मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५०

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 50

स्थावरेश्वरमाहात्म्यवर्णनम्

श्रीमहादेव उवाच

शृणु देवि प्रयत्नेन पंचाशत्तममीश्वरम् ॥

यस्य दर्शनमात्रेण ग्रहबाधा न जायते

॥१॥

संज्ञानाम रवेर्भार्या सा सुता विश्वकर्मणः ॥

भर्त्तुस्तेजोऽसहंत्याथ कदाचिच्चैव संज्ञया ॥

छायामयी चात्मनस्तु निर्मिता तरसा तया

॥२॥

सा प्रोक्ता सादरेणैव स्थीयतां सूर्यसंनिधौ ॥

पृष्ट्यापि न वाच्यं ते मदीयं गमनं रवेः

॥३॥

इत्युक्त्वा सा तदा संज्ञा जगाम भवनं पितुः ॥

संज्ञेयमिति मन्वानो द्वितीयायां दिवस्पतिः ॥

जनयामास तनयं नामतो यः शनैश्चरः

॥४॥

तस्मिञ्जाते भयं जग्मुः सदेवासुरमानुषाः ॥

त्रैलोक्यं जातमात्रेण आक्रांतं सचराचरम्

॥५॥

इन्द्रोऽपि भयसंत्रस्तो ब्रह्माणं शरणं गतः ॥

सूर्यपुत्रस्य वृत्तांतं कथयामास गद्गदम्

॥६॥

भिन्नं तु रोहिणीचक्रं व्याप्तं नक्षत्रमंडलम् ॥

जातमात्रेण चाक्रांतं त्रैलोक्यं रविसूनुना

॥७॥

वासवस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥

आहूय सहसा सूर्यं वचनं चेदमब्रवीत्

॥८॥

मर्यादा क्रियतां भानो वार्यतां पुत्र औरसः ॥

आक्रांतं तेजसा तेन त्रैलोक्यं भूभुवादिकम्

॥९॥

ब्रह्मणो वचनं श्रुत्वा रविणा प्रोक्तमीदृशः ॥

असाध्योऽयं मम सुतो वार्यतां स्वयमेव तम्

॥१०॥

पश्य मे चरणौ दग्धौ दृष्टिमात्रेण लीलया ॥

ब्रह्मापि भयसंत्रस्तो जगाम मनसा हरिम्

॥११॥

सूर्यस्य वचनं श्रुत्वा हरिः प्राप्तस्तु तत्क्षणात् ॥

ब्रह्मणो वचनं श्रुत्वा भीतः कृष्णोऽब्रवीदिदम्

॥१२॥

गम्यतां तत्र यत्रास्ते देवदेवो महेश्वरः ॥

कृष्णस्य वचनात्सर्वे ममांतिकमुपागताः

॥१३॥

वृत्तांतः कथितः सर्वो रविपुत्रस्य पार्वति ॥

मया स्मृतस्तु संप्राप्तः सूर्यपुत्रस्तु तत्क्षणात्

॥१४॥

अधोदृष्टिर्मया दृष्टो वक्रांगो रूपतोऽसितः ॥

स्थैर्यं कृत्वा नमस्कृत्य विज्ञप्तोऽहं शनैःशनैः

॥१५॥

किमर्थं वै स्मृतो देव देह्याजां मम शंकर ॥

आदेशे तव तिष्ठामि किं करोमि प्रशाधि माम्

॥१६॥

इत्युक्तोऽहं तदा तेन रविपुत्रेण पार्वति ॥

मया स वारितोऽत्यर्थं मा पीडय जगत्त्रयम्

॥१७॥

तेनोक्तं देहि मे स्थानं पानमाहारमेव च ॥

मया दत्तं विशालाक्षि पूजार्थं स्थानमुत्तमम्

॥१८॥

मेषादिराशिसंस्थः संस्त्रिंशन्मासान्प्रपीडय ॥

मानुषान्क्रमशो वत्स तत्र तृप्तिमवाप्स्यसि

॥१९॥

अष्टमश्च चतुर्थश्च द्वितीयो जन्मसंस्थितः ॥

द्वादशराशिसंस्थोऽपि विरुद्धो भव सर्वदा

॥२०॥

एकादशो वा षष्ठो वा तृतीय स्थानगोथवा ॥

भव भव्यतरो नॄणामतः पूजा भविष्यति

॥२१॥

पंचमो नवमश्चैव उदासीनस्तु सप्तमः ॥

भव राशिगतो नित्यं मानुषे कर्म भिर्युते

॥२२॥

पूजां प्राप्स्यसि चात्यर्थं ग्रहाणामधिकं सदा ॥

गतिः स्थिरा भवित्री ते वरः श्रेष्ठोभिधीयते

॥२३॥

अतस्ते स्थावरं नाम भविष्यति महीतले ॥

शनैश्चरस्त्वं राशिस्थो ग्रहाणामधिको यतः

॥२४॥

अतः शनैश्चरोनाम भविष्यसि सदा भुवि ॥

गजगण्डनिभाकारो मम कण्ठसमोपि च

॥२५॥

वर्णतो ह्यसितो नाम भविष्यसि महीतले ॥

ग्रहमध्ये ह्यधोदृष्टिर्गतिर्मंदा भविष्यति ॥

तुष्टो ददासि राज्यं च रुष्टो वै हरसि क्षणात्

॥२६॥

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥

त्वत्क्रूरदृष्टिनिहता नाशं यास्यंति नान्यथा

॥२७॥

तव प्रसादात्प्राप्स्यंति मनोऽभीष्टं सुदुर्ल्लभम् ॥

अन्यच्च ते प्रदास्यामि स्थानं गुह्यं मनोहरम्

॥२८॥

मनोभीष्टकरं पुण्यं देवदानवदुर्लभम् ॥

प्रलयेऽप्यक्षयं प्रोक्तं महाकालवनं परम्

॥२९॥

तत्र गच्छ ममादेशत्त्वपृथुकेश्वरपश्चिमे ॥

विद्यते तत्र यल्लिंगं तत्ते नाम्ना भविष्यति

॥३०॥

कीर्त्तिरेषा त्वदीयापि त्रैलोक्ये भविता धुवम्

॥३१॥

इत्युक्तः स्थावरो देवि ममाज्ञापालकस्तदा ॥

जगाम त्वरितो रम्यं महाकालवनं शुभम्

॥३२॥

दृष्ट्वा तत्रैव तल्लिंगं स्थानं लब्धं सुशोभनम् ॥

तल्लिंगं भुवने ख्यातं नामतः स्थावरेश्वरम्

॥३३॥

शनिनोक्तं तदा देवि येऽत्र द्रक्ष्यंति भक्तितः ॥

मया प्रपूजितं लिंगं विख्यातं स्थावरेश्वरम् ॥

तेषां पीडा मदीया तु न भविष्यति कर्हिचित्

॥३४॥

मदीये च दिने यो वै नियमेन प्रपश्यति ॥

तस्याहं सकलां बाधां शमयिष्याम्यसंशयम्

॥३५॥

धक्ष्यामि सततं पीडामन्यग्रहकृतामपि ॥

मदीयं च भयं तस्य स्वप्नेऽपि न भविष्यति

॥३६॥

न ग्रहा न पिशाचाश्च न यक्षा न च राक्षसाः ॥

विघ्नं कुर्वंति तस्यापि मयि तुष्टे न संशयः

॥३७॥

संक्रांतौ शनिवारे च व्यतीपातेऽयने तथा ॥

ये पश्यंति नरा भक्त्या लिंगं वै स्थावरेश्वरम् ॥

भविष्यत्यक्षयस्तेषां स्थिरो वासस्त्रिविष्टपे

॥३८॥

नियमेन प्रपश्यंति मम वारेऽत्र ये नराः ॥

न तेषां दुष्कृतं किंचिद्दुष्कृतोत्था न चापदः

॥३९॥

भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥

दास्यामि पुत्रकामस्य फलं पुत्रकृतं सदा

॥४०॥

अधनस्य धनं चैव भयार्त्तस्याभयं तथा ॥

स्वर्गं वै स्वर्गकामस्य प्रयच्छामि च वांछितम्

॥४१॥

इत्युक्त्वा पूजयामास भूयो लिंगं शनैश्चरः ॥

पूजयित्वा शुभैः पुष्पैर्भक्त्या तत्रैव संस्थितः

॥४२॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

स्थावरेश्वरदेवस्य शूलेश्वरमथो शृणु

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्थावरेश्वरमाहात्म्य वर्णनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥