मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय २७

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 27

चतुरशीतिलिंगमाहात्म्येऽनरकेश्वरमाहात्म्यवर्णनम्

श्रीमहादेव उवाच

सप्तविंशतिमं देव्यनरकेश्वरसंज्ञकम् ॥

यस्य दर्शनमात्रेण स्वप्नेपि नरकः कुतः

॥१॥

पुरा कलियुगे देवि कल्पे वाराहसंज्ञके ॥

कलुषं कालमासाद्य सत्ये च प्रलयं गते

॥२॥

निर्मर्यादा निराधारा निरौका नास्तिका जनाः ॥

वर्णाश्रमाश्च संजाता वंचयंति परस्परम्

॥३॥

नार्चयंति सुरान्विप्राः कर्म कुर्वंति कुत्सितम् ॥

लोभमोहपरा भूत्वा कामासक्ताश्च मानवाः

॥४॥

वैरबद्धाश्च संजाताः परस्परवधे रताः ॥

निवृत्तयज्ञस्वाध्यायपिंडोदकविवर्जिताः

॥५॥

ब्राह्मणाः सर्वभक्ष्याश्च मृषावादपरायणाः ॥

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते तदा

॥६॥

दृश्यंते षोडशे वर्षे नराः पलितिनः प्रिये ॥

आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते

॥७॥

एवंविधाः समुद्भूता नरा नार्यश्च पातकैः ॥

नरकेषु प्रपद्यंते क्रमात्पापानुसारतः

॥८॥

कुठारैर्भिन्नमूर्द्धानः क्रकचैः पाटिताः परे ॥

अग्निवर्णैश्च संदंशैरुत्पाटितविलोचनाः

॥९॥

भिन्नाश्चायोमयैस्तीक्ष्णैरग्नितप्तैश्च कीलकैः ॥

पीड्यंते शैलशिखरैश्चूर्ण्यंते क्रूरभूधरैः

॥१०॥

क्षिप्यंते तप्तकुण्डेषु दह्यंते वह्निराशिषु ॥

अमेध्येऽधोमुखाश्चान्ये मर्द्दिता दंडपाणिना

॥११॥

लौहैश्च शृङ्खलैर्बद्धा ह्यधोवक्त्रैश्च लंबितैः ॥

अंतरिक्षे परिक्षेपात्क्रंदंतोऽतीव दुःखिताः

॥१२॥

कृमिभिर्भ्रमरैस्तीक्ष्णैर्दंशैश्च मशकैस्तथा ॥

लोहतुंडैश्च विहगैर्निर्दयैर्भक्षिता नराः

॥१३॥

केचित्कृत्ताः प्रधावंति तोयार्थं च तृषातुराः ॥

स्वमूत्रं पायिताश्चंडैः क्षुभिताश्चापि घातनैः

॥१४॥

यैश्चांगैः पतितं कर्म क्रियते पुरुषैर्भुवि ॥

तेषां तान्येव चांगानि शोध्यंते यातनागतैः

॥१५॥

ये पश्यंति गुरुं देवान्ब्राह्मणान्क्रुद्धचक्षुषा ॥

दुष्टेन परदारांश्च वीक्षंते लोचनेन ये ॥

तेषां नेत्राणि भिद्यंते कृष्यंते लोहशंकुभिः

॥१६॥

श्रवणौ च प्रपूर्यंते लौहेन शंकुना ततः ॥

पुनश्च शस्त्रैः कृष्यंते पुनस्तप्तैश्च कीलकैः

॥१७॥

लौहैर्वेगान्निखन्यंते यैः श्रुतं गुरुनिंदनम् ॥

मित्राणां देवतानां च साध्वीनामथवा क्वचित्

॥१८॥

शतशः पाट्यते जिह्वा वह्निवर्णैरयोमुखैः ॥

शंकुभि स्तीक्ष्णसूक्ष्माग्रैः पूर्यंते चानिलैः पुनः

॥१९॥

तद्वक्त्राणि बहून्वारान्येपवादरता नराः ॥

ये गुरुं मातरं वापि पारुष्येण वदंति वै

॥२०॥

ये निघ्नंति दुराचाराः सुरार्थायोपकल्पिते ॥

आरामे पुष्पपत्राणि तेषामंगानि कृंतति

॥२१॥

यैरप्यालिंगिता नारी परस्य च दुरात्मभिः ॥

तेषामयोमयी नारी वह्निवर्णा तु वक्षसि

॥२२॥

स्थाप्यते वध्यते चापि प्रचंडैर्यमकिंकरैः ॥

नार्यश्च पुरुषैस्तप्तैरालिंग्यंते ह्ययोमयैः

॥२३॥

तदा लोहमये गेहे ज्वलितानलसंस्तरे ॥

निक्षिप्यंते नरैः सार्द्धमासाद्य कालसंक्षयम्

॥२४॥

यावती वेदना देहे इह लोके प्रदृश्यते ॥

नराणामंगपीडा वै तस्माच्छतगुणा भवेत्

॥२५॥

काकैश्च वृश्चिकैर्गृध्रैर्भक्ष्यंतेऽप्यपरे नराः ॥

दह्यमाना विलपंति भ्रातस्तातेति चाकुलाः ॥

वदंत्यसकृदुद्विग्ना न च शांतिं लभंति वै

॥२६॥

दुःखानि ते प्राप्नुवंति यान्यसह्यानि पार्वति ॥

एवं ते यातनादुःखं प्राप्नुवंति सुनिश्चितम् ॥

निमिर्नाम महाभागो यममार्गं ददर्श ह

॥२७॥

रौद्रं भयानकं दुर्गं पूरितं पापकर्मभिः ॥

तमसा संवृतं चैव केशशैवालशाद्वलम्

॥२८॥

संपृक्तं पापकृद्गंधैर्मांसशोणितकर्द्दमैः ॥

वह्निज्वालेन दीप्तेन समंतात्परिवारितम्

॥२९॥

अधोमुखैश्च कर्कोटैर्गृध्रैश्च समभिद्रुतम् ॥

सूचीमुखैस्तथा प्रेतैविंध्यशैलोपमैर्वृतम्

॥३०॥

वृक्षै रुधिरमांसैश्च छिन्नबाहूरुपाणिभिः ॥

निकृत्तोदरहस्तैश्च तत्रतत्र प्रचारितैः

॥३१॥

वृतं कुणपदुर्गंधैरशिवं भोगवर्जितम् ॥

असिपत्र वनं चैव समंतात्परिवारितम्

॥३२॥

करंभवालुकाकीर्णमायसीश्च शिलाः पृथक् ॥

ददर्श चापि देहोत्थयातनां पापकर्मणाम्

॥३३॥

स तं दुर्गंधमालक्ष्य पुरुषं तमुवाच ह ॥

कियदध्वानमस्माभिर्गंतव्यमिदमब्रवीत्

॥३४॥

देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥

इत्युक्तो यमदूतस्तु दण्डहस्तोऽग्निसप्रभः ॥

पुरतो दर्शयन्मार्गमित एहीत्युवाच ह

॥३५॥

भूयः स राजा तं प्राह किंकरं विनयान्वितः ॥

भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम्

॥३६॥

येनेदं व्यसनं प्राप्तं मया च धार्मिकेण हि ॥

निमिर्नामाहं विख्यातो जनकानामहं कुले

॥३७॥

जातो विदेहविषये सम्यग्मनुजपालकः ॥

चातुर्वर्ण्यं च धर्मस्थं कृत्वा संरक्षितं मया

॥३८॥

धर्मप्रधानकल्पेन मनुनात्र यथा पुरा ॥

यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही

॥३९॥

नोत्सृष्टश्चैव संग्रामो नातिथिर्विमुखोऽभवत् ॥

कृता स्पृहा च न मया परस्त्रीविभवादिषु

॥४०॥

सोऽहं कथमिमं प्राप्तो नरकं भृशदारुणम् ॥

इति पृष्टस्तदा तेन निमिना यमकिंकरः ॥

उवाच प्रणतो भूत्वा क्रूरोऽपि प्रश्रितं वचः

॥४१॥

पुरुष उवाच

महाराज यथात्थ त्वं तथैतन्नात्र संशयः ॥

किन्तु स्वल्पं कृतं पापं भवंतं स्मारयामि तत्

॥४२॥

उक्ता या दक्षिणा श्राद्धे न दत्ता सा त्वया नृप ॥

प्रमादाद्विस्मृता चैव तस्येदं कर्मणः फलम्

॥४३॥

एतावदेव ते पापं नान्य त्किंचन विद्यते ॥

वैदेहागच्छ पुण्यानामुपभोगाय पार्थिव

॥४४॥

एवं श्रुत्वा तु राजर्षिर्निमिर्दूतमथाब्रवीत् ॥

यास्यामि देवानुचर यत्र मां त्वं हि नेष्यसि

॥४५॥

किंचित्पृच्छामि ते तत्त्वं यथावद्वक्तुमर्हसि ॥

वज्रतुंडास्त्वमी काकाः पुंसां नयनहारिणः

॥४६॥

पुनः पुनश्च नेत्राणि तद्वत्तेषां भवंति हि ॥

किं कृतं कर्म दूतेंद्र कथयैतज्जुगुप्सितम्

॥४७॥

हरंत्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥

करपत्रेण पाट्यंते कस्मादेते सुदुःखिताः

॥४८॥

किमेते नष्टचित्ताश्च तुद्यंतेऽहर्निशं नराः ॥

एताश्चान्याश्च दृश्यंते यातनाः पापकर्मिणाम् ॥

कियत्कालं भविष्यंति तन्ममोद्दे शतो वद

॥४९॥

पुरुष उवाच

यन्मां पृच्छसि भूपाल पापकर्मफलोदयम् ॥

तत्तेहं संप्रवक्ष्यामि संक्षेपेण यथातथम्

॥५०॥

पुण्या पुण्ये हि पुरुषः पर्यायेण समश्नुते ॥

भुंजतश्च क्षयं याति पुण्यं पापमथापि वा

॥५१॥

न तु भोगादृते पुण्यं पापं कर्म च मानवः ॥

परित्यजति राजेन्द्र सत्यमेतदुदाहृतम्

॥५२॥

एवमेते महापापा यातनाभिरहर्निशम् ॥

क्षपयंति महाघोरं नरकांतरवर्त्तिनः

॥५३॥

देवत्वेऽथ मनुष्यत्वे तिर्यक्त्वेऽथ शुभाशुभम् ॥

पुण्यपापोद्भवं भुंक्ते सुखदुःखं न संशयः

॥५४॥

एतदुद्देशतो राजन्भवता कथितं मया ॥

स्वकर्मफलमोक्षाणां पुण्यानां पापिनां तथा

॥५५॥

तदेह्यन्यत्र गच्छावि यथा दृष्टं त्वयाधुना ॥

ततस्तमग्रतः कृत्वा स राजा गंतुमुद्यतः

॥५६॥

तदा हि सर्वैरुद्घुष्टं यातना स्थायिभिर्नृभिः ॥

प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्त्तकम् ॥

त्वदंगसंगी पवनो देहान्ह्लादयते हि नः

॥५७॥

परितापं च गात्रेभ्यः पीडा बाधाश्च कृत्स्नशः ॥

अपहंति नरव्याघ्र कृपां कुरु महीपते

॥५८॥

एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः ॥

पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति

॥५९॥

किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् ॥

प्रह्लादजननी दृष्टिर्यस्येयं तदुदीर्यताम्

॥६०॥

पुरुष उवाच

त्वया दृष्टो महाकाले विख्यातोऽनरकेश्वरः ॥

आश्विनस्य चतुर्दश्यां तस्येदं फलमीदृशम्

॥६१॥

ततस्तद्गात्रसंसर्गी पवनो ह्लाददायकः ॥

पापकर्मकृतां राजन्यातना न प्रबाधते

॥६२॥

राजोवाच

यदि मत्संनिधाने सा यातना न प्रबाधते ॥

ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः

॥६३॥

पुरुष उवाच

एहि राजेंद्र गच्छावो निजपुण्यसमार्जितान् ॥

भुंक्ष्व भोगान्न यास्येतां यातनां पापकर्मणाम्

॥६४॥

राजोवाच

न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः ॥

यदार्त्तजंतुं निर्वाणमानेतुमिति मे मतिः

॥६५॥

तस्मान्न तावद्यास्यामि यावदेते सुदुःखिताः ॥

मत्संनिधानात्सुखिनो भवंतु नरकौकसः

॥६६॥

प्राप्स्यंते ते यदि सुखं बहवो दुःखिते मयि ॥

किं तु प्राप्तं मया सर्वं तस्मात्त्वं व्रज मा चिरम्

॥६७॥

पुरुष उवाच

एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ ॥

अवश्यमस्माद्गंतव्यं तस्मात्पार्थिव गम्यताम्

॥६८॥

एतस्मिन्नंतरे धर्मः शक्रेण सहितोब्रवीत् ॥

निमे परमधर्मज्ञ प्रीता देवगणास्तव

॥६९॥

एह्येहि पुरुषव्याघ्र कृतमेतावता प्रभो ॥

सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयान्विताः

॥७०॥

न च मन्युस्त्वया कार्यः शृणु मे वचनं विभो ॥

अवश्यं नरकस्तावद्द्रष्टव्यः सर्वराजभिः

॥७१॥

नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः ॥

विमानवरमारुह्य विमलं चाद्य गम्यताम्

॥७२॥

निमिरुवाच

नरके मानवा धर्म पीड्यंतेऽत्र सहस्रशः ॥

त्राहीति वार्त्तां क्रंदंतो मामतो न व्रजाम्यहम्

॥७३॥

इन्द्र उवाच

कर्मणा नरके प्राप्तिरेषां च पापकर्मणाम् ॥

स्वर्गे त्वयापि गंतव्यं नृप पुण्येन कर्मणा

॥७४॥

राजोवाच

परिजानासि धर्मज्ञ त्वं वा शक्र शचीपते ॥

विशिष्टं मम किं पुण्यं शुभं तद्वक्तुमर्हसि

॥७५॥

धर्म उवाच

आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥

तस्यां त्वया महाबाहो महाकालवनोत्तमे ॥

दृष्टो देवः सुविख्यातः स्वर्गदोऽनरकेश्वरः

॥७६॥

तद्विशिष्टं च ते पुण्यं तस्य संख्या न विद्यते ॥

स्वकर्मोपार्जितं पुण्यं भुंक्ष्व राजन्यथासुखम् ॥

एते नारकिकाः सर्वे क्षपयंतु स्वकर्मजाम्

॥७७॥

राजोवाच

कथं स्पृहां करिष्यंति सत्संगेषु च मानवाः ॥

यदि मत्संनिधावेषामुत्कर्षो नोपजायते

॥७८॥

तस्माद्यत्सुकृतं किंचिद्विशिष्टतरमस्ति वै ॥

तेन मुच्यंतु नरकात्पापिनो यातनागताः

॥७९॥

धर्म उवाच

राजंस्त्वया कृतं पूर्वेऽनरकेश्वरदर्शनम् ॥

तदुत्पन्नस्य पुण्यस्य कलामेभ्यः प्रयच्छ वै

॥८०॥

तत्पुण्यस्य प्रभावेण मोक्ष्यंते नरकादिमे ॥

तथा कृते ततस्तेन विमुक्ता नरकाच्च ते

॥८१॥

ततोऽब्रवीद्धर्मराजो निमिं शक्रसमन्वितः ॥

एवं श्रेष्ठतरं स्थानं त्वया प्राप्तं महीपते

॥८२॥

एतांश्च नारकान्पश्य विमुक्तान्पापकर्मणः ॥

ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः

॥८३॥

विमानं चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥

येये तत्राभवन्पापा यातनाभ्यः परिच्युताः

॥८४॥

प्रभावात्तस्य देवस्य स्वर्गलोकं गताः प्रिये ॥

अतो देवः सुविख्यातः सदेवोऽनरकेश्वरः

॥८५॥

स्तुतो देवगणैः सर्वैर्नरकादवतारकः ॥

जातः स एव सुकृती कुलं तेनैव पावितम्

॥८६॥

यः पश्यति नरो नित्यं देवं चानरकेश्वरम् ॥

तेषां विलीयते पापं पूर्वजन्मशतोद्भवम्

॥८७॥

येनुमोदंति देवस्य दर्शनं पर्वतात्मजे ॥

तेऽपि पापविनिर्मुक्ताः प्रयांति मम मंदिरे

॥८८॥

समतीतं भविष्यच्च कुलानामयुतं नरः ॥

मम लोकं नयत्याशु तस्य लिंगस्य दर्शनात्

॥८९॥

शिवयोगसमायुक्ता कृष्णा या च चतुर्दशी ॥

सा प्रोक्ता वल्लभा तस्य सर्वपापप्रणाशिनी

॥९०॥

ये चायाzति नरास्तस्यां देवं चानरकेश्वरम् ॥

उपोष्य पापैर्मुच्यंते ते नराः शतजन्मजैः

॥९१॥

कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥

तत्क्षालयति देवोसौ तिथौ तस्यां समर्चितः

॥९२॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

जटेश्वरस्य देवस्य शृणु माहात्म्यमुत्तमम्

॥९३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्येऽनरकेश्वरमाहात्म्यवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥