विश्वेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
त्रिपंचाशत्तमं विद्धि सुप्रसिद्धमथेश्वरम् ॥
परं विश्वेश्वरं ख्यातं विश्वेषु भुवनेष्वपि
॥१॥बभूव नृपतिः पूर्वं विदर्भायां विदूरथः ॥
सोन्तःपुरायुतोपेतं चक्रे राज्यमकंटकम्
॥२॥जघान तापसं सोऽथ प्रमादान्मृगया गतः ॥
कृष्णाजिनधरं शांतं ध्यायंतं ब्रह्म शाश्वतम्
॥३॥मृगं मत्वा महारण्ये ब्राह्मणं देवमोहितः ॥
तेन कर्मविपाकेन देहांते रौरवं गतः
॥४॥तत्रासौ यातना घोरां अनुभूयात्मकालतः ॥
तस्मादिहागतो मर्त्त्ये सर्पो विषधरोऽभवत्
॥५॥अदशत्सोऽपि कोपेन ब्राह्मणं चरणे प्रिये ॥
लकुटेन हतः सोऽपि पंचत्वं तत्क्षणाद्गतः
॥६॥च्युतस्तु नरकात्सिंहो द्वितीयेऽभूत्सुदारुणः ॥
राजानं भक्षयामास राजलोकैर्निपातितः
॥७॥पुनर्व्याघ्रो बभूवासौ तृतीयेऽपि भवांतरे ॥
तीक्ष्णपादनखैर्घोरैर्घातयामास सूकरान्
॥८॥तेनापि वैश्यो निधनं नीतः कश्चिद्वनांतरे ॥
निषादैर्निहतः सोऽपि बाणैः पंचत्वमागतः
॥९॥चतुर्थे ऽपि गजो जातः सिंहाद्वधमवाप्तवान् ॥
पंचमे मकरो जातः क्षारांभसि महोदधौ
॥१०॥स्नातुकामामथो रामामाजघानातिपापकृत् ॥
धीवरैः कृतधिक्कारैर्बडिशैः सन्निपातितः
॥११॥पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः ॥
सिद्धमंत्रैरथोदग्रैरथर्वप्रभवैर्भृशम्
॥१२॥मंत्री मंत्रविदां श्रेष्ठो ब्राह्मणस्तं जघान ह ॥
सप्तमे स पुनर्जातो दुर्निरीक्ष्यवपुर्भृशम्
॥१३॥तीक्ष्णदंष्ट्रः करालास्यो मांसशोणितभोजनः ॥
शुष्कांगो मरुभूमीषु पापिष्ठो ब्रह्मराक्षसः
॥१४॥आक्रम्य निमिराजेन राज्ञा राक्षसशत्रुणा ॥
समारोप्य धनुः संख्ये ब्रह्मास्त्रेण निपातितः
॥१५॥दारुणः सारमेयोऽभूदतिकृष्णोऽष्टमे भवे ॥
स शूकरखुराघातव्रणैः पंचत्वमागतः
॥१६॥नवमे जंबुको जातः श्मशाने स च मांसभुक् ॥
लौल्यात्स निधनं प्राप्तो दुःखार्त्तो दाववह्निना
॥१७॥दशमे त्वभवद्गृध्रस्तीक्ष्णतुंडो भयावहः ॥
पूतिमांसवसाहारो रोगेण निधनं गतः
॥१८॥एकादशे ऽपि चंडालो गतोऽवंत्यां वरानने ॥
द्रव्यस्य हरणार्थं वै प्रविष्टो द्विजवेश्मनि
॥१९॥स दंडपाशिकेनैव प्राप्तो बद्धश्च तत्क्षणात् ॥
आनीतो हि वधार्थाय वृक्षाग्रे ह्यवलंबितः
॥२०॥तत्रैव लिंगमासन्नं साध्वि शूलेश्वरोत्तरे ॥
तस्य दृष्टिपथं प्राप्तमतिविक्लवचेतसः
॥२१॥क्षणेन निधनं प्राप्तः स गतस्त्रिदशालयम् ॥
तत्र भुक्त्वा वरान्भोगानवतीर्य च भूतले
॥२२॥जातः ख्यातो विदर्भायां विश्वेशोनाम पार्थिवः ॥
जातिस्मरत्वमापन्नो लिंगदर्शनपुण्यतः
॥२३॥दुर्लभान्बुभुजे भोगान्प्राप्तं राज्यं चकार सः ॥
सोऽभिषिच्य सुतं राज्ये विनीतमतिधर्मवित् ॥
संस्मरन्पूर्ववृत्तांतं जगामावंतिकां पुरीम्
॥२४॥तत्र दृष्ट्वा महल्लिंगं दुर्दर्शमतितेजसा ॥
दिव्येन चक्षुषाऽपश्यल्लिंगमध्ये चराचरम्
॥२५॥लिंगमध्ये स्थिताः सर्वे सागराः सरितस्तथा ॥
द्वीपाश्च पर्वताश्चैव तथान्या दिव्यभूतयः
॥२६॥चंद्रमाः सह नक्षत्रैरादित्यश्चाग्निना सह ॥
धनदो वरुणश्चैव यमः शक्रो मरुत्पतिः
॥२७॥मरुतो देवगंधर्वा ऋषयश्च तपोधनाः ॥
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः
॥२८॥ब्रह्माद्या देवताश्चान्याः स्कंदो लंबोदरस्तथा ॥
सर्वं त्रिभुवनं देवि लिंगमध्ये विलोकितम्
॥२९॥प्रभावं तस्य लिंगस्य ज्ञात्वा सम्यङ्महीपतिः ॥
संयतः पूजयामास विश्वयोनिं महेश्वरम्
॥३०॥प्रसन्नश्चाभवत्तस्य वचनं चेदमब्रवीत् ॥
वरं वरय भद्रं ते किमभीष्टं ददामि ते
॥३१॥तेनोक्तं वचनं राज्ञा यदि तुष्टोसि मे प्रभो ॥
ये त्वां पश्यंति मनुजाः श्रद्धयाऽश्रद्धयाऽथवा
॥३२॥मा भूत्तेषां प्रपतनं घोरे संसारसागरे ॥
विश्वेश्वरेति नाम्ना वै प्रसिद्धो भव भूतले
॥३३॥इत्युक्ते वचने भूयो विश्वेशोऽलंकृतो गणैः ॥
विमानेन सुदीप्तेन गतो लोकं मदीयकम्
॥३४॥गणैर्नानाविधैः सार्द्धं स्तूयमानो वरानने ॥
किरीटी कुण्डली चैव मुक्ताहारविभूषितः ॥
विमानं तस्य तद्दिव्यं परिक्रम्य समंततः
॥३५॥समहेंद्रधनाध्यक्षनानानाकनिवासिनः ॥
मुनयः सिद्धगंधर्वास्तथा चाप्सरसां गणाः
॥३६॥नृत्येनामरनारीणां विलोकितविनोदकः ॥
युगकोटिसहस्रं तु मत्समीपे व्यवस्थितः
॥३७॥अतो देवि भुवि ख्यातो देवो विश्वेश्वरेश्वरः ॥
दृष्ट्वा लिंगं च विश्वेशं पातकैर्विप्रमुच्यते
॥३८॥सप्तजन्मकृतैर्देही मनोवाक्कायकर्मभिः ॥
दृष्ट्वा विश्वेश्वरं लिंगं कृतकृत्यत्वमाप्यते
॥३९॥तस्य नश्यति दौर्भाग्यमलक्ष्मीर्नाशमेति च ॥
प्राप्नोति देही कामांश्च समृद्धिं मानसीं सदा
॥४०॥दुःस्वप्नो व्याधयः क्रूरा ग्रहा भूताश्च दारुणाः ॥
प्रणश्यन्ति वरारोहे विश्वेशे पूजिते सदा
॥४१॥ये केचिच्छ्रद्धया युक्ता लिंगमाराधयंति वै ॥
ते सर्वकाम संपन्ना जायंते च युगेयुगे
॥४२॥अंते गतिश्च सा दिव्या जायते मत्प्रसादतः ॥
यत्र संपूज्यते लिगं तस्मिन्देशे शुभाः क्रियाः
॥४३॥न तत्र दुर्भिक्षभयं नापमृत्युभयं क्वचित् ॥
प्रेतयोनौ च वेताला न नागा न च दंष्ट्रिणः
॥४४॥एते च विष्णुब्रह्मेंद्रकुबेरवरुणादयः ॥
लिंगार्चनेन संप्राप्ताः परां सिद्धिं महौजसः
॥४५॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
विश्वेश्वरस्य देवस्य कण्टेश्वरमतः शृणु
॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये विश्वेश्वरमाहात्म्यवर्णनंनाम त्रिपंचा शत्तमोऽध्यायः ॥ ५३ ॥