मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६०

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 60

मतंगेश्वरमाहात्म्यवर्णनम्

श्रीमहादेव उवाच

मतंगेश्वर संज्ञं तु षष्टिसंख्याकमीश्वरम् ॥

विद्धि पापहरं देवि समीहितकरं सदा

॥१॥

सुगतिर्नाम विप्रेन्द्रो बभूव द्वापरे युगे ॥

सत्यवादी सदा दांतो वेदाध्ययनतत्परः

॥२॥

मतंगस्तस्य पुत्रोऽभूद्बाल्याद्दारुणतां गतः ॥

सबालं गर्दभं देवि तिष्ठन्तं मातुरंतिके ॥

दण्डकाष्ठेन सहसा ताडयामास चापलात्

॥३॥

तं तु तीव्राहतं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ॥

उवाच मा शुचः पुत्र चंडालोऽयं न वै द्विजः

॥४॥

ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ॥

तुदन्पापाकृतिरयं बाले न कुरुते दयाम्

॥५॥

स्वकीयां भजते चाथ प्रकृतिं मानवः सदा ॥

एतच्छ्रुत्वा मतंगस्तु दारुणं गर्द्दभीवचः

॥६॥

दंडकाष्ठं परित्यज्य रासभीं प्रत्यभाषत ॥

ब्रूहि रासभि कल्याणि माता मे येन दूषिता

॥७॥

कथं मां वेत्सि चंडालं यायावरकुलोद्भवम् ॥

केन जातोस्मि चंडालो ब्राह्मण्यं येन मे गतम्

॥८॥

गर्दभ्युवाच

नापितेन प्रमत्तेन ब्राह्मण्यां वृषलेन हि ॥

ततस्त्वमसि चांडालो ब्राह्मण्यं तेन ते गतम्

॥९॥

एवमुक्तो मतंगस्तु पितरं वाक्यमब्रवीत् ॥

ताताश्चर्यं श्रुतं मेऽद्य जातोऽहं नापितेन वै

॥१०॥

गर्दभ्या कथितं सम्यक्तस्मात्तप्स्ये महत्तपः ॥

एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः

॥११॥

स गत्वा च ततोऽरण्यमतप्यत महत्तपः ॥

ततः संतापयामास विबुधांस्तपसान्वितः

॥१२॥

तं तथा तपसा युक्तमुवाच हरिवाहनः ॥

मतंग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥

वरं ददामि तेऽहं तं वृणीष्व त्वं यदिच्छसि

॥१३॥

मतङ्ग उवाच

ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ॥

देहि मे शाश्वतं शक्र वर एष वृतो मया

॥१४॥

एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः ॥

ब्राह्मण्यं याचसे त्वं हि दुष्प्रापमकृतात्मभिः

॥१५॥

नाशमेष्यसि दुर्बुद्धे तदुपारम मा चिरम् ॥

चंडालयोनौ जातेन न तत्प्राप्यं कथंचन

॥१६॥

एवमुक्तो मतंगस्तु संशितात्मा यत व्रतः ॥

अतिष्ठदेकपादेन वर्षाणां शतसंख्यया

॥१७॥

तमुवाच ततः शक्रः पुनरेव महायशाः ॥

ब्राह्मण्यं दुर्लभं वीर मा कृथाः साहसं वृथा

॥१८॥

न हि शक्यं प्राप्तुमेवमचिरान्नाशमेष्यसि ॥

वृणु वा काममन्यं त्वं ब्राह्मणत्वं सुदुर्लभम्

॥१९॥

एवमुक्तो मतंगस्तु संशितात्मा दृढव्रतः ॥

सहस्रमेकं पादेन ततोऽब्दानामवर्त्तत

॥२०॥

तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥

चंडालायौनौ जातेन नावाप्यं ते कथंचन

॥२१॥

अन्यं वरं वृणीष्व त्वं मा कृथास्तत्स्वयं श्रमम् ॥

एवमुक्तो मतंगस्तु भृशं शोकपरायणः

॥२२॥

अतिष्ठत गयां गत्वा सोंगुष्ठेन शतं समाः ॥

सुदुष्करं वहन्योगं प्राणायामपरायणः

॥२३॥

त्वगस्थिभूतो धर्मात्मा तताप परमं तपः ॥

तपंतं तमभिद्रुत्य परिजग्राह वासवः

॥२४॥

वराणामीश्वरो दाता सर्वभूतहिते रतः

॥२५॥

शक्र उवाच

मतंग ब्राह्मणत्वं हि विरुद्धमिह दृश्यते ॥

ब्राह्मण्यं दुर्ल्लभं तात ह्यसतां पापशीलिनाम्

॥२६॥

ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥

तदुत्सृज्येह दुष्प्राप्यं ब्राह्मण्यमकृतात्मभिः

॥२७॥

अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः

॥२८॥

मतंग उवाच

किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ॥

तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं नानुपालयेत्

॥२९॥

ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैः शतक्रतो ॥

तपसा च कथं लब्धं विश्वामित्रेण भूभुजा

॥३०॥

वीतहव्यश्च राजर्षिस्तपसा विप्रतां गतः ॥

तस्मात्तपः करिष्यामि निर्द्वंद्वो निष्परिग्रहः

॥३१॥

अहिंसादमसत्यस्थः कथं नार्हामि विप्रताम् ॥

दैवेन कृतमेतद्धि यद्यहं मातृदोषतः

॥३२॥

एतामवस्थां संप्राप्तो दैवयोगात्पुरंदर ॥

नूनं दैवं न शक्यं तु पौरुषेण निवर्त्तितुम्

॥३३॥

यदहं यत्नवानेवं न लभे विप्रतां विभो ॥

एवं ज्ञात्वा तु देवेश दातुमर्हसि मे परम्

॥३४॥

यदि तेऽहमनुग्राह्यः किंचिद्वा सुकृतं मम ॥

तदुपायं हि मे शंस कथं विप्रो भवामि वै

॥३५॥

यथा ममाक्षया कीत्तिर्भवेद्वापि पुरंदर ॥

कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये

॥३६॥

इत्युक्तो हि मतंगेन वासवो बलवृत्रहा ॥

कथयामास संतुष्टो लिंगमाहात्म्यमुत्तमम्

॥३७॥

इन्द्र उवाच

महाकालवने लिंगं स्थापितं ब्रह्मणा पुरा ॥

दिव्यमूर्त्तिधरं दिव्यं श्रीसिद्धेश्वरपूर्वतः

॥३८॥

तस्य दर्शनमात्रेण विप्रत्वं समवाप्स्यसि ॥

वासवस्य च वाक्येन मतंगो गतवांस्तदा

॥३९॥

महाकालवनं रम्यं सिद्धक्षेत्रमथापरम् ॥

ददर्श तत्र तल्लिंगमशेषफलदायकम्

॥४०॥

दृष्ट्वा संपूजयामास पुष्पैर्नानाविधैस्तथा ॥

पूजितः प्रत्युवाचेदं मतंगं देवसत्तमः

॥४१॥

अहो महान्सभाग्योसि यस्त्वया तोषितोऽस्म्यहम् ॥

मत्तः सर्वं समुद्भूतं ब्रह्मांडं भूर्भुवादिकम्

॥४२॥

वरदोऽस्मि वरार्हाणां शापदोऽस्मि दुरात्मनाम ॥

ब्राह्मण्यं मत्प्रसादाच्च अक्षयं ते भविष्यति

॥४३॥

ततोऽसौ विप्रतां यातो मतंगो लिंगदर्शनात ॥

पुनः पूजाप्रभावेण ब्रह्मलोकं गतो द्विज

॥४४॥

ब्राह्मण्यं दुर्लभं लब्धं लिंगस्यास्य प्रभावतः ॥

मतंगेन वरारोहे तस्माद्देवो विगीयते

॥४५॥

मतंगेश्वरको लोके ब्रह्मलोकप्रदायकः ॥

वर्णाश्रमेषु विद्विष्टाः पाषंडवचने रताः

॥४६॥

निर्मर्यादा निराचारा निःशंकाश्चातिलोलुपाः ॥

निर्घृणाः क्रूरर्माणो धृष्टाः कलियुगे नराः ॥

दर्शनात्तस्य लिंगस्य तेऽपि यांति त्रिविष्टपम्

॥४७॥

ये विशुद्धा महाभागा ध्यानिनो मुक्तिभागिनः ॥

ते पश्यंति कलौ देवि मतंगेश्वरमीश्वरम्

॥४८॥

ब्रह्मध्यानपरा ये च यज्ञदानक्रियारताः ॥

ते पश्यंति कलौ देवि मतंगेश्वरमीश्वरम्

॥४९॥

येऽर्चयंति महा देवि मतंगेश्वरमीश्वरम ॥

कृतपुण्या नरा मर्त्त्ये तेषां वासोऽक्षयो दिवि

॥५०॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

मतंगेश्वरदेवस्य शृणु सौभाग्यमीश्वरम्

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये मतंगेश्वरमाहात्म्य वर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥