मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६१

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 61

एकषष्टितमं विद्धि सौभाग्येश्वरमीश्वरम्

ईश्वर उवाच

एकषष्टितमं विद्धि सौभाग्येश्वरमीश्वरम् ॥

यस्य दर्शनमात्रेण सौभाग्य मतुलं लभेत्

॥१॥

प्रधमं प्राकृते कल्पे राजाभूदश्ववाहनः ॥

प्राग्ज्योतिषपुरे रम्ये धर्मात्मा कीर्त्तिवर्द्धनः

॥२॥

अनेकयज्ञकृत्प्राज्ञः संग्रामेष्वप राजितः ॥

तस्य भार्या विशालाक्षि नाम्ना मदनमञ्जरी

॥३॥

काशिराजसुता सुभ्रू रूपेणातीव शोभना ॥

दक्षा सुशीला धर्मिष्ठा गृहव्यापारको विदा

॥४॥

चतुःषष्टिकलायुक्ता सदा भर्तृहिते रता ॥

पूर्णेन्दुवदना सौम्या सदा मधुरभाषिणी

॥५॥

पूर्वकर्मवशाद्देवि दुर्भूगा समजायत ॥

सा नेष्टा तस्य नृपतेर्नेत्रोद्वेगकरी सदा

॥६॥

श्रोत्रोद्वेगकरं वाक्यं तस्य राज्ञः करोति सा ॥

ददाह लोचने राजस्तस्याः संदर्शनं सदा

॥७॥

मृर्छां प्राप्नोत्यसह्यां स तस्याः स्पर्शेन भूपतिः ॥

कदा चालोकितो राजा तया प्रेम्णा वरानने ॥

दह्यमानोऽतितीव्रेण वह्निना वाक्यमब्रवीत्

॥८॥

द्वास्थैतां दुर्भगां भार्यामादाय विपिने वने ॥

परित्यजाशु नैतत्ते विचार्यं वचनं मम

॥९॥

ततो नृपस्य वचनमविचार्यमवेक्ष्य सः ॥

द्वास्थस्तत्याज तां सुभ्रूमारोप्य स्यंदनं वने

॥१०॥

सा च त्यक्ता वने शून्ये रुदती च मुहुर्मुहुः ॥

सस्मार तं महीपालं तममन्यत दैवतम्

॥११॥

अथ सा चारुसर्वांगी तत्रासक्तात्ममानसा ॥

निश्वासपरमा निन्ये दिनशेषं तथा निशाम्

॥१२॥

निश्वसन्त्यनवद्यांगी हाहेति रुदती मुहुः ॥

मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा

॥१३॥

न विहारे न चाहारे रमणीये न तद्वने ॥

न कन्दरेषु शैलानां सा बबन्ध तदा रतिम् ॥

त्यक्ता तेन वरारोहे निनिन्द निजयौवनम्

॥१४॥

दुर्भगाहं क्व जातात्र दुष्टदैववशीकृता ॥

कथं प्राप्तः स मे भर्त्ता तादृशो नृपस त्तमः

॥१५॥

धन्योऽयमतिपुण्योऽयं योऽयं यौवनगोचरः ॥

अन्यासामसतीनां च रमिष्यति न संशयः

॥१६॥

अभीष्टा कस्यचित्कांता कांतः कस्याश्चिदीप्सितः ॥

परस्परानुरागाढयं दांपत्यमतिदुर्लभम्

॥१७॥

ममायं वल्लभो राजा न चाहं नृपवल्लभा ॥

परस्परानुरागो हि धन्यानामेव जायते

॥१८॥

यद्यद्य स महीपालो न मया संगमेष्यति ॥

तत्कामाग्निरवश्यं मां क्षपयिष्यति दुःसहः

॥१९॥

रमणीयमभूद्यत्तु पुंस्कोकिलनिनादितम् ॥

हीनं हि वल्लभेनैवं दहतीवाद्य मे वनम्

॥२०॥

इत्थं सा मदनाविष्टा विलपन्ती पुनःपुनः ॥

ददर्श तापसं तत्र त्रिकालज्ञं दृढव्रतम्

॥२१॥

मेखलाजिनकौपीनदण्डकाष्ठोपजीवनम् ॥

महौजसं महाभागं मुमुक्षुं मुनिपुंगवम्

॥२२॥

उदयादित्यसंकाशं विभावसुसमद्युतिम् ॥

तं दृष्ट्वा सहसोत्थाय सा राज्ञी दुर्मता सती

॥२३॥

विनयेनोपसंयम्य प्रणिपत्याभिवाद्य च ॥

वियोगकारणं राज्ञः पप्रच्छ प्रणता सती

॥२४॥

भगवन्काशिराजस्य सुताहमतिवल्लभा ॥

भगिनी शत्रुसेनस्य मातुश्चातीव वल्लभा

॥२५॥

अश्ववाहनसंज्ञेन नृपेणोढा महामुने ॥

धर्मतो धर्मकल्पेन प्रजपतिसमेन तु

॥२६॥

सा किमर्थं न चाभीष्टा जाताऽहं तस्य भूपतेः ॥

स चातीव ममाभीष्टो नृपतिः सर्वदा विभो

॥२७॥

दुर्भगाहं कथं जाता कर्मणा केन तापस ॥

कथं भवति वश्यो मे भर्त्ता नृपतिसत्तमः ॥

सौभाग्यं च कथं मे स्यादिति सत्यं च कथ्यताम्

॥२८॥

तस्यास्तद्वचनं श्रुत्वा स मुनिः संशितव्रतः ॥

ज्ञानेन कथयामास तस्या दौर्भाग्यकारणम्

॥२९॥

पाणिग्रहणकाले त्वं ग्रहैः पापैर्विलोकिता ॥

भर्ता ते नृपतिः पुत्रि ग्रहैः सौम्यैर्विलोकितः

॥३०॥

तेन ते वल्लभो राजा न त्वं भूपस्य वल्लभा ॥

इति तस्य वचः श्रुत्वा सा राज्ञी दीनमानसा ॥

पप्रच्छ विनयोपेता भक्तिनम्रात्मकन्धरा

॥३१॥

भगवन्केन दानेन स्नानेन नियमेन च ॥

कर्मणा केन सौभाग्यं परमं हि कथं भवेत्

॥३२॥

इति तस्या वचः श्रुत्वा स मुनिः संशितव्रतः ॥

कथयामास माहात्म्यं सौभाग्यं येन लभ्यते

॥३३॥

महाकालवने पुत्रि लिगं सौभाग्यदायकम् ॥

मतंगेश्वरपार्श्वे तु विद्यतेऽभीष्टदायकम् ॥

तस्य दर्शनमात्रेण सौभाग्यं समवाप्स्यसि

॥३४॥

इंद्राण्याराधितं लिंगं पुरा सौभाग्यकारणात् ॥

सौभाग्यं परमं लब्धं नष्टः शक्रोऽपि लब्धवान् ॥

तस्माद्गच्छ ममादेशान्महाकालवनं शुभम्

॥३५॥

सौभाग्यं भविता तत्र कांतेन सह दर्शनम् ॥

पुत्रो भविष्यति शुभे तस्य लिंगस्य दर्शनात्

॥३६॥

इत्युक्ता सा तदा तेन तापसेन वरानने ॥

विद्यते यत्र तल्लिंगं महाकालवनं गता

॥३७॥

ददर्श प्रणयोपेता लिंगं सौभाग्यदायकम् ॥

दर्शनात्तस्य लिंगस्य राजा सस्मार तां प्रियाम्

॥३८॥

पप्रच्छ जमदग्निं तु क्व गता मे प्रिया विभो ॥

भक्षिता विपिने विप्र सिंहव्याघ्रनिशाचरैः

॥३९॥

मया त्यक्ता नृशंसेन अहं तस्यास्तु वल्लभः ॥

एवं ब्रुवाणो नृपतिः प्रत्युक्तो जमदग्निना

॥४०॥

न भक्षिता सा भूपाल सिंहव्याघ्रनिशाचरैः ॥

सा चाविप्लुतचारित्रा त्वद्भक्ता च पतिव्रता

॥४१॥

महाकालवनं राजन्गता सौभाग्यकाम्यया ॥

भार्या रक्ष्या महीपाल इति सा श्रुतिरुत्तमा

॥४२॥

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ॥

आत्मा हि जायते तस्यां सा रक्ष्यातो नरेश्वर

॥४३॥

धर्महानिश्चानुदिनमभार्यस्य भवेन्नृप ॥

नित्यक्रियाया विभ्रंशः स चापि पतनाय वै

॥४४॥

पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्त्तरि ॥

दुःशीला दुर्भगा भार्या पोषणीया नरेश्वर

॥४५॥

इति तस्य वचः श्रुत्वा समायातो नरेश्वरः ॥

महाकालवने रम्ये ददर्श स्वां प्रियां तदा

॥४६॥

सौभाग्यालंकृतां सुभ्रू पूजयंतीं महेश्वरम् ॥

दृष्ट्वा स्नेहेन चालिंग्य प्रत्युवाच स तां प्रियाम्

॥४७॥

विरहेण त्वदीयेन संतप्तोऽहं वरानने ॥

अद्य मे सफलं चक्षुर्जीवितं च सुजीवितम्

॥४८॥

यत्त्वां पश्यामि सुभगे कृतार्थोहं कृतस्त्वया ॥

एवं दृष्टातिहर्षेण सा ददर्श तदा पतिम् ॥

उवाच च प्रसीदेति भूयो भूयो मुदान्विता

॥४९॥

ततः स राजा रभसात्परिष्वज्याह भामिनीम् ॥

प्रिये प्रसन्न एवाहं भूयो भूयो ब्रवीमि किम्

॥५०॥

ततः समागमो जातो जातः पुत्रोऽतिधार्मिकः ॥

तस्य लिंगस्य माहात्म्याद्दत्तोनाम स गीयते

॥५१॥

सौभाग्यमतुलं लब्धं तया देव्या हिमात्मजे ॥

सौभाग्येश्वरसंज्ञं तु ततःप्रभृति भूतले

॥५२॥

ये पश्यंति विशालाक्षि सौभाग्येश्वरमीश्वरम् ॥

तेषां कुले न दौर्भाग्यं जायते पर्वतात्मजे

॥५३॥

भविष्यति न दारिद्र्यं वियोगो न च बन्धुभिः ॥

पुत्रमित्रकलत्राणां लिंगस्य च समर्चनात्

॥५४॥

नोपसर्गभयं तेषां ये पश्यंति वरानने ॥

सौभाग्येश्वरसंज्ञं तु न ग्रहादिभयं भवेत्

॥५५॥

सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥

मनुष्यो जायते देवि सौभाग्येश्वरदर्शनात् ॥

संपूज्यः सर्वलोकेषु सौभाग्येकनिधिर्भवेत्

॥५६॥

|| जायते भूपतिर्लोके सार्वभौमो वरानने ॥

नापुत्रा नाधना नारी न दीना न च दुःखिता ॥

जायते दुर्भगा नैव सौभाग्येश्वरदर्शनात्

॥५७॥

न वैधव्यं न च व्याधिर्नाकालमरणं श्रिये ॥

न पुत्रभर्तृजं दुःखं जायते लिंगदर्शनात्

॥५८॥

यथा लक्ष्मीर्हरेर्नित्यं सावित्री ब्रह्मणः स्मृता ॥

रोहिणी वल्लभा चेंदोः शची शक्रस्य वल्लभा ॥

तथा सा जायते नारी सौभाग्येश्वरदर्शनात्

॥५९॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

सौभाग्येश्वरदेवस्य शृणु रूपेश्वरं प्रिये

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिंगमाहात्म्ये सौभाग्येश्वरमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥