चद्रादित्येश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
द्विसप्ततीश्वरं विद्धि चन्द्रादित्येश्वरं प्रिये ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्
॥१॥शंबरेण पुरा देवि निर्जिताः संगरे सुराः ॥
नष्टा रणं परित्यज्य प्राणत्राणपरायणाः
॥२॥ग्रस्तं च राहुणा दृष्ट्वा शशांकं भयविह्वलम् ॥
विनतायाः सुतो ज्येष्ठः प्रोक्तः सूर्येण सारथिः
॥३॥वहारुण रथं शीघ्रं यत्र युद्धं न विद्यते ॥
श्रूयते चन्द्रसूर्यौ तौ दैत्यानां बलवत्तरौ
॥४॥राहुर्दंष्ट्राकरालस्तु स तृतीयो भयंकरः ॥
न ज्ञायते रणे चन्द्रो मृतो नष्टोऽथवा पुनः
॥५॥स च न ज्ञायते शक्रः क्व गतो वरुणो रणे ॥
यमो न ज्ञायते कुत्र धनदस्य च का कथा
॥६॥एवमुक्तोऽरुणो रुग्णो रविणा रणमध्यतः ॥
रथं संप्रेरयामास यत्र युद्धं न विद्यते
॥७॥एतस्मिन्नंतरे चन्द्रः समायातस्तु तत्क्षणात् ॥
राहुग्रहगृहीतोऽपि यत्र देवो दिवस्पतिः
॥८॥संत्रस्तः स विलोलाक्षः क्षणमात्रमचेतनः ॥
बभूव सहसा चन्द्रो दृष्ट्वा देवं दिवाकरम्
॥९॥शंबरेण रणे रुद्धा रुद्राश्च भयविद्रुताः ॥
जग्मुर्दिशो दश भयादसुरेन्द्रविभीषिताः
॥१०॥साध्याः सर्वे भयत्रस्ता गता यत्र न दानवाः ॥
तेषु भग्नेषु देवेषु हतशिष्टेषु संगरे
॥११॥व्यधमत्सर्वगात्राणि वर्माणि च जनक्षये ॥
पलायमानदेवानामसुरो बलवच्छरैः
॥१२॥पृष्ठतो निजघानाथ निकृत्ताश्च सहस्रशः ॥
अहं नष्टच्छलेनैव व्यग्रीभूते ऽसुरे तदा
॥१३॥आसुरं रूपमास्थाय प्राणत्राणपरायणः ॥
शीघ्रं च गम्यते तावद्यावन्नायाति शंबरः
॥१४॥इत्युक्तं निशिनाथेन भयभीतेन पार्वति ॥
चन्द्रादित्यौ क्षणान्नीतावरुणेन रथेन वै
॥१५॥यत्र देवो जगन्नाथो गरुडस्थो जनार्दनः ॥
सुरसंघातसंकेतकिंनराकीर्णकंदरे
॥१६॥मंदरे सुरनारीणां नंदने वरचन्दने ॥
दृष्ट्वा तत्र जगन्नाथं शंखचक्रगदाधरम् ॥
स्तुतिं तौ चक्रतुर्देवौ चन्द्रसूर्यौ यशस्विनि
॥१७॥नमो लोकत्रयाध्यक्ष स्वप्रभाजितभास्कर ॥
नमो विष्णो नमो जिष्णो नमस्ते कैटभांतक
॥१८॥नमः सर्वक्रियाकर्त्रे जगत्त्रात्रे च ते नमः ॥
नमश्चक्रायुधाधृष्य नमो दानवघातिने
॥१९॥नमः क्रमत्रयाक्रांतत्रैलोक्यांतर्हितोद्भव ॥
नमः प्रचंडदैत्येंद्रकुलकाल महाबल
॥२०॥नमो नाभिह्रदोद्भूतपद्मगर्भमहाप्रभो ॥
जनिताशेषलोकेशविरंचाय महाद्युते
॥२१॥अमरारिविनाशाय महासमरशालिने ॥
नमस्ते विबुधाधीश शरणं भव नः प्रभो
॥२२॥चन्द्रसूर्यकृतं स्तोत्रं श्रुत्वा देवो जनार्दनः ॥
आश्वास्य स्तुतिपूर्वेण प्राह देवो ह्यधोक्षजः
॥२३॥विष्णुरुवाच
स्वागतं चन्द्रसूर्यौ भो भवंतौ स्तुतिभाजनौ ॥
किं कारणमिह प्राप्तौ तद्ब्रूतां विगतज्वरौ
॥२४॥नारायणेनैवमुक्तौ प्रोचतुश्चंद्रभास्करौ ॥
समरे निर्जिता देवाः शंबरेण दुरात्मना
॥२५॥न ज्ञाताः क्त्र गतास्ते च आवां नष्टौ प्रयत्नतः ॥
अरुणेन इहानीतौ दृष्टस्त्वं देव दैवतः
॥२६॥शंबरेण जिता देवाः स च सर्वत्र दृश्यते ॥
स्थले चैव जले चैव शंबरः क्रूरपौरुषः
॥२७॥नश्यतां त्रिदशेंद्राणां पृष्ठतः शरवृष्टिभिः ॥
चिच्छेद नरवर्माणि च्छत्राणि च धनूंषि च
॥२८॥वर्माणि च विचित्राणि मुकुटानि महांति च ॥
पृथूनि चापि चापानि चर्माणि विविधानि च
॥२९॥गजाश्च मदसंभिन्नकपोलाः कोटिशः सुराः ॥
वाजिनश्चामरापीडा रत्नपर्याणभूषणाः
॥३०॥विबुधा ध्वस्तसन्नाहा विगजा विपदातिनः ॥
विपदामाकराकारा बभूव सुरवाहिनी
॥३१॥ततो दैत्याधिपो मानी परिवृत्तो महारणात् ॥
निर्जितारिर्महातेजा ज्वालावानिव पावकः
॥३२॥वंद्यमानो मुनिगणैः स्तूयमानो महर्षिभिः ॥
आनंदितो जयाशीर्भिः प्रवरैर्दैत्यपुंगवैः
॥३३॥तत्र सर्वर्द्धिसंपूर्णमासनं हेमभूषणम् ॥
अध्यतिष्ठत दैत्येंद्रस्तत्र मंगलवेश्मनि ॥
तत्रोपविष्टः शुशुभे दैत्यराजो महायशाः
॥३४॥दिव्यचंदनपुष्टांगः सुरपुष्पसमुज्ज्वलः ॥
मुकुटाकारजुष्टांगः सितचामरवीजितः ॥
मृतोत्थितैस्तथा दैत्यैर्दैत्याधीशैरधिष्ठितः
॥३५॥क्रतुभिर्मूर्त्तिमद्भिश्च सेव्य मानो महाबलः ॥
सर्वपुष्पोत्करयुतैर्नानाविहगनादिभिः
॥३६॥तत्र श्रीरतुला लोके तत्र लक्ष्मीर्निरर्गला ॥
तत्र कांतिर्द्युतिः शोभा शंबरो यत्र दानवः
॥३७॥एवं स दैत्यनृपतिः सभृत्यस्तत्र मोदते ॥
स्वयमिंद्रस्तु संजातश्चंद्रसूर्यौ कृतौ स्वकौ
॥३८॥तयोरिति वचः श्रुत्वा स देवः पुरुषोत्तमः ॥
चिरं ध्यात्वा स्वमनसि तदावोचदिदं प्रिये
॥३९॥चंद्रसूर्यौ मया ज्ञातं शंबरस्य विचेष्टितम् ॥
ब्रह्मणो वरदानेन भोक्तव्यं तपसः फलम्
॥४०॥शंबराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ॥
हृदये निहतः सोऽपि तथापि न मृतोऽसुरः
॥४१॥गम्यतां च मयाज्ञप्तौ महाका लवनोत्तमे ॥
चन्द्रसूर्यौ ममादेशात्तत्र सिद्धिं च लप्स्यथ
॥४२॥तत्रानंतो महाकालो लिंगरूपो महेश्वरः ॥
तस्य चोत्तरतो देशे लिंगं कामप्रदं शिवम्
॥४३॥तस्य दर्शनमात्रेण कृतकृत्यौ भविष्यथः ॥
तस्य ज्वालासमूहेन मरणं शंबरस्य च ॥
भविष्यति न संदेहस्तस्मात्तत्रैव गम्य ताम्
॥४४॥इत्युक्तौ वासुदेवेन चंद्रसूर्यौ यशस्विनि ॥
सत्वरं हृष्टरोमाणौ महाकालवनं गतौ
॥४५॥तत्र दृष्ट्वा महादेवं तेजसो राशिमव्य यम् ॥
स्तुतं च विविधैः स्तोत्रैः पूजितं कुसुमैः शुभैः
॥४६॥एतस्मिन्नंतरे वाणी लिंगमध्यात्समुत्थिता ॥
आश्वासयंती तरसा चन्द्रसूर्यौ हिमात्मजे
॥४७॥हतः स शंबरो दैत्यो गतौ तौ चन्द्रभास्करौ ॥
दैत्यानां निर्मितौ दुष्टौ पातालांतरसंस्थितौ
॥४८॥राहुकेतू ग्रहांते तु कृतौ समयपूर्वकौ ॥
स्थापितः स्वपदे शक्रो देवैः सह न संशयः
॥४९॥स्वं स्वं स्थानं गताः सर्वे लोकपाला मुदा युताः ॥
कांतिप्रतापसंयुक्तौ भवन्तौ भुवनत्रये
॥५०॥गगने ग्रहनक्षत्रैः सहितौ विचरिष्यथः ॥
पूर्ववत्पुण्यपापानां साक्षिभूतौ भविष्यथः
॥५१॥इत्युक्तौ चन्द्रसूर्यौ तु तया वाण्या वरानने ॥
सन्तुष्टौ कृतकृत्यौ तु संजातौ लिंगदर्शनात्
॥५२॥एतस्मिन्नंतरे देवा विमानस्था समागताः ॥
यत्र चंद्रश्च सूर्यश्च महाका लवने शुभौ
॥५३॥ज्ञात्वा लिंगस्य माहात्म्यं नाम चकुः समाहिताः ॥
सेवितं चंद्रसूर्याभ्यां लिंगं तेजोमयं परम्
॥५४॥चन्द्रादित्येश्वरंनाम ख्यातिं यास्यति भूतले ॥
लिंगस्यास्य समुत्थेन ज्वालासंघेन शंबरः ॥
दग्धो भृत्यजनैः सार्द्धं चन्द्रसूर्यानुसेवनात्
॥५५॥इत्युक्त्वा त्रिदशाः सवें समीपे सर्वतः स्थिताः ॥
स्तुवन्तो विविधैः स्तोत्रैश्चंद्रादित्येश्वरं शिवम्
॥५६॥चन्द्रादित्यौ च तत्रस्थौ स्थितौ लिंगसमीपतः ॥
आराधयन्तौ देवेशं पदं प्राप्तौ च पूर्ववत्
॥५७॥ये पश्यंति नरा भक्त्या चन्द्रादित्येचरं शिवम् ॥
ते यांति सूर्यलोकं तु चन्द्रलोकं तथैव च
॥५८॥विमानैः सूर्यसकाशैस्तथा चंद्रप्रभैः शुभैः ॥
यावच्चन्द्रश्च सूर्यश्च तावत्तेषां सुखं भवेत्
॥५९॥चन्द्रसूर्योपरागे तु चंद्रादित्येश्वरं शिवम् ॥
ये पश्यंति नरा भक्त्या स्नात्वा शिप्रां च पावनीम्
॥६०॥तेषां कुलशतं यावत्पैतृकं मातृकं तथा ॥
लोके चंद्रस्य सूर्यस्य मोदते शाश्वतीः समाः
॥६१॥अमासोमसमायोगे ये पश्यन्ति प्रसंगतः ॥
चन्द्रादित्येश्वरं देवं न ते यांति यमालयम्
॥६२॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
चन्द्रादित्येश्वरेशस्य श्रूयतां करभेश्वरम्
॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्य उमामहेश्वरसंवादे चद्रादित्येश्वरमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥