एकविंशतिकं विद्धि कुक्कुटेश्वरसंज्ञकम्
ईश्वर उवाच
एकविंशतिकं विद्धि कुक्कुटेश्वरसंज्ञकम् ॥
यस्य दर्शनमात्रेण तिर्यग्योनिर्न लभ्यते
॥१॥कौशिकोनाम राजाभूत्कुक्कुटो जायते सदा ॥
दृश्यते वासरे भागे सर्वाभरणभूषितः
॥२॥व्याप्ता च पृथिवी तेन सशैलवनकानना ॥
पूर्वकर्मप्रभावेन प्राप्तं राज्यमकण्टकम्
॥३॥विशालानाम विख्याता भार्या तस्य महीपतेः ॥
रूपलावण्यसंयुक्ता चतुःषष्टिकलान्विता
॥४॥तया चकार सहितः स राज्यं राजसत्तमः ॥
सा वल्लभापि नृपतेः प्राणेभ्योऽपि गरीयसी
॥५॥तया सार्द्धं कदाचिच्च सुरतं नास्ति पार्वति ॥
संतप्ता सर्वदा सा च रत्यभावाद्बभूव ह
॥६॥एवं गच्छति काले तु सह राज्ञा स्मरातुरा ॥
सर्वसत्त्वरुतज्ञा सा विशाला विपुलेक्षणा ॥
ददर्श कीटमिथुनमनंगकलहातुरम्
॥७॥प्रसादयंस्तथा कीटः स्वां प्रियां च मुहुर्मुहुः ॥
दासोऽस्मि तव कांतेऽहं रूपसौभाग्य सुन्दरि
॥८॥भजस्व मां यथाकाममनंगशरपीडितम् ॥
शिरसा प्रणतेनैव रचितस्ते मयांजलिः
॥९॥न त्वया सदृशी लोके कामिनी विद्यते क्वचित् ॥
सुवर्णवर्णसदृशी मद्भक्ता चारुहासिनी
॥१०॥कुतो वा मयि दीने त्वं क्रुद्धेव प्रियवादिनि ॥
किमर्थं वद कल्याणि सरोषव दना स्थिता
॥११॥सा तमाह प्रकोपाच्च किमालपसि मां वृथा ॥
त्वया मोदकचूर्णं तु मां विहाय मनोरमाम् ॥
प्रदत्तं कामलुब्धेन अन्यस्य कीटकाधम
॥१२॥नाहमेवं करिष्यामि कीटः प्राह पुनःपुनः ॥
स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे
॥१३॥इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्तदा ॥
आत्मानमर्पयामास कामनाय पिपीलिका
॥१४॥दृष्ट्वा तन्महदाश्चर्यं सा राज्ञी विललाप ह ॥
धिग्राज्यं धिक्च मे रूपं धिक्च यौवनमद्य मे ॥
न कामिताहं कांतेन मरिष्यामि न संशयः
॥१५॥एवं विलप्य बहुधा विनिःश्वस्य पुनःपुनः ॥
उन्मत्तेव विशालाक्षी गालवस्याश्रमं गता
॥१६॥दृष्ट्वा तमृषिमासीनं तपोयोनिं दृढव्रतम् ॥
उवाच प्रणतांगी सा शोकसंतप्तमानसा
॥१७॥एकोऽयं संशयो ब्रह्मन्हृदये परिवर्त्तते ॥
वश्योऽपि हि च मे भर्त्ता रूपलावण्यवानपि ॥
न जाने कारणं किं तु संगमो नोपजायते
॥१८॥यो गत्वा प्रमदाराज्यं जित्वा सर्वाः पुरा रणे ॥
आजहार शुभास्तासां मध्यादष्टौ वरांगनाः ॥
नैव कामयते तासु किमेतदिति सुव्रत
॥१९॥वाजिनो वारणाश्चैव धनधान्यमनंतकम् ॥
वर्त्तते हि जनः सर्वो ममाज्ञां पालयन्क्षितौ
॥२०॥केन कर्मविपाकेन ममेदं यौवनं दृढम् ॥
व्यर्थं जातं द्विजश्रेष्ठ रतिं न कुरुते नृपः
॥२१॥दृश्यते वासरे भागे रात्रौ चैव न दृश्यते ॥
इहजन्मकृतं चैतदाहोस्वित्पारलौकिकम्
॥२२॥दुष्कृतावर्जनं ब्रह्मन्ममेदं वक्तुमर्हसि ॥
तस्यास्तद्वचनं श्रुत्वा गालवो वाक्यमब्रवीत्
॥२३॥शृणु पुत्रि पुरावृत्तं बालभावेन यत्कृतम् ॥
अनेन राज्ञा धर्मज्ञे रात्रौ येन न दृश्यते
॥२४॥विदूरथस्य तनयस्तव भर्ता स निश्चितम् ॥
मांसाहारी दोषरतिर्विषयासक्तमानसः
॥२५॥बहवः कुक्कुटास्तेन भक्षिता राजसूनुना
॥२६॥एवं भक्षयतस्तस्य बहुशो वत्सरा गताः ॥
कालेन महता राज्ञा ताम्रचूडेन मंत्रिणः ॥
पृष्टाः किं कारणं नात्र समायांति हि कुक्कुटाः
॥२७॥अथ केनापि कथितं कुक्कुटानां च भक्षणम् ॥
विदूरथस्य पुत्रेण कौशिकेन दुरात्मना ॥
भक्षिताः कुक्कुटाः सर्वे विना कारणतो नृप
॥२८॥ताम्रचूडोऽथ संक्रुद्धो ददौ शापं दुरात्मने ॥
कौशिकाय क्षयो रोगो भविष्यति भयावहः
॥२९॥तदाप्रभृत्यभूत्क्षीणो राजपुत्रो दिनेदिने ॥
औषधैरधिकोऽभ्येति व्याधिना पीडितो भृशम्
॥३०॥अथ केनापि कामेन वामदेवाश्रमं गतः ॥
क्षयरोगाभिभूतोऽसौ मरणोत्सुकमानसः ॥
पप्रच्छ वामदेवं स नमस्कृत्य पुनःपुनः
॥३१॥भगवन्केन पापेन क्षीयतेऽहर्निशं वपुः ॥
मदीयं पोष्यमाणं हि मांसेन विविधेन च
॥३२॥वामदेवोऽथ तं प्राह कुक्कुटा भक्षितास्त्वया ॥
ताम्रचूडेन शप्तोऽसि कुक्कुटानां नृपेण हि
॥३३॥तमेव शरणं गच्छ स उपायं वदिष्यति ॥
ततः स ताम्रचूडस्याभ्यर्णमागानृपात्मजः
॥३४॥दृष्ट्वा च ताम्रचूडं तं महाभक्त्या कृतांजलिः ॥
प्रोवाच प्रणतो भूत्वा पाहि मां शरणागतम्
॥३५॥अज्ञानाद्भक्षिता देव कुक्कुटाः पुष्टिकारणात् ॥
क्षंतुमर्हसि देवेश ममागः कृपणस्य च
॥३६॥प्रोवाच ताम्रचूडोऽथ यस्मात्प्रार्थयसे नृप ॥
तस्मात्ते वासरे प्राप्ते पुरुषत्वं भविष्यति
॥३७॥शास्ता गोप्ता च लोकानां राजा दंडधरः प्रभुः ॥
कुक्कुटो भविता रात्रौ सर्वभोगविवर्जितः
॥३८॥अतो न दृश्यते पुत्रि तिर्यग्भावं समाश्रितः
॥३९॥इति तस्य वचः श्रुत्वा गालवस्य महात्मनः ॥
सा संपूज्य विशालाक्षी गालवं मुनिसत्तमम् ॥
पप्रच्छ परया भक्त्या शापांतो हि कथं भवेत्
॥४०॥गालवः कथयामास ध्यानेनालोक्य यत्नतः
॥४१॥महाकाल वने लिंगं पक्षियोनिविमोचनम् ॥
ज्वालेश्वरस्य देवस्य पूर्वभागे व्यवस्थितम् ॥
तस्य दर्शनमात्रेण शापस्यांतो भविष्यति
॥४२॥सा प्रणम्य मुनिश्रेष्ठमाजगाम त्वरान्विता ॥
यत्रास्ते नृपशार्दूलो विध्यन्बहुविधान्मृगान्
॥४३॥प्रफुल्लनयनाभ्यां सा दृष्टा लोलेक्षणा प्रिया ॥
आह्लादिता बहुविधैः कोमलैर्वचनामृतैः
॥४४॥ततस्तेन तदा राज्ञा प्रोक्ता सा मृगलोचना ॥
इदानीं कि मया कांते कार्यं भवति कथ्यताम्
॥४५॥तया प्रोक्तं महाराज गम्यतेऽद्य मया सह ॥
महाकालवने पुण्ये सर्वदुष्कृतनाशने
॥४६॥तस्यास्तद्वचनं श्रुत्वा त्वरमाणो मुदान्वितः ॥
तया नीतोऽथ नृपतिर्लिंगस्यास्य समीपतः
॥४७॥पूजयित्वाथ तल्लिंगं पक्षियोनिविमोचनम् ॥
तत्रैव च स्थितो राजा प्रियया सह पार्वति
॥४८॥तस्यां रात्रौ न संजातः कुक्कुटो यादृशः सदा ॥
शिवप्रसादादभवद्दिव्यरूपी मनोहरः
॥४९॥रूपेण निर्जितः कामस्तेनाप्रतिमतेजसा ॥
ततो विस्मयमापन्नश्चिंतयामास पार्थिवः ॥
कोऽयं प्रभावो येनाहं शापान्मुक्तः सुदुस्तरात्
॥५०॥प्रियां पप्रच्छ नृपतिः पूर्णेन्दुवदनां भृशम् ॥
कथं शापाद्विमुक्तोऽहं केन पुण्येन कर्मणा
॥५१॥अथ सा कथयामास वृत्तांतं विस्तरान्मुदा ॥
गालवेन हि यत्प्रोक्तं यत्किंचिच्छापमोक्षणम्
॥५२॥राजञ्छापाद्विमुक्तोऽसि लिंगस्यास्य प्रभावतः ॥
पुनः प्रसाद्य तल्लिंगं भुक्त्वा भोगांश्चिरं भुवि
॥५३॥तया सार्द्धं ययौ राजा स्वर्गं सुरगणैः स्तुतः ॥
तदाप्रभृति तल्लिंगं कुक्कुटेश्वरसंज्ञकम्
॥५४॥विख्यातं देवि लोकेऽस्मिन्सर्वकामफलप्रदम् ॥
तच्च ये पूजयिष्यंति कुक्कुटेश्वरसंज्ञकम् ॥
तिर्यग्योनिं न यास्यंति न वियोगो भविष्यति
॥५५॥न चापि नरकावाप्तिर्न दुःखं न जरा भयम् ॥
नाकाले मरणं नॄणां न च कष्टं भवि ष्यति
॥५६॥रूपसौभाग्यसंपन्ना भविष्यंति युगेयुगे ॥
चतुर्द्दश्यां प्रपश्यति लिंगं ये कुक्कुटेश्वरम् ॥
तेषां कुले च ये केचित्पितरो निरयस्थिताः
॥५७॥तिर्यग्योनिगता ये च पशुयोनिं तु ये गताः ॥
वृक्षत्वमथवा प्राप्तास्तेषां मोक्षो भविष्यति
॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कुक्कुटेश्वरमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥