श्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
शृणु त्वं पशुपत्याख्यं चतुःषष्टिकमीश्वरम् ॥
यस्य दर्शनमात्रेण पशुयोनिर्न लभ्यते
॥१॥पशुपालो महादेवि बभूव भुवि विश्रुतः ॥
राजा परम धर्मिष्ठः पशूनां पालने रतः
॥२॥दिदृक्षुः स कदाचिच्च गतस्तोयनिधिं प्रति ॥
ददर्श तत्र पुरुषान्पंच प्राधान्यतः स्थितान् ॥
एका स्त्री मुक्तकेशा सा भ्रमन्ती च पुनःपुनः
॥३॥अथ राजा भयाविष्टो विसंज्ञः समपद्यत ॥
संवेष्टितो दस्युभिस्तैस्तया नार्या विशेषतः
॥४॥ततोन्ये समपातं च आगत्य नृपसत्तमम् ॥
संवेष्ट्य संस्थितैः सर्वैस्ततो रुद्धो महीपतिः
॥५॥रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ॥
घातिताः पशुपालेन न मृताः पुनरुत्थिताः
॥६॥तस्य तां धृष्टतां ज्ञात्वा स्थैर्यं च नृपतेर्मृधे ॥
तस्यैव नृपतेर्देहे लीनास्ते दश दस्यवः
॥७॥अमूर्ता इव ते सर्वे एकीभूतास्ततोऽभवन् ॥
तान्दृष्ट्वा दुःखितो राजा पशुपालोऽभवत्क्षणात्
॥८॥अथापश्यत्तदाऽऽयांतं नारदं मुनिपुंगवम् ॥
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छ स नृपस्तदा
॥९॥पशु पाल उवाच
भगवन्ब्रह्मपुत्राद्य मया दृष्टं तु कौतुकम् ॥
अकस्मात्पुरुषाः पंच समायाता भयावहाः
॥१०॥तैरहं वेष्टितो दुष्टैर्व्याकुलश्च कृतस्तदा ॥
मुष्टिभिर्हन्यमानोऽहं स्वस्थो जातो द्विज क्षणात्
॥११॥ततोऽन्ये पुरुषाः पञ्च समायाता नियुध्य माम् ॥
हन्यतां हन्यतामेष मुक्तिकामो नृपाधमः
॥१२॥एवं तैः पीडितोऽत्यर्थं पुनर्मोहमुपागतः ॥
एतस्मिन्नन्तरे सा स्त्री मामुवाच पुनःपुनः
॥१३॥दृढो भव महाराज मा विषादं कुरु प्रभो ॥
हीनवीर्या ह्यमी चोराः समर्थस्त्वं स्थिरो भव
॥१४॥तस्या वाक्येन विप्रेंद्र मया धैर्येण संयुगे ॥
दश प्रधान पुरुषा जितास्ते न मृताः प्रभो
॥१५॥प्रलीना मच्छरीरे तु केप्यते कापि साऽबला ॥
पशुपालवचः श्रुत्वा नारदो वाक्यमब्रवीत्
॥१६॥ये त्वया पुरुषा दृष्टास्त्वयि लीना जिता मृधे ॥
बुद्धीन्द्रियाणि ते पञ्च पंच कर्मेन्द्रियाणि च ॥
भ्रमन्ती या च नारी सा त्वया दृष्टा नृपोत्तम
॥१७॥मनोरूपेण सा बुद्धिर्भ्रमत्येव हि न स्थिरा ॥
जितानि तानि पूर्वेण ब्रह्मणा लोककर्तृणा
॥१८॥सोऽपि क्रोधवशं नीत इन्द्रियैर्विषयैः प्रियैः ॥
पितामहेन स्वे यज्ञे शम्भोर्भागो न कल्पितः
॥१९॥महादेवो जगन्नाथः सृष्टिसंहारकारकः ॥
इंद्रियैर्मोहितो राजन्क्रोधं चक्रे सुरा न्प्रति
॥२०॥सुरा विभूतयो यस्य क्रीडार्थं भुवनत्रयम् ॥
तेन भागनिमित्तार्थं चक्रे सज्यं धनुस्तदा
॥२१॥पूष्णश्च दंताः संभग्ना मोहितश्च दिवाकरः ॥
नेत्रे भग्ने भगस्यापि विद्धो यज्ञो मृगाकृतिः
॥२२॥पशवश्च कृता देवा मुनयो वेदवर्जिताः ॥
ऋषीणां धर्मशास्त्राणि हृतानि विभुना तथा
॥२३॥दुर्जयानीन्द्रियाण्याहुर्मुनयो वेदपारगाः ॥
मनोरूपेण या बुद्धिः सा चातीव सुदुर्जया
॥२४॥तस्माद्राजन्महाबाहो मा विषादं वृथा कृथाः ॥
तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः ॥
पशुपालो महादेवि वक्तुं समुपचक्रमे
॥२५॥पशुपाल उवाच
कथं ते भगवन्मुक्ता देवाः शक्रपुरोगमाः ॥
पशुभावाच्च ब्रह्मापि श्रोतुमिच्छामि कथ्यताम्
॥२६॥तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् ॥
पशु त्वेऽपि गता देवा ऋषिभिर्मुनिभिः सह
॥२७॥ब्रह्माणमग्रतः कृत्वा गताः शरणमीश्वरम् ॥
स्तुतिभिस्तोषितो देवो भक्तानुग्रहकारकः
॥२८॥उवाच वचनं राजन्यत्कर्तव्यं तदुच्यताम्
॥२९॥देवा ऊचुः
वेदशास्त्राणि विज्ञानं देहि नो भव मा चिरम् ॥
देवस्त्वं पूर्ववद्देव यदि तुष्टो महेश्वरः
॥३०॥ईश्वर उवाच
भवंतः पशवः सर्वे मया सार्द्धं च गम्यताम् ॥
महाकालवने क्षेत्रे पशुभावविमोक्षके
॥३१॥अहं पतिर्वो भविता ततो मोक्षमवाप्स्यथ ॥
भवतामनुकंपार्थं लोकानुग्रहकारणम् ॥
लिंगरूपी भविष्यामि नाम्ना पशुपतीश्वरः
॥३२॥अथ ते त्रिदशाः सर्वे दृष्ट्वा देवं तमीश्वरम् ॥
पशुभावविनिर्मुक्ता गता हृष्टास्त्रिविष्टपम् ॥
ब्रह्मा पशुपतिं प्राह प्रसन्नेनांतरात्मना
॥३३॥ये त्वां पश्यन्ति देवेश भक्त्या परमया युताः ॥
तेषां कुले पशुत्वं च ये गताः पितरः प्रभो ॥
स्वकैः कर्मविपाकैश्च तेषां मोक्षो भविष्यति
॥३४॥अज्ञानाज्ज्ञानतो वापि यत्पापं क्रियते नरैः ॥
तत्पापं विलयं यातु तस्य देवस्य पूजनात्
॥३५॥ते नराः पशवो लोके किं तेषां जीविते फलम् ॥
यैर्न दृष्टः पशुपतिः पशुयोनिविमोचकः
॥३६॥कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम् ॥
तत्पापं विलयं याति दृष्ट्वा पशुपतिं शिवम्
॥३७॥पौषमासे तु संप्राप्ते ये त्वां पश्यंति मानवाः ॥
तेषां त्वं वरदो देव सदाभीष्टकरो भवेत्
॥३८॥सूर्यग्रहे यथा दत्तं कुरुक्षेत्रे विशेषतः ॥
पात्रे दानं सुवर्णस्य प्रोक्तमक्षय्यमव्ययम्
॥३९॥पौषमासे दिनैकेन नराणामधिकं तथा ॥
तद्दर्शनेन देवेश भविष्यति न संशयः
॥४०॥इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकं गतो नृप ॥
कृतकृत्यः प्रहृष्टात्मा मुनिभिः कविभिः सह
॥४१॥तस्मात्त्वमपि राजेंद्र यदीच्छसि परां गतिम् ॥
समाराधय तल्लिंगं पशुयोनिविमोचनम् ॥
महाकालवनं गत्वा इन्द्रेश्वरस्य दक्षिणे
॥४२॥तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः ॥
जगाम पशुपालोऽपि महाकालवनं प्रिये ॥
दर्शनात्तस्य लिंगस्य गतोऽसौ परमां गतिम्
॥४३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
पशुपत्याख्यदेवस्य शृणु ब्रह्मेश्वरं शिवम्
॥४४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पशुपती श्वरमाहात्म्यवर्णनंनाम चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥