त्रिविष्टपेश्वरमाहात्म्यवर्णनम्
श्रीमहादेव उवाच
त्रिविष्टपेश्वरं देवि सप्तमं पर्वतात्मजे ॥
यस्य दर्शनमात्रेण लभ्यते तत्त्रिविष्टपम्
॥१॥पुरा वाराहकल्पे तु देवर्षिर्नारदोऽमलः ॥
त्रिविष्टपं गतो देवि द्रष्टुकामः शतक्रतुम्
॥२॥तत्रोद्यानवने रम्ये कल्पवृक्षैर्विराजिते ॥
सर्वत्र कुसुमामोदसुखस्पर्शानिलाकुले
॥३॥वीणावेणुरवैर्घुष्टे देवगंधर्वसेविते ॥
वज्रेंद्रनीलवैदूर्यचंद्रकांतादिदीपिते
॥४॥ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणे शुभे ॥
ददर्श तत्र देवेशमुपविष्टं शतक्रतुम् ॥
स्तूयमानं मुदा देवैः सि द्धचारणकिन्नरैः
॥५॥पृष्टस्तु नारदो देवि वासवेन महामुनिः ॥
कथयामास माहात्म्यं महाकालवनस्य च
॥६॥महाकालवनं रम्यं सदानंदकरं शुभम् ॥
सेव्यं पुण्यं पवित्रं च तीर्थानामुत्तमोत्तमम्
॥७॥पुण्यं पश्यंति ये लोका महाकालवनं शुभम् ॥
ब्रह्महत्यादिकं पापं तेषां नश्यति निश्चि तम्
॥८॥स्वयं तिष्ठति देवोऽत्र सर्वभूतगणैर्वृतः ॥
तस्मात्तत्तीर्थमुख्यानां प्रवरं कथ्यते बुधैः
॥९॥पृथिव्यां नैमिषं पुण्यं सर्वपापप्रणाशनम् ॥
तस्माद्दशगुणं प्रोक्तं पुष्करं तीर्थमुत्तमम्
॥१०॥ततो दशगुणं प्रोक्तं प्रयागं सर्वकामिकम् ॥
तस्माद्दशगुणं प्रोक्तं विख्यातममरेश्वरम्
॥११॥प्राची सरस्वती पुण्या तस्माद्दशगुणा स्मृता ॥
तस्मादशगुणं प्रोक्तं गयाकूपं विशिष्यते
॥१२॥तस्माद्दशगुणं देवि कुरुक्षेत्रं विशिष्यते ॥
कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी तथा
॥१३॥तस्या दशगुणं श्रेष्ठं महाकालं विशिष्यते ॥
महाकालवनं शक्र किल त्रैलोक्यभूषणम्
॥१४॥षष्टि कोटिसहस्राणि षष्टिकोटिशतानि च ॥
लिंगानि तत्र विद्यंते भुक्तिमुक्तिकराणि च
॥१५॥शक्तयो नव कोट्यस्तु तस्मिन्क्षेत्रे वसन्ति हि
॥१६॥कृमिकीटपतंगाश्च मृता यत्र ततः क्रतौ ॥
यांति दिव्यैर्विमानैश्च रुद्रलोकं सनातनम् ॥
माहात्म्यमद्भुतं श्रुत्वा नारदात्सुरसत्तमः
॥१७॥सर्वदेव गणैः सार्द्धमाजगाम त्वरान्वितः ॥
वासवः श्रीमहाकालवनं हर्षसमन्वितः ॥
दृष्ट्वा तथाविधं रम्यं महाकालवनं शुभम् ॥
त्रिविष्टपादप्यधिकं प्रलयेऽप्यक्षयं स्मृतम्
॥१९॥विचित्राणि च हर्म्याणि कांचनानि शुभानि च ॥
प्रासादाः शतशो भौममणिविद्रुमभूषिताः
॥२०॥वज्रेंद्रनीलरचिताः शुद्धस्फटिकसंनिभाः ॥
तोरणानि विचित्राणि माणिक्यरचितानि च ॥
दृष्ट्वा तथाविधं रम्यं महाकालवनोत्तमम्
॥२१॥नारदं प्रशशंसुस्ते सर्वे देवा मुदान्विताः ॥
देवर्षीणां महाप्राज्ञा येनेयं कथिता कथा
॥२२॥न कैलासं गमिष्यामो न च मेरुं तथाविधम् ॥
न मंदरं गमिष्यामो न यास्यामस्त्रिविष्टपम्
॥२३॥एषामरावती श्रेष्ठा ह्येषा भोगवती शुभा ॥
एषा पैतामहो लोको विष्णुलोकस्तथैव च
॥२४॥एतस्मिन्नंतरे देवि शून्यं जातं त्रिविष्टपम् ॥
ज्ञात्वा शून्यमथात्मानं चिंतयित्वा पुनःपुनः ॥
गमनाय मतिं चक्रे कृत्वा देहमथात्मनः
॥२५॥त्यक्त्वा मां त्रिदशाः सर्वे महाकालवनं गताः ॥
अहं तत्रैव यास्यामि यत्र ते त्रिदशा गताः
॥२६॥इत्युक्त्वा तत्क्षणं प्राप्तो महाकालवनोत्तमे ॥
कौतुकात्सोऽथ वै श्रेष्ठं तीर्थं तत्रापि भूतले ॥
ददर्श रमणीयं तैर्देवैः परिवृतं तदा
॥२७॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
भोभोस्त्रिविष्टपात्रैव स्वनाम्ना स्थापयस्व माम् ॥
कर्कोटकस्य पूर्वे तु महामायाश्च दक्षिणे
॥२८॥इत्युक्तो देवदेवेन हृष्टस्तद्गतचेतसा ॥
स्वनाम्ना स्थापयामास देवं त्रिविष्टपेश्वरम्
॥२९॥पूजयित्वा शुभैः पुष्पैरुवाचेदं वरानने ॥
अद्यप्रभृति भूर्लोको नाम्ना ख्यातिं गमिष्यति
॥३०॥ये त्वां पश्यंति यत्नेन अपि दुष्कृत कारिणः ॥
ते यास्यंति परं स्थानं दिव्यालंकारभूषिताः
॥३१॥अष्टम्यां च चतुर्द्दश्यां संक्रांतौ वा विशेषतः ॥
यः करिष्यति पूजां च भक्तियुक्तो हि मानवः
॥३२॥विमानवरमास्थाय कामगं रत्नभूषितम् ॥
उदितादित्यसंकाशं मत्समीपे वसिष्यति
॥३३॥किं दानैर्विविधैर्दत्तैः किं यज्ञैर्विविधैः कृतैः ॥
ते प्राप्स्यंति फलं सर्वं ये त्वां द्रक्ष्यंति भक्तितः
॥३४॥यंयं काममभिध्याय पूजयिष्यंति मानवाः ॥
तत्तन्मनोरथप्राप्तिर्भविष्यति न संशयः
॥३५॥त्रिदशैश्च पुनः प्रोक्तं दृष्ट्वा मल्लिंगमुत्तमम् ॥
त्रिविष्टपेन धन्येन स्थापितं देवमीश्वरम्
॥३६॥पूजयिष्यंति ये धन्या देवं त्रिविष्टपेश्वरम् ॥
तेषां वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे
॥३७॥इत्युक्त्वा पूजयामास भूयो लिंगं त्रिविष्टपम् ॥
सार्द्धं त्रिविष्टपेनैव पुनः स्थानं स्वकं गतः
॥३८॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
श्रवणात्कीर्त्तनाद्वापि स्वर्गलोकोऽक्षयो भवेत्
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये त्रिविष्टपेश्वरमाहात्म्यवर्णनंनाम सप्तमो ऽध्यायः ॥ ७ ॥