मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५८

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 58

प्रयागेश्वरसंज्ञं तु सर्वकामकरं परम्

ईश्वर उवाच

प्रयागेश्वरसंज्ञं तु सर्वकामकरं परम् ॥

अष्टाधिकं विजानीहि पंचाशत्तममीश्वरम्

॥१॥

आसीत्प्रथमकल्पे तु मनुः स्वायंभुवः पुरा ॥

तस्य प्रियव्रतः पुत्रो यज्वा परमधार्मिकः

॥२॥

स चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ॥

सप्तद्वीपेषु संप्राप्य भरतादीन्सुतान्प्रिये

॥३॥

स्वयं विशालां बदरीं गत्वा तेपे महत्तपः ॥

कालेन बहुना तत्र नारदः समुपस्थितः

॥४॥

पूजितो विष्टरार्घेण राज्ञा प्रियव्रतेन च ॥

स पृष्टः पूजयित्वा तु किमाश्चर्यं वदस्व मे

॥५॥

इत्युक्तः कथयामास नारदो मुनिसत्तमः ॥

श्वेतद्वीपे मया राजन्कन्या दृष्टा सरोवरे

॥६॥

सा च पृष्टा विशालाक्षी कस्माद्वससि निर्जने ॥

कासि भद्रे कथं वासि किंवा कार्यमिह त्वया

॥७॥

कर्त्तव्यं चारुसर्वांगि तन्ममाचक्ष्व शोभने ॥

एवमुक्ता मया सा हि मां दृष्ट्वा मीलितेक्षणम्

॥८॥

स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम् ॥

विस्मृताः सर्ववेदाश्च सर्वशास्त्राणि चैव हि

॥९॥

ततोऽहं विस्मयाविष्टश्चिंतामोहसमन्वितः ॥

तामेव शरणं गत्वा यावत्पश्यामि पार्थिव

॥१०॥

तावद्दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ॥

तस्यापि पुंसो ह्रदये द्वितीयस्तस्य चोरसि ॥

तस्यापि हृदये चान्यस्तृतीयस्तु व्यवस्थितः

॥११॥

ततः पृष्टा मया देवी सा कुमारी कथंचन ॥

वेदा नष्टा ममाशेषा भद्रे किं ब्रूहि कारणम्

॥१२॥

कन्योवाच

माताहं सर्ववेदानां सावित्रीनाम नामतः ॥

मां न जानासि येन त्वमतो वेदा हृतास्तव

॥१३॥

एवमुक्ते मया पृष्टा विस्मयेन महीपते ॥

वेदानां त्वं तु माता वै कथयस्व ममानघे

॥१४॥

त्वदीय हृदये देवि क एते पुरुषास्त्रयः

॥१५॥

कन्योवाच

य एष मच्छरीरस्थः शुभांगश्चारु शोभनः ॥

एष ऋग्वेदनामा तु यजुर्वेदो द्वितीयकः

॥१६॥

सामवेदस्तृतीयस्तु त्रयो वेदा मयि स्थिताः ॥

त्रयोऽग्नयस्त्रयो देवा मच्छरीरे स्थिता द्विज

॥१७॥

इत्युक्त्वा सा तदा कन्या पश्यतो मम भूपते ॥

अंतर्द्धानं गता सद्यस्ततोऽहं विस्मितोऽभवम्

॥१८॥

किं करोमि क्व गच्छामि शरणं यामि कं प्रभुम् ॥

कथमाविर्भविष्यंति वेदाः शास्त्राणि सांप्रतम्

॥१९॥

कामिकस्तीर्थराजस्तु प्रयागः श्रूयते श्रुतौ ॥

अहं तत्र गमिष्यामि ज्ञानं सम्यग्भविष्यति

॥२०॥

नष्टवेदेन रैभ्येण प्राप्ता सिद्धिरनुत्तमा ॥

सावित्री श्रूयते तत्र अक्षय्यवटसन्निधौ

॥२१॥

एवं मनसि संध्याय गतोऽहं नृपसत्तम ॥

प्रयागं कामिकं तीर्थं सर्वदेवनमस्कृतम्

॥२२॥

तपस्तीव्रं मया तत्र तप्तं परमदुष्करम् ॥

अथाजगाम राजेंद्र प्रयागो मूर्त्तिमान्स्वयम्

॥२३॥

उक्तोऽहं प्रणयात्तेन न मां तापय नारद ॥

ब्रह्मपुत्र प्रयागोऽहं भीषितस्तपसा तव

॥२४॥

भवतः पार्श्वमायातः प्रणयेन तपोधन ॥

धन्योऽसि सर्वथा ब्रह्मंस्तपसा च विशेषतः

॥२५॥

मया सार्धं त्वया ब्रह्मन्गतिः कार्याऽविकल्पतः ॥

महाकालवने रम्ये तत्र ते ज्ञानमुत्तमम् ॥

भविष्यति न संदेहो मम कीर्तिश्च सुस्थिरा

॥२६॥

एवं हि ब्रुवतस्तस्य प्रयागस्य नृपोत्तम ॥

प्रादुर्बभूव सहसा पीतवासा जनार्द्दनः

॥२७॥

शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः ॥

उवाच मेघगंभीरं वाक्यं स पुरुषोत्तमः

॥२८॥

एहि नारद गच्छामः प्रयागो यत्र यास्यति ॥

कृष्णस्य वचनं श्रुत्वा मया प्रोक्तो जनार्दनः

॥२९॥

ज्ञानं मे देहि देवेश कथं यास्यामि तद्वनम् ॥

महाकालं जगन्नाथ श्रुतज्ञानविवर्जितः

॥३०॥

इत्युक्तः श्रीधरेणाहं महाकालवनं नृप ॥

आनीतस्तत्क्षणाच्छीघ्रं प्रयागसहितस्तदा

॥३१॥

घंटेश्वरस्य पूर्वे तु नवनद्यास्तु दक्षिणे ॥

तत्र लिंगमनादि तु ज्योतीरूपं सनातनम्

॥३२॥

प्रयागः पूजयामास पश्यतो मम भूपते ॥

लिंगेनोक्तं प्रसन्नेन किमर्थं त्वमिहागतः

॥३३॥

प्रयाग प्रयतो भूत्वा प्रसन्नोऽहं सदा तव ॥

दर्शनं च मदीयं तु विफलं न भविष्यति

॥३४॥

इत्युक्तस्तेन लिंगेन मदर्थं प्रार्थितस्तदा ॥

ज्ञानं देहि द्विजायास्मै नारदाय महात्मने

॥३५॥

नष्टा वेदाश्च शास्त्राणि सावित्र्या दर्शनात्प्रभो

॥३६॥

ततो लिंगात्समुत्तस्थौ ब्रह्मा वेदैर्वृतस्तदा ॥

षडंगैः सरहस्यैश्च पुराणैः सहितस्तदा

॥३७॥

इत्युक्तोऽहं तदा देव्या सावित्र्या नृपसत्तम ॥

लिंगस्यास्य प्रभावेण प्रयागाभ्यर्थितस्य वै

॥३८॥

प्रतिभास्यंति ते वेदा धर्मशास्त्राणि नारद ॥

इत्युक्ते वचने भूयः प्राप्ता वेदा मया नृप

॥३९॥

ज्ञानं षडंगसहितं शास्त्राणि विविधानि च ॥

लब्धज्ञानेन राजेंद्र मया प्रोक्तं वचस्तदा

॥४०॥

प्रयागेनार्चितो देवो मम ज्ञानस्य कारणात् ॥

प्रयागेश्वरसंज्ञस्तु ख्यातिं लोकेषु यास्यति

॥४१॥

तदाप्रभृति तल्लिंगं तीर्थकोटिशतैर्वृतम् ॥

स्वर्गापवर्गफलदं तत्र त्वं गंतुमर्हसि

॥४२॥

किमनेनाश्वमेधेन इष्टेन नृपसत्तम ॥

अश्वमेधशतफलं जायते तस्य दर्शनात्

॥४३॥

तपसा किं सुतप्तेन कायक्लेशकरेण तु ॥

वाञ्छितं लभते सद्यः प्रयागेश्वरदर्शनात्

॥४४॥

ईश्वर उवाच

नारदस्य वचः श्रुत्वा स्वायंभुवसुतो नृपः ॥

प्रियव्रतो महादेवि महाकालवनं गतः

॥४५॥

ददर्श तत्र तल्लिंगं नवनद्यास्तु दक्षिणे ॥

दर्शनात्तस्य लिंगस्य मत्समीपं समागतः

॥४६॥

मया संमानितो देवि गणानामधिपः कृतः ॥

ये पश्यंति नरा भक्त्या प्रयागेश्वरमीश्वरम् ॥

ते धन्या मानुषे लोके क्लिश्यन्त्यन्ये निरर्थकाः

॥४७॥

या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः ॥

सा गतिर्जायते सम्यक्प्रयागेश्वरदर्शनात्

॥४८॥

माघमासे समेष्यंति प्रयागेश्वरदर्शनम् ॥

कर्त्तुं ये मानुषास्तेषामश्वमेधः पदेपदे

॥४९॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

प्रयागेश्वरदेवस्य शृणु सिद्धेश्वरं परम्

॥५०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खंडे चतुरशीतिलिङ्गमाहात्म्ये प्रयागेश्वरमाहात्म्यवर्णनंनामाष्टपंचाशत्तमोऽध्यायः ॥ ५८ ॥