावतद्वंद्वं वसत्स्वैरं कृतालयम्
॥४॥प्रातः सायं च मध्याह्ने कुर्व न्नित्यप्रदक्षिणम् ॥
उड्डीयमानं परितः पक्षवातैरितस्ततः
॥५॥रजःप्रासादसंलग्नं दूरीकुर्वद्दिशो दश ॥
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ॥
त्रिविष्टपेति च तथा तयोः कर्णातिथीभवेत्
॥६॥चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ॥
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते
॥७॥मंगलारात्रिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ॥
नेत्रांतं निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयत्
॥८॥प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ॥
नोड्डीय वांछितं यातः पश्यंतौ कौतुकं खगौ
॥९॥तत्रासकृज्जनाकीर्णं प्रासादं परितोऽवनौ ॥
तंडुलादि चरंतौ तौ कुर्वंतौ च प्रदक्षिणम्
॥१०॥देवदक्षिणदिग्भागे विष्णुदेहोद्भवं जलम् ॥
तृषार्त्तौ पिबतो नित्यं स्नात्वा चाजग्मतुश्च तौ
॥११॥तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ॥
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः
॥१२॥अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ ॥
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखं स्थितौ
॥१३॥तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षया ॥
अवतीर्यांबरादाशु उपविष्टः शिवालये
॥१४॥ततो विलोकयामास तदागमविनिर्गमौ ॥
केन मार्गेण विशतो दुर्गमेण पतत्रिणौ
॥१५॥केनाध्वना च निर्यातः किंकाले कुरुतश्च किम् ॥
कथं युगपदेतौ मे ग्राह्यौ स्वैरं भविष्यतः
॥१६॥दुर्बलोऽप्याकलयितुं सहसारिर्न शक्यते ॥
करिणां च सहस्रेण वराश्वानां च लक्षतः
॥१७॥न कर्म सिद्ध्येन्नृपतेर्दुगेणैकेन यद्भवेत् ॥
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् ॥
स्वतंत्रं यदि दुर्गं स्यादपमार्गप्रकाशकम्
॥१८॥इति दुर्गे बलं शंसञ्छ्येनो रोषारुणेक्षणः ॥
असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणे
॥१९॥अथ पारावती दक्षा विपक्षक्षपणेक्षणम् ॥
महाबलं दुर्गबलात्प्राह पारा वतं पतिम्
॥२०॥कलरव्युवाच
प्रिय पारावत प्राज्ञ सर्वकामसुखारव ॥
तव दृग्विषयं प्राप्तः श्येनोऽयं प्रबलो रिपुः
॥२१॥स च तद्वाक्यमाकर्ण्य पारावत्याश्च सत्पतिः ॥
पारावतीमुवाचेदं का चिंतेति तव प्रिये
॥२२॥पारावत उवाच
कति नाम न संतीह सुभगे व्योमचारिणः ॥
कति देवालयाद्येषु खगा नोपवसंति हि
॥२३॥कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ॥
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये
॥२५॥रम त्वं च मया सार्द्ध त्यज चिंतामिमां शुभे ॥
अस्य श्येनवराकस्य गणनापि न मे हृदि
॥२५॥इत्थं पारावतवराच्छुत्वा पारावती वचः ॥
मौनमालम्ब्य संतस्थे पत्युः पादार्पितेक्षणा
॥२६॥हितवत्योपदिश्यापि प्रियं प्रियचिकीर्षया ॥
पत्न्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा
॥२७॥अन्येद्युरप्यथायातः श्येनः पश्यन्स दंपती ॥
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम्
॥२८॥अथ मंडलगत्या स प्रासादं परितो भ्रमन् ॥
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः
॥२९॥तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् ॥
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः
॥३०॥दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ॥
अयं न तां गतिं वेत्ति यां वेदाहं नभोंगणे
॥३१॥प्रडीनोड्डीनसंडीनकांडव्यांडकपाटिका ॥
स्रंसिनी मंडलवती गतयोऽष्टावुदाहृताः
॥३२॥यथैतासु हि कौशल्यं मयि वर्त्तति च प्रिये ॥
गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे ॥
सुखेन तिष्ठ का चिंचा मयि जीवति ते प्रिये
॥३३॥इति तद्वचनं श्रुत्वा आस्थिता मूकवत्सती ॥
अपरेद्युरपि श्येनस्तत्रायातः शिलातले ॥
कियदंतरमासाद्य उपविष्टोऽतिहृष्टवत् ॥
आयामांते च स स्थित्वा तत्कुलायकुलस्य च
॥३५॥पुनः श्येनो विनिर्यातः सापि कांताऽब्रवीत्पुनः ॥
प्रिय स्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम्
॥३६॥असौ क्रूरोऽतिनिकटमुपविष्टोऽतिहृष्टवत् ॥
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये
॥३७॥मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ॥
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः
॥३८॥तयोरभिमुखं तत्र स्थितो यामद्वयावधि ॥
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम्
॥३९॥गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमम् ॥
नाथ स्थानांतरं यावो मृत्युर्वै निकटेऽन्वगात्
॥४०॥पुनर्दृष्टे प्रणष्टः स्यादावासश्च सुखं प्रिय ॥
प्रिय यस्यास्ति पक्षस्य गतिः सर्वत्र सिद्धिदा
॥४१॥स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान् ॥
सोपसर्गं निजं देशं त्यक्त्वा योन्यं तु न व्रजेत्
॥४२॥स पंगुर्ना शमाप्नोति कूलस्थित इव द्रुमः ॥
प्रियोदितं निशम्येति स भवित्रीदशार्द्दितः
॥४३॥तां वाक्यं पुनरप्याह प्रिये मा भैः खगार्दिता ॥
अपरस्मिन्नहनि च स श्येनः प्रातरेव हि
॥४४॥तद्द्वारदेशमासाद्य सायं यावत्स्थितोऽचलः ॥
अस्ताचलस्य शिखरं याते भानौ गते खगे
॥४५॥कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ॥
नाथ निर्गमनस्यायं कालः कालोऽस्ति दूरतः
॥४६॥यावत्तावद्विनिर्याहि त्यक्त्वा मामपि शंसिनीम् ॥
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले
॥४७॥पुनर्दाराः पुनः पुत्राः पुनर्वसु पुनर्गृहम् ॥
यद्यात्मारक्षितः पुंसां दारैपि धनैरपि
॥४८॥तदा सर्वं हरिश्चंद्रभूपतेरिव लभ्यते ॥
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम्
॥४९॥धर्मार्थकाममोक्षाणामयमात्मार्जकः परः ॥
यावदात्मनि वै क्षेमं ताव त्क्षेमं जगत्त्रये
॥५०॥सोऽपि क्षेमः सुगतिना यशसा सह वांछ्यते ॥
यशोहीनं तु यत्क्षेमं तक्षेमान्निधनं वरम्
॥५१॥तद्यशः प्राप्यते पुंभिर्नीतिमार्गं प्रवर्तिभिः ॥
अतो नीतिपथं चिंत्यं नाथ स्थानादितो व्रज ॥
न व्रजिष्यसि चेत्प्रातस्ततो मां संस्मरिष्यसि
॥५२॥इत्युक्तोऽपि स वै पत्न्या पारावत्या सुमेधया ॥
न निर्ययौ ततः स्थानाद्भवित्र्या प्रतिवारितः
॥५३॥अथोषसि समागत्य श्येनेन बलिना तदा ॥
निर्गमद्वारमारुद्धं किंचिद्भक्ष्य वता तदा
॥५४॥दिनानि कतिचित्तत्रातिष्ठच्छयेनो महाबलः ॥
पारावतमुवाचेदं धिक्त्वा पौरुषवर्जितम्
॥५५॥किं वा युध्यस्व दुर्बुद्धे किं वा निर्याहि मे गिरा ॥
क्षुधाक्षीणो मृतः पश्चान्निरयं पश्यसि धुवम् ॥
विधिरेव हि साहाय्यं न कुर्यात्तव नोदितम्
॥५६॥इत्थं श्येनेन स प्रोक्तः पत्न्या स सहितः खगः ॥
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः
॥५७॥क्षुधितस्तृषितः सोऽथ श्येनेन बलिना धृतः ॥
चरणेन दृढेनाशु चंच्वा सापि धृता खगी
॥५८॥तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ॥
चिंतयन्भक्षणस्थानमन्यत्पक्षिविवर्जितम्
॥५९॥अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया ॥
यतोऽवमानिता नाथ त्वयाहं स्त्रीति बुद्धितः
॥६०॥अतोऽवस्थामिमां प्राप्तः किं कुर्यामबला यतः ॥
अधुनापि वचश्चैकं करोषि यदि मे प्रिय
॥६१॥तदा हितं ते वक्ष्यामि कुर्वे तदविचारितम् ॥
ममैकवाक्यकरणात्स्त्रीजितो न भविष्यसि
॥६२॥यावदास्यं गतास्म्यस्य यावत्खस्थो न भूमिगः ॥
तावदात्मविमुक्त्यै त्वं चंच्वा पादं दृढं दश
॥६३॥इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ॥
स पीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु
॥६४॥तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात ॥
पादांगुलीनां शून्यत्वे सोऽपि पारावतोऽपतत्
॥६५॥विपद्यपि च प्राज्ञैर्न संत्याज्यः क्वचिदुद्यमः ॥
क्व च चंचुपुटस्तस्य क्व च तत्पादपीडनम्
॥६६॥क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भुतम् ॥
दुर्बलेऽप्युद्यमः श्रेयानिति शास्त्रेषु गीयते
॥६७॥तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः
॥६८॥अथ तौ कालयोगेन जंबूमार्गे मृतौ तदा ॥
जंबूमार्गे मृता ये वै तेषां स्वर्गः सदाऽक्षयः
॥६९॥पुण्यशेषे तदा जातो गंधर्वतनयः शुभः ॥
मंदारदामतनयो नाम्ना परिमलालयः
॥७०॥अनेकविद्यानिलयः कलाकौशलभाजनम् ॥
कौमारं वपुरासाद्य शिवभक्तिपरोऽभवत्
॥७१॥नियमं चापि जग्राह विजितेद्रियमानसः ॥
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम्
॥७२॥परयोषित्समासक्तिरायुः कीर्तिं र्बलं सुखम् ॥
हरेत्स्वर्गगतिं चापि तस्मात्तां वर्जयेत्सुधीः
॥७३॥अपरं चापि नियमं स शुचिष्मान्समाददे ॥
गतजन्मांतराभ्यासाविलोचनसमाश्रयात्
॥७४॥समस्तपुण्यनिलयः समस्तार्थप्रकाशकः ॥
समस्तकामजनकं परानंदैककारणम्
॥७५॥यावच्छरीरं निरुजं यावन्नेद्रियविप्लवः ॥
तावत्त्रिलोचनोवंत्यां मंतव्यो नात्र संशयः
॥७६॥इत्थं मंदारदामिः स काश्यां परिमलालयः ॥
नित्यं त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नतः
॥७७॥पारावत्यपि संजाता रत्नदीपस्य मंदिरे ॥
नागराजस्य पाताले नाम्ना रत्नावलीति च
॥७८॥समस्तनागकन्यानां रूपशीलकलागुणैः ॥
एकैव रत्नभूताऽऽसीद्रत्न दीपोरगात्मजा
॥७९॥तस्याः सखीद्वयं चासीदेका नाम्ना प्रभावती ॥
कलावती तथान्या च नित्यं तदनुगे शुभे
॥८०॥स्वदेहादनपायिन्यौ छायाकांती यथा तथा ॥
पूर्वे सख्यौ भवेतां हि रत्नावल्या महेश्वरि
॥८१॥सा तु बाल्ये व्यतिक्रांते किंचिदुद्भिन्नयौवना ॥
शिवभक्तं स्व पितरं दृष्ट्वा नियममग्रहीत्
॥८२॥पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ॥
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा
॥८३॥एवं नागकुमारी सा सखीद्वयसमन्विता ॥
त्रिलोचनं समभ्यर्च्य गृहानहरहर्व्रजत्
॥८४॥मां प्रत्यग्रैः सुकुसुमैः सुशुभैरि ष्टगंधिभिः ॥
सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम्
॥८५॥तिस्रोऽपि गीतं गायंति ललितं चैव सुस्वरम् ॥
नारीमंडलभेदेन लास्यं तिस्रोऽपि र्वते
॥८६॥वीणावेणुमृदंगांश्च लयतालविचक्षणाः ॥
वादयंति मुदायुक्तास्तिस्रोऽपि विरमंति वै
॥८७॥इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ॥
विचित्रभंगीमालाभिरर्चयंत्यस्त्रिलोचनम्
॥८८॥प्रातश्चतुर्थ्यां ताः स्नात्वा तीर्थे पिलिपिले शुभे ॥
त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमण्डपे
॥८९॥सुप्तासु तासु स शिवस्त्रिनेत्रः शशिभूषणः ॥
वामार्द्धविलसच्छक्तिर्नागयज्ञोपवीतकः
॥९०॥लिंगादेव हि निर्गत्य गंगापन्नगमेखलः ॥
प्रत्युवाच ततः कन्या विभुरुत्तिष्ठतेति सः
॥९१॥उत्थाय ता विनिर्मथ्य लोचने श्रुतिसंगमे ॥
अंगमोटनवत्यश्च तदा निर्घूर्णितेक्षणाः
॥९२॥यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ॥
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः
॥९३॥ववंदिरेऽथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ॥
तुष्टुवुश्च प्रहृष्टास्ताः सन्नकंठ्योऽतिविक्लवम्
॥९४॥जय शंभो जयेशान जय सर्वग सर्वद ॥
जय त्रिपुरसंहर्तर्जयांधकनिषूदन
॥९५॥जय जालंधरहर जय कंदर्पदर्पहृत् ॥
जय त्रैलोक्यजनक जय त्रैलोक्यवंदित ॥
जय भक्तजनाधीश जय प्रमथ नायक
॥९६॥नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोऽस्तु ते
॥९७॥इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ॥
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः
॥९८॥सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ॥
पतिर्विद्याधरवरो भवतीनां भविष्यति
॥९९॥चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ॥
ततो ह्यवंतिकां प्राप्य मां ध्यात्वा सिद्धिमाप्स्यथ
॥१००॥जन्मांतरेपि मे भक्तिर्भवतीभिश्च तेन च ॥
विहिता तेन वो जन्म निर्मलं भक्तिभावितम्
॥१०१॥एतत्प्रभावतीस्तोत्रं ये पठिष्यंति मे पुरः ॥
तेभ्यः कामान्प्रदास्यामि भवतीनामयं वरः
॥१०२॥इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ॥
प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः
॥१०३॥नागकन्या ऊचुः
पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ॥
जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता
॥१०४॥ततः प्राक्तनवृत्तांत मेतस्यापि कृतात्मनः ॥
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे
॥१०५॥इति श्रुत्वा प्रणयतो बालोदीरितमीप्सितम् ॥
प्रोवाच तासामपि च भवांतरविचेष्टितम्
॥१०६॥ईश्वर उवाच
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ॥
प्राग्भवं भवतीनां च तस्यापि कथयाम्यहम्
॥१०७॥एषा रत्नावली पूर्वमासीत्पारावती खगी ॥
स च विद्याधरवरः पतिरस्याः खगोऽभवत्
॥१०८॥प्रासादे च ममैताभ्यामुषितं सुचिरं सुखम् ॥
रजः प्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः
॥१०९॥उपरिष्टादधस्ताच्च कृता भूरिप्रदक्षिणाः ॥
व्योम्नि संचरमाणाभ्यां संचीर्णं च ममाजिरे
॥११०॥स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ॥
आभ्यां कलरवाभ्यां च कृताः कलरवा मुदा
॥१११॥एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि ॥
दृष्ट्वा हि कौतुकान्यत्र मम भक्तैः कृतान्यपि
॥११२॥अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ॥
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ॥
तिर्यग्योनिप्रभावेन न मृतौ मम संनिधौ
॥११३॥जंबूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम् ॥
तस्मात्पारावती ह्येषा रत्नदीपसुताऽभवत्
॥११४॥पतिः पारावतोऽस्याश्च जातो विद्याधरांगजः ॥
एषा प्रभावती नागी नागराजस्य सद्मनि ॥
इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च
॥११५॥त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ॥
एतस्या अपि वृत्तांतं निशामय तु वच्म्यहम्
॥११६॥भवांतरे तृतीयेतः कन्ये चारायणस्य च ॥
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम्
॥११७॥पित्रा चारायणेनापि ताभ्यां संप्रेरितेन वै ॥
आमुष्यायणपुत्राय दत्ते नारायणाय हि
॥११८॥अप्राप्तयौवनोरण्ये समिदाहरणाय वै ॥
गतो विधिवशाद्दष्टो दंदशूकेन कानने
॥११९॥भवानीगौतमीनाम्न्यौ ते तु चारायणांगजे ॥
वैधव्यदुःखमापन्ने दैन्यग्रस्ते बभूवतुः
॥१२०॥अत एव प्रयत्नेन परिणेता विवर्जयेत ॥
देवतासरिदाह्वानकन्यापाणिग्रहं सुधीः
॥१२१॥अथर्षेः कस्यचिद्दैवादाश्रमे देवसन्निभे ॥
रंभाफलान्यदत्तानि मोहाज्जग्रहतुस्तदा
॥१२२॥कृत्वा नानोपवासादिव्रतानि ब्राह्मणांगजे ॥
अध्यास्य निधनं कालाच्छाखामृग्यौ बभूवतुः
॥१२३॥फलचौर्यविपाकेन वानर त्वं तयोरभूत् ॥
शीलरक्षणभावेनावंत्यां जनिमवापतुः
॥१२४॥स च नारायणो विप्रः पितृशुश्रूषणे रतः ॥
दष्टोऽपि दंदशूकेन काश्यां पारावतो भवत
॥१२५॥एवं भवांतरे चासीदेतयोः पतिरेव सः ॥
तिसृणां भवतीनां च भावी भर्ता पुनः स वै
॥१२६॥प्रासादस्यापि पार्श्वे तु न्यग्रोधश्च महानगः ॥
तस्मिञ्छाखिनि वासाढ्ये शाखामृग्यो बभूवतुः
॥१२७॥विष्णुदेहजले तीर्थे क्रीडया च ममज्जतुः ॥
पपतुश्चापि पानीयं तस्मिंस्तीर्थे तृषातुरे
॥१२८॥जातिस्वभावचापल्यात्कीडंत्यौ च प्रदक्षिणम् ॥
चक्रतुर्बहुकृत्वश्च लिंगं ददृश तुर्बहु
॥१२९॥विचरंत्यावितः स्वैरं तत्र न्यग्रोधसंनिधौ ॥
केनचिद्योगवेषेण पाशेन च नियंत्रिते
॥१३०॥भिक्षार्थं शिक्षिते तेन न प्लुतिर्न निवर्त्तनम् ॥
अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते
॥१३१॥अवन्तीवासपुण्येन त्रिलोचनस्य सेवया ॥
प्रादक्षिण्यानुरूपेण जाते नागसुते अपि
॥१३२॥अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ॥
निर्विश्य स्वर्गभोगांश्चावंत्यां निर्वृतिमाप्स्य
॥१३३॥यैरल्पमपि चावंत्या कृतं कर्म शुभावहम् ॥
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ॥
त्रैलोक्येऽपि च सर्वस्मिञ्छ्रेष्ठाऽवन्तीपुरी सदा
॥१३४॥ततोऽपि लिंगमोंकारं ततोऽप्यत्र त्रिलोचनम् ॥
तिष्ठगानोऽत्र लिंगेऽहं भुक्तिं मुक्तिं ददामि वै
॥१३५॥अतः सर्वप्रयत्नेनावन्त्यां पूज्यस्त्रिलोचनः ॥
इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरेऽविशत्
॥१३६॥लिंगस्वरूपमासाद्य शुभं त्रिभुवनादपि ॥
ताश्च स्वसदनं प्राप्य तद्वृत्तांतमशेषतः ॥
स्वमातुः पुरतश्चोक्त्वा कृतकृत्या इवाभवन्
॥१३७॥एकदा माधवे मासि सह सार्थाः समागताः ॥
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः
॥१३८॥विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ॥
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलिम्
॥१३९॥विद्याधराय ताः कन्या नागैस्तिस्रोऽपि कल्पिताः ॥
मंदारदामा सन्तुष्टः प्राप्य तच्च स्नुशत्रयम्
॥१४०॥रत्नदीपैश्च नागेन्द्रः पद्मी च भुजगेश्वरः ॥
विशिखोऽपि फणींद्रश्च हृष्टा एते त्रयोऽपि च ॥
जामातरं समासाद्य शुभं परिमलालयम्
॥१४१॥अन्योऽन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ॥
विवाहोत्सवमारच्य स्वंस्वं भवनमाविशन्
॥१४२॥त्रिलोचनस्य लिंगस्य वर्णयंतोऽपि गौरवम् ॥
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ॥
भुक्त्वावन्तीं ततः प्राप्य संसेव्य च त्रिलोचनम्
॥१४३॥गायन्गीतं सुमधुरं नागीभिः सहितः कृती ॥
आत्मानं चातिविस्मृत्य मध्येलिंगं लयं गतः
॥१४४॥त्रिलोचनस्य महिमा कलौ देवेन गोपितः ॥
ततोल्पसत्त्वा मनुजा न तल्लिमगमुपासते
॥१४५॥त्रिलोचनकथामेतां श्रुत्वा पापान्वितोऽप्यहो ॥
विपापो जायते मर्त्यो लभते च परां गतिम्
॥१४६॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
त्रिलोचनस्य देवस्य शृणु वीरेश्वरं परम्
॥१४७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये त्रिलोचनमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥