मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ४२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 42

द्वाचत्वारिंशतं देवं गंगेश्वरमथो शृणु

श्रीहर उवाच

द्वाचत्वारिंशतं देवं गंगेश्वरमथो शृणु ॥

यस्य दर्शनमात्रेण सर्वतीर्थफलं लभेत् ॥

ध्रुवाधारं जगद्योनेः पदं नारायणस्य तु

॥१॥

पदात्प्रवृत्ता या देवी गंगा त्रिपथगा नदी ॥

सा प्रविश्य सुधायोनिं सोममाधारमंभसाम्

॥२॥

ततः संवर्द्धमानार्करश्मिसंगतिपावनी ॥

पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ

॥३॥

मेरुकूटतटान्तेभ्यो निपतन्ती यशस्विनी ॥

विकीर्यमाणसलिला निरालंबा पपात सा

॥४॥

मन्दरादिषु शैलेषु प्रविभक्तोदका समम् ॥

तत्र सीतेति विख्याता ययौ चैत्ररथं वनम्

॥५॥

तत्प्लायित्वा च ययावरुणोदं सरिद्वरा

॥६॥

तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥

मेरुपादवनं गत्वा नन्दने देवनन्दने

॥७॥

मानसं च महावेगात्प्लावयित्वा सरोवरम् ॥

तस्माच्च शैलराजानं रम्यं त्रिशिखरं गता

॥८॥

तस्माच्च पर्वताः सर्वे प्लावितास्तत्क्षणात्प्रिये ॥

तान्प्लावयित्वा संप्राप्ता हिमवन्तं महागिरिम्

॥९॥

मया धृता च तत्रैव जटाजूटेन पार्वति ॥

न मुक्ता च यदा गंगा तदा क्रुद्धा ममोपरि

॥१०॥

गात्राणि प्लावयामास मदीयानि वरानने ॥

मया च रुद्धा क्रोधेन जटामध्ये यशस्विनि

॥११॥

तत्रैव सा तपश्चक्रे बहुकल्पशतानि च ॥

भगीरथेनोपवासैः स्तुत्या चाराधितो ह्यहम्

॥१२॥

तदा मुक्ता मया देवि गंगा त्रिपथगामिनी ॥

महाकालमनुप्राप्ता प्लावयित्वोत्तरान्कुरून्

॥१३॥

समुद्रमहिषी जाता प्राणेभ्योऽपि गरीयसी ॥

नदीनामुत्तमा गंगा समुद्रेण कृता तदा ॥

स तया सहितो रेमे समुद्रः सरितांपतिः

॥१४॥

ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः ॥

तथार्णवो जगामाथ ब्रह्मलोकं सनातनम् ॥

गंगया सहितो देवि दर्शनार्थं महोत्सवे

॥१५॥

अथ गंगा सरिच्छ्रेष्ठा समुपायात्पितामहम् ॥

तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्

॥१६॥

ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ॥

महाभिषस्तु राजर्षिर्निःशंको दृष्टवान्नदीम्

॥१७॥

तस्य भावं विदित्वाऽथ ब्रह्मणा स तिरस्कृतः ॥

उक्तस्तु जातो मर्त्येषु पुनर्लोकानवाप्स्यसि

॥१८॥

गंगा शप्ताथ क्रुद्धेन समुद्रेण यशस्विनि ॥

मां विहायान्यसक्तासि तस्माद्यास्यसि मानुषम्

॥१९॥

लोकमल्पायुषं दीना तत्र दुःखमवाप्स्यसि ॥

तं शापं दारुणं श्रुत्वा गंगा वचनमब्रवीत्

॥२०॥

विनापराधाच्छप्ताहं कस्माद्वै देवसंसदि ॥

पतिव्रता पतिप्राणा पतिना परमार्थतः

॥२१॥

प्रमादाद्वस्त्रमुद्धूतं वायुना व्यापकेन तु ॥

प्रत्युवाच ततो ब्रह्मा तां नदीं लोकपावनीम्

॥२२॥

वसूनां कारणाद्देवि शप्ता यस्मान्महानदि ॥

भाव्यर्थे तोयनिधिना तस्माच्छीघ्रं व्रजाधुना

॥२३॥

महाकालवने रम्ये सिद्धगंधर्वसेविते ॥

शिप्राया दक्षिणे भागे विद्यते लिंगमुत्तमम्

॥२४॥

सर्वसिद्धिकरं पुण्यं सर्वपातकनाशनम् ॥

तमाराधय यत्नेन स ते दास्यति वांछितम्

॥२५॥

पितामहवचः श्रुत्वा तुष्टा त्रिपथगामिनी ॥

गमनं तत्र मेऽभीष्ट विद्यते यत्सखी मम ॥

शिप्रापि मे प्रिया पुण्या महापातकनाशिनी

॥२६॥

इति संचिंत्य मनसा दिव्या देवनदी तदा ॥

आजगाम महाकाले ह्यपश्यल्लिंगमुत्तमम्

॥२७॥

पूजयामास पयसा दिव्येन विधिना तदा ॥

दृष्ट्वा शिप्रां सखीं तत्र संश्लेषं चाभवत्तयोः

॥२८॥

ततः प्रभृति संजाता सा शिप्रा पूर्ववाहिनी ॥

त्रिषु लोकेषु विख्यातो देवो गंगेश्वरः स्वयम् ॥

गंगयाराधितो यस्मात्समीहितफलप्रदः

॥२९॥

संस्तुता देवगंधर्वैर्गंगा देवनदी तदा ॥

ऋषिभिर्वालखिल्याद्यैस्तथान्यैर्मुनिभिर्मुदा

॥३०॥

समुद्रस्तत्र संप्राप्तो मानिता सा महानदी ॥

लिंगेनोक्ता तदा गंगा कलया स्थीयतामिति

॥३१॥

तत्समीपे महापुण्ये यावत्तिष्ठति मेदिनी ॥

अंगीकृतं समुद्रेण यथोक्तं च तथा स्त्विति

॥३२॥

एवमुक्त्वा गता गंगा कलया तत्र संस्थिता ॥

गंगेश्वरं तु यः पश्येत्स्नात्वा शिप्रांभसि प्रिये

॥३३॥

गोसहस्रफलं तस्य जायते नात्र संशयः ॥

सर्वतीर्थफलं तस्य सर्वधर्मफलं तथा

॥३४॥

सर्वयज्ञफलं सम्यक्सर्वदानफलं तथा ॥

सर्वयोगफलं देवि प्राप्नोत्येव निरन्तरम्

॥३५॥

तत्र तीर्थानि सुभगे पृथिव्यां यानि कानिचित् ॥

धर्मारण्यं फल्गुतीर्थं पुष्करं नैमिषं गया

॥३६॥

प्रयागं च कुरुक्षेत्रं केदारममरेश्वरम् ॥

चंद्रभागा विपाशा च सरयूर्देविका कुहू

॥३७॥

गोदावरी शतद्रुश्च बाहुदा वेत्रवत्यपि ॥

सर्वा एवात्र सरितः संगताः संति गंगया

॥३८॥

गुप्तानि पुण्यतीर्थानि सिद्धक्षेत्राणि चैव हि ॥

तत्र सर्वाणि तिष्ठंति कलामात्रेण पार्वति

॥३९॥

एतेषां फलमाप्नोति यः पश्यति समाहितः ॥

स्नात्वा गंगेश्वरं देवं सत्यमेतन्मयोदितम् ॥

अतः पुण्यतमं स्थानं गीयते गणवंदिते

॥४०॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

गंगेश्वरस्य देवस्य शृण्वंगारेश्वरं परम्

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये गंगेश्वर माहात्म्यवर्णनंनाम द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥