कर्कोटेश्वरमाहात्म्यवर्णनम्
श्रीमहादेव उवाच
कर्कोटेश्वरसंज्ञं च दशमं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण विषैर्नैवाभिभूयते
॥१॥मात्रा च भुजगाः शप्ताः स्ववचोभंगकारणात् ॥
मद्वचो न कृतं यस्माद्भवद्भिः पापकर्मणि
॥२॥वह्निर्हि धक्ष्यते युष्मान्सत्रे जन्मेजयस्य हि ॥
श्रुत्वा शापं ततो मातुर्मृत्युभीताश्च पन्नगाः
॥३॥गताः सर्वे यथास्थानं जीवनार्थं यशस्विनि ॥
हिमशैलं गतः शेषस्तपः कर्त्तुं ततः प्रिये
॥४॥सर्पश्च कंबलोनाम लोकं पैतामहं गतः ॥
शंखचूडोऽथ नागेंद्रो मणिपूरं गतस्ततः
॥५॥यमुनांभसि संलीनः कालियो भयविह्वलः
॥६॥एवं ते सर्परा जानो नागाः सुस्मितशोभने ॥
कुरुक्षेत्रे गताः सर्वे तपश्चर्तुं यशस्विनि ॥
धृतराष्ट्रस्तथा नागः प्रयागमगमत्प्रिये ४७ ॥
एलापत्रस्तु नागेंद्रो ब्रह्मलोकं जगाम ह ॥
प्रणम्य तमथोवाच मातुरुत्संगसंस्थिताः
॥८॥मात्रा शप्ता वयं देव क्रुद्धया तव संनिधौ ॥
सा कथं शापकाले तु भवता न निवारि ता
॥९॥ब्रह्मोवाच
निषिद्धा नैव ते माता भाविकर्मबलान्मम ॥
सर्पसत्रो हि भविता राज्ञो जन्मेजयस्य च
॥१०॥त्वं च वत्स ममादेशान्महाकालवनं व्रज ॥
] शांत्यर्थं सर्वनागानां भक्त्या युक्तस्तु सत्वरम्
॥११॥समाराधय देवेशं महामायासमीपतः ॥
भविता तत्र ते सिद्धि देवदेवप्रसादतः
॥१२॥तत्र गत्वाथ कर्कोटः स्वयं देवि समाहितः ॥
देवमाराधयामास महामायापुरःस्थितः ॥
तस्य तुष्टोथ देवेशो वरं प्रादाद्य शस्विनि
॥१३॥ये दंदशूकाः क्रूराश्च पापाचारा विषोल्बणाः ॥
तेषां विनाशो भविता न तु ये धर्मचारिणः
॥१४॥भक्त्या तवाद्य तुष्टोस्मि त्वं मे सायुज्यतां व्रज ॥
देवे तत्र विलीनोथ नागः कर्कोटकः प्रिये
॥१५॥कर्कोटकेश्वरः ख्यातस्ततो देवो महेश्वरः ॥
तस्य दर्शनमात्रेण व्याधयो यांति संक्षयम्
॥१६॥यस्तं पूजयते देवं भक्त्या युक्तो हि मानवः ॥
ऐश्वर्यं जायते तस्य कुलानां तारयेच्छतम्
॥१७॥व्याधितो व्याधितो मुक्तो दुःखी दुःखात्प्रमुच्यते ॥
दर्शनात्तु भवेत्सद्य सर्वपातकवर्जितः
॥१८॥नियमेन प्रपश्यंति ये च कर्कोटकेश्वरम् ॥
ते सर्वकामानाप्स्यंति वसंत्यंते च मत्पुरे
॥१९॥पंचम्यां च चतुर्दश्यां ये पश्यंति रवेर्दिने ॥
न तेषां तु कुले सर्पाः पीडां कुर्वंति कर्हिचित्
॥२०॥या नारी दुर्भगा सापि सौभाग्यं लभते सदा ॥
गुर्विणी लभते पुत्रमरोगं कुलभूषणम् ॥
शिशुग्रहाश्च नश्यंति नापमृत्युभयं भवेत्
॥२१॥यंयं काममभिध्यायेन्मन सा भक्तिमान्नरः ॥
तंतं दुर्ल्लभमाप्नोति कर्कोटेश्वरदर्शनात्
॥२२॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
कर्कोटेश्वरदेवस्य शृणु सिद्धेश्वरं परम्
॥२३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कर्कोटेश्वरमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥ १०