मेघनादेश्वरमाहात्म्यवर्णनम्
श्रीहर उवाच
मेघनादेश्वरं देवि त्रयोविंशतिमं शृणु ॥
यस्य दर्शनमात्रेण प्राप्यते सर्वसिद्धयः
॥१॥राजमूला महादेवि योगक्षेमाः सुवृष्टयः ॥
प्रजाश्च व्याधयश्चैव मरणं च भयानि च
॥२॥राजा कृतं तथा त्रेता द्वापरश्च तथा कलिः ॥
राजमूलानि सर्वाणि राजाधर्मस्य कारणम्
॥३॥राजा बभूव लोकेऽस्मिन्मदांधोनाम पार्वति ॥
अहंकारावृतो दुष्टो देवब्राह्मणकंटकः
॥४॥कलि द्वापरयोः संधौ तस्य दोषाच्च भामिनि ॥
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी
॥५॥न ववर्ष सहस्राक्षः प्रतिलोमोऽभवत्प्रभुः ॥
नादृश्यन्तापि रात्र्यंते कुत एवाभ्रजातयः
॥६॥नद्यः संक्षिप्ततोयौघाः क्वचिदंतर्हितास्तदा ॥
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमंगलाः
॥७॥उच्छिन्नकृषि गोरक्षा निवृत्तविपणास्तथा ॥
अस्थिकंकालसंकीर्णा हाहाभूतनराकुलाः
॥८॥शून्यभूयिष्ठनगरा दग्धग्रामनिवेशिनः ॥
गोजाश्वमहिषैर्हीना भक्ष्यमाणाः परस्परम्
॥९॥आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥
ब्राह्मणा दुःखबहुला मृता नष्टाश्च पार्वति
॥१०॥सूष्टिरुन्मूलिता सर्वा जंगमा स्थावराखिला ॥
एतस्मिन्नंतरे देवाः शक्राद्या भयविह्वलाः
॥११॥शरण्यं शरणं जग्मुर्देवदेवं जनार्दनम् ॥
क्षीरोदस्योत्तरे कूले श्वेतद्वीपं मनोरमम्
॥१२॥ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम् ॥
सदानंदकरं शांतं सूर्यकोटिसमप्रभम्
॥१३॥स्वेच्छाकल्पितवि न्यासप्रासादशयनासनम् ॥
वज्रेंद्रनीलवैडूर्यचंद्रकांतादिदीपितम्
॥१४॥जरामृत्युभयोपेतसर्वव्याधिविवर्जितम् ॥
तस्मिन्द्वीपे ततो देवि सूर्य कोटिसमप्रभम् ॥
साष्टांगां प्रणतिं कृत्वा ते देवाः स्तुतिमब्रुवन्
॥१५॥भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः ॥
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः
॥१६॥एवं च सत्यं परमं तपश्च परमं तथा ॥
पवित्रं परममार्गं यज्ञस्त्वं परमः प्रभो ॥
१७ [ ॥
परं हौत्रं परं धाम त्वामाहुः पुरुषं परम् ॥
एवं स्तुतस्तदा तैस्तु देवदेवो वरानने
॥१८॥प्राह देवांस्ततः कृष्णः किं करोम्यद्य वः सुराः ॥
विज्ञप्तस्तैर्हरिर्देवो ह्यनावृष्ट्या प्रपीडितैः
॥१९॥उपायः कथ्यतां देव तुष्टिः धुष्टिर्यथा भवेत् ॥
ध्यानेन चिंतयित्वा च कथयामास केशवः
॥२०॥गच्छध्वं त्रिदशाः सर्वे महाकालवने शुभे ॥
लिंगं वृष्टिकरं तत्र पुरा मेघैः प्रतिष्ठितम्
॥२१॥मेघा वृष्टिकराः सर्वे तस्मिँल्लिंगे च संति वै ॥
तस्य लिंगस्य माहात्म्याद्वृष्टिरेव भविष्यति
॥२२॥प्रतीहारेश्वराद्देवादीशाने विद्यते सुराः ॥
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति
॥२३॥महाकालवने प्राप्ता यत्रास्ते लिंगमुत्तमम् ॥
तुष्टुवुः परया भक्त्या दृष्ट्वा देवं मनोरमम्
॥२४॥नमस्तेऽस्तु महेशाय नमोऽनंताय मालिने ॥
नमस्तैजसमूर्त्ताय नमः सौंदर्यशालिने
॥२५॥नमो योगाय वेदाय नमः पिंगजटाय ते ॥
अनंतज्ञानदेहाय नम ईश्वरमूर्त्तये
॥२६॥नमः शुभ्राट्टहासाय नमस्तेऽस्तु शिखंडिने ॥
शंकराय नमस्तेऽस्तु नमस्तेस्तु पिनाकिने
॥२७॥नमोंऽतकाय भव्याय त्र्यंबकायास्तु ते नमः ॥
नमस्ते बहुरूपाय नमस्तेऽचिंत्यमूर्त्तये
॥२८॥नमो योगशरीराय नमस्ते सर्व सर्वदा ॥
नष्टं देव जगत्सर्वमनावृष्ट्या प्रपीडितम्
॥२९॥सुवृष्ट्या देवदेवेश पाहि नः शरणागतान् ॥
एतस्मिन्नंतरे मेघा पार्वणांगारवर्चसः
॥३०॥लिंगमध्यात्समुत्तस्थुर्वादयंतो नभस्तलम् ॥
अन्योन्यवेगाभिहता ववृषुर्भूतले तदा
॥३१॥जातं विनिष्प्रभं सर्वं न प्राज्ञायत किंचन ॥
तिमिरौघपरिक्षिप्ता रेजुश्चाथ दिशो दश
॥३२॥ते तस्य देवदेवस्य माहात्म्येन प्रतोषिताः ॥
देवाः प्रीतिं परां जग्मुः सर्वेऽमृतमिवोत्तमाः
॥३३॥ततस्तमः संहरतो विनेशुश्च बलाहका ॥
प्रववुः शीतला वाताः प्रशांताश्च दिशो दश
॥३४॥शुद्धप्रभाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणाम् ॥
अविग्रहं ग्रहाश्चक्रुः प्रशांताश्चापि सिन्धवः
॥३५॥महर्षयो विशोकाश्च गंधर्वाश्च कलं जगुः ॥
अभूत्सृष्टिः पुनः सर्वा लिंगस्यास्य प्रभावतः
॥३६॥सुरैः संपूज्य भक्त्या ते चक्रुर्नाम यथार्थतः ॥
अस्य लिंगस्य माहात्म्यं दृष्ट्वा प्रीताः सुरा बहु
॥३७॥मेघनादेश्वरं नाम भविष्यत्यस्य सर्वतः ॥
मेघनादेश्वराख्यानं मया ते कथितं प्रिये
॥३८॥भविष्यंति नरा भूमौ कृतार्थास्तत्प्रभावतः ॥
दर्शनादस्य लिंगस्य कामवृष्टिर्भविष्यति
॥३९॥कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
कुर्वंल्लिंगस्य स्नपनं रुद्रलोके महीयते
॥४०॥प्रभावः पठ्यते यत्र मेघनादस्य पार्वति ॥
अतिवृष्टिश्चैव ततो भविष्यति च भूतले
॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मेघनादेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशो ऽध्यायः ॥ २३ ॥