अष्टाविंशतिकं विद्धि विख्यातं च जटेश्वरम्
श्रीदेवदेव उवाच
अष्टाविंशतिकं विद्धि विख्यातं च जटेश्वरम् ॥
यस्य दर्शनमात्रेण मुक्तो भवति मानवः ॥
पुरा राथंतरे कल्पे वीरधन्वा महीपतिः ॥
धर्मात्मा च यशस्वी च बभूव भुवि विश्रुतः
॥२॥स कदाचिद्वनं गत्वा मृगहेतोर्वरानने ॥
व्यापादयन्मृगगणान्धनुषा क्रोधविह्वलः
॥३॥जगाम तत्र यत्रासन्भ्रातरः पंच सुव्रताः ॥
संवर्तस्य सुता देवि मृगरूपेण संस्थिताः
॥४॥ते कदाचिद्वने पंच दृष्ट्वा हरिणपोतकान् ॥
श्वसतो जातमात्रांश्च कौतूहलसमन्विताः
॥५॥एकैकं जगृहुस्तत्र मृतास्ते त्वतिदुःखिताः ॥
ततः सर्वे च ते पंच ययुर्वै पितुरंतिकम्
॥६॥प्रायश्चित्तं समीहंतः संवर्त्तं सांसदैर्वृतम् ॥
ऊचुस्ते वचनं चेदं मृगहिंसाश्रितं तदा
॥७॥जातमात्रा मृगाः पंच अस्माभिर्निहताः प्रभो ॥
अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम्
॥८॥ऊचे स शुद्धिमाप्नोति प्रायश्चित्ते कृते सति ॥
अनधीत्य धर्मशास्त्रं प्रायश्चित्तं ददाति यः ॥
प्रायश्चित्ती भवेत्पूतः किल्विषं दातरि व्रजेत्
॥९॥धर्म शास्त्रसमारूढा वेदखड्गधरा द्विजाः ॥
क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः
॥१०॥ब्रह्मच्छिद्रं जपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥
अच्छिद्रं जायते सर्वं ब्राह्मणैरुपपादितम्
॥११॥अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः ॥
प्रणश्यत्यखिलं पापमग्निष्टोमफलं भवेत्
॥१२॥इत्येवं वदति श्रेष्ठे संवर्ते द्विजसत्तमे ॥
समागताश्च मुनयो भृग्वत्र्यंगिरसादयः
॥१३॥तेषामर्थे यथावृत्तं कथयामासुरेव ते ॥
संवर्तस्य सुता दीना भक्तिनम्राः पुनःपुनः
॥१४॥तेऽप्यूचुर्धर्मशास्त्राणि विहितानि यथार्थतः ॥
प्रायश्चित्तं यथोद्दिष्टं देशकालविभागतः
॥१९॥अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ॥
प्रायश्चित्तार्द्धमर्हंति स्त्रियो वै व्याधितस्य च
॥१६॥देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ॥
प्रायश्चित्तं प्रकल्प्यं स्यादिति धर्मो व्यवस्थितः
॥१७॥इदानीं मृगचर्माणि परिधाय धृतव्रताः ॥
चरध्वं पंच वर्षाणि ततः शुद्धा भविष्यथ
॥१८॥एवमुक्तास्तु ते बाला मृगधर्मोपजीविनः ॥
वनं विविशुरव्यग्रा ध्यायंतो ब्रह्म शाश्वतम्
॥१९॥ततो वर्षे ह्यतिक्रांते वीरधन्वा महीपतिः ॥
तत्राजगाम यस्मिंस्ते चरंति मृगरूपिणः
॥२०॥ते चाप्येकतरोर्मूले मृगधर्मोपजीविनः ॥
जपंतः संस्थितास्ते हि राज्ञा दृष्टा मृगा इति
॥२१॥मत्वा विद्धास्तु नाःराचैर्मृतास्ते ब्रह्मवादिनः ॥
तान्दृष्ट्वा च मृतान्राजा ब्राह्मणान्संशितव्रतान् ॥
भयेन वेपमानस्तु देवराताश्रमं ययौ
॥२॥तत्रापृच्छद्ब्रह्मवध्या मम जाता महामुने ॥
आमूलांतं वधांतस्य कथयित्वा नराधिपः
॥२३॥भृशं शोकपरीतात्मा रुरोद भृशदुःखितः ॥
स ऋषिर्देवकल्पस्तु रुदंतं नृपसत्तमम्
॥२४॥उवाच मा भैर्नृपते अपनेष्यामि पातकम् ॥
पाताले सुतलाख्ये तु निमज्जंती यथा धरा
॥२५॥उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना ॥
तद्वद्भवंतं राजेंद्र ब्रह्महत्यापरिप्लुतम् ॥
उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः
॥२६॥एवमुक्तस्ततो राजा दुरितो वाक्यमब्रवीत
॥२७॥किमनेन द्विजेनैव निष्प्रभेण दुरात्मना ॥
उद्धर्तुं नैव शक्नोति स्वयमेव द्विजाधमः
॥२८॥इत्युक्त्वा '? खङ्गेनैव जघान तम् ॥
मृतं दृष्ट्वा द्विजं राजा क्रोधेन कलुषीकृतः
॥२९॥तस्मिन्नेव वने देवि पापसंघेन मोहितः ॥
जघान कपिलां दोग्ध्रीं सवत्सां गालवस्य च
॥३०॥क्षुधार्त्तश्च तृषार्त्तश्च बाल्यान्मोहाच्च साहसात् ॥
क्रूरा बुद्धिः समभवज्जटीभूतं च पातकम्
॥३१॥जटीभूतेन पापेन बभ्राम गहने वने ॥
स कदाचित्तुरंगेण हृतो दूरं महद्वनम्
॥३२॥व्याघ्रसिंहगजाकीर्णं मृगशंबरसेवितम् ॥
एकाकी तत्र राजासावश्वं मुक्त्वा तरोरधः
॥३३॥कुशोपरि तदा तत्र सुष्वाप च स निर्भयम् ॥
तत्र व्याधाः समचरन्दृष्ट्वा सुप्तं च निर्भयम्
॥२४॥ते गतास्त्वरिता व्याधाः स्वभर्तुः कथनाय वै ॥
स्वामिना तेन निर्दिष्टा निग्रहीतुं प्रचक्रमुः
॥३५॥तावद्राज्ञः शरीरात्तु श्वेताऽऽभरणभूषिता ॥
उत्थाय चक्रमादाय तया म्लेच्छाश्च पातिताः
॥३६॥दस्यून्निहत्य सा देवी तत्रैवादर्शनं गता
॥३७॥अथ राजा तया मुक्तः प्रतिबुद्धोऽथ तत्क्षणात् ॥
म्लेच्छांश्च निहतान्दृष्ट्वा चिंतयामास पार्थिवः
॥३८॥गोवध्या ब्रह्मवध्या च वने ह्यस्मिन्सुदारुणा ॥
कथं मया नृशंसेन प्राप्ता पापपरंपरा
॥३९॥एवं स चिंतयित्वाथ निःश्वस्य च पुनःपुनः ॥
तमेवाश्वं समारुह्य वामदेवाश्रमं ययौ
॥४०॥मुनिना वामदेवेन दृष्टो राजा तथाविधः ॥
जटीभूतेन पापेन पीडितो दुःखितस्तदा
॥४१॥वामदेव उवाच
अयं स पुरुषव्याघ्रो वीरधन्वा महीपतिः ॥
सोमवंशसमुत्पन्नो दशां कष्टां समागतः
॥४२॥उद्धरिष्यामि राजानमेनं पुरुषसत्तमम् ॥
इत्यालोच्य तदा विप्रो वामदेवो महातपाः ॥
प्रत्युवाच महीपालं वीरधन्वानमातुरम्
॥४३॥भोभो राजन्महीपाल वीरधन्वेति विश्रुतः ॥
विदूरथस्य तनयो विख्यातो भुवनत्रये
॥४४॥प्राग्भवे व्याधरूपेण निहिथा विपिने मृगान् ॥
दृढं जागरणं रात्रावामलक्यास्तरोरधः
॥४५॥फाल्गुनामलपक्षे त्वामलक्येकादशी शुभा ॥
पुष्यर्क्षयोगिनी तस्यां जामदग्न्यप्रदक्षिणा
॥४६॥पूजा लोकैः कृता दृष्टा विस्मयेन त्वया पुरा ॥
अकामादुपवासोऽभूत्तस्यां जागरणं पुनः
॥४७॥तत्प्रभावादभू राजा महाबलपराक्रमः ॥
तया संरक्षितो राजन्म्लेच्छवर्गाद्वनेऽधुना
॥४८॥निहताः शत्रवः सर्वे तयैव शुभमाप्स्यसि ॥
पूर्वकर्मविपाकेन ब्रह्महत्या समागता
॥४९॥ज्ञाता तपःप्रभावेन मया योगबलेन च ॥
जटीभूतं शरीरं ते पापसंघेन पार्थिव
॥५०॥इदानीं पालयिष्यामि शृणु मे वचनं परम्
॥५१॥इत्युक्तो वामदेवेन् मुनिना स महीपतिः ॥
प्रणम्य प्रयतो भूत्वा पप्रच्छ च पुनःपुनः
॥५२॥कथं यास्यंति मे हत्या गोब्राह्मणसमुद्भवाः ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि
॥५३॥तस्य तद्वचनं श्रुत्वा वाम देवो महामुनिः ॥
कथयामास माहात्म्यं लिंगस्यास्य यशस्विनि
॥५४॥महाकालवनं गच्छ महाराज ममाज्ञया ॥
तत्रास्ते देवदेवोऽपि जगद्व्यापी जटेश्वरः
॥५५॥पापसंघप्रहर्त्ता च सर्ववेदेषु पठ्यते ॥
देवस्यानरकेशस्य उत्तरे स व्यवस्थितः
॥५६॥तस्य तद्वचनं श्रुत्वा वामदेवस्य पार्थिवः ॥
आजगाम त्वरायुक्तो महाकालवनोत्तमे
॥५७॥तत्र दृष्ट्वा जगद्वंद्यं देवदेवं जटेश्वरम् ॥
स्तुतिं चकार राजेंद्रो भक्त्या परमया पुनः
॥५८॥शिवाय ते नमो नित्यं विश्वकाय नमोनमः ॥
नमो दिव्याय गुह्याय गूढव्रतशरीरिणे
॥५९॥नमो जटाय रामाय माययाक्रांतकारिणे ॥
नमोस्तु बहुरूपाय नमो नीलाभरूपिणे
॥६०॥नमो भोगाय धूम्राय नमोऽस्तु गगनात्मने ॥
नमो वह्निसमूहाय नमस्ते निर्मलाकर
॥६१॥नमो महांधकारार्क नमस्ते शत्रुघातिने ॥
नमः संसारपाराय दिव्यरूपशरीरिणे ॥
नमः कनकवर्णाय नमो मोहितमोहिने
॥६२॥नमः सुरूपाय सुरार्चिताय नमो विरूपाय प्रकृतेः पराय ॥
नमोनमो रूपनिराश्रयाय श्यामासुरूपाय नमोनमस्ते
॥६३॥इति स्तुतस्तदा देवि महादेवो महेश्वरः ॥
जटावेष्टितसर्वांगो लिंगमध्याच्च निस्सृतः
॥६४॥भस्मचर्चितसर्वांगो भोगिभोगांगदोज्वलः ॥
हिमराशिनिभाकारो राजताचलनिर्मलः
॥६५॥मुक्तालतानिभाभिस्तु जटाभिर्भूषितो विभुः ॥
कपिलाभिः करालाभिर्विकटाभिश्च वेष्टितः
॥६६॥भोगींद्रफणबद्धाभिः सितपीतादिभिस्तथा ॥
नदीरूपाभिरूताभिः शोभितोऽसौ जटेश्वरः
॥६७॥राजानं प्रत्युवाचेदं वचनं पर्वतात्मजे ॥
स्तोत्रेणानेन राजेंद्र तुष्टोऽहं तोषितस्त्वया
॥६८॥जटीभूतं च ते पापं गतं मद्दर्शनेन वै ॥
तस्मात्स्थानं परं गच्छ मदीयं शाश्वतं मुदा
॥६९॥इत्युक्तो देवदेवेन वीरधन्वा महीपतिः ॥
जगाम परमं स्थानं दाहप्रलयवर्जितम्
॥७०॥कामगेन विमानेन स्तूयमानो गणैः प्रिये ॥
पापसंघेन मुक्तोऽसौ जटीभूतेशदर्शनात्
॥७१॥लिंगश्चातः समाख्यातो नाम्ना देवो जटेश्वरः ॥
जटेश्वरं वरारोहे ये पश्यंति सुभक्तितः ॥
तेषां पापं जटीभूतं तत्क्षणादेव नश्यति
॥७२॥येऽर्चयंति सदा देवि देवदेवं जटेश्वरम् ॥
तेषां बलं प्रभावश्च सौभाग्यं च भविष्यति
॥७३॥येप्यन्ये देवगन्धर्वा यक्षराक्षस मानवाः ॥
लिंगं च पूजयिष्यंतिं विधिवद्भक्तिभावतः
॥७४॥तेऽपि कामानवाप्स्यन्ति यांश्च कांश्च सुदुर्लभान् ॥
ऐश्वर्यं धर्ममतुलं दीर्घमायुररो गताम्
॥७५॥निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ॥
पापिनः क्रूरकर्माणो येऽपि लिंगं समाश्रिताः ॥
तेपि पापविनिर्मुक्ता भविष्यंति गत ज्वराः
॥७६॥जटेश्वरं प्रपश्यंति भक्त्या ये च दिनेदिने ॥
ते धर्मधनसौभाग्यैर्भविष्यंति समन्विताः
॥७७॥व्याधितो व्याधिना मुक्तो दुःखी दुःखात्प्रमुच्यते ॥
दर्शनात्तु भवेत्सद्यः सर्वपातकवर्जितः
॥७८॥जटेश्वरस्य माहात्म्यं ये पठिष्यंति पार्वति ॥
श्रोष्यंति येऽपि मद्भक्त्या प्रयताः श्रद्धयान्विताः
॥७९॥ते सर्वकामानाप्स्यंति गतिमंते च मत्पुरे ॥
या नारी दुर्भगा सापि सौभाग्यं लभते सदा
॥८०॥गुर्विणी लभते पुत्रमरोगं श्रुतिभूषणम् ॥
शिशुग्रहाश्च नश्यंति नापमृत्युभयं भवेत्
॥८१॥मांगल्यमिदमायुष्यं धर्मकामाश्रयं महत् ॥
दुःस्वप्नजं भयं घोरं पापजं याति संक्षयम्
॥८२॥दुर्भुक्तं दुर्जनस्पर्शं यच्चाल्पायुःकरं भवेत् ॥
लिंगाख्यानकथां श्रुत्वा विनश्यति न संशयः
॥८३॥श्राद्धेषु यः पठेदेतां जटेश्वरकथां शुभाम् ॥
तदक्षयं भवेच्छ्राद्धं पितॄणां प्रीतिवर्द्धनम्
॥८४॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
जटेश्वरस्य देवस्य शृणु रामेश्वरं शिवम्
॥८५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जटेश्वरमाहात्म्यवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥