चतुर्द्वारस्थितं देवि शृणु लिंगचतुष्टयम्
ईश्वर उवाच
चतुर्द्वारस्थितं देवि शृणु लिंगचतुष्टयम् ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्
॥१॥अहं पृष्टस्त्वया देवि कौतुकाच्च वरानने ॥
अतीव रमणीयं च स्थलं दर्शय मे प्रभो
॥२॥सेवितं बहुभिः सिद्धैः पुनरावृत्तिकांक्षिभिः ॥
यद्गुह्यं च पवित्रं च प्रलयेऽप्यविनाशि यत्
॥३॥अनन्यसदृशं दिव्यं यत्तीर्थं यत्तपोवनम् ॥
असंख्येयगुणोपेतं भुक्तिमुक्तिकरं शुभम्
॥४॥सुवर्णशृंगाः प्रासादा हर्म्याणि विविधानि च ॥
उद्यानानि विचित्राणि मार्गाश्च विविधाः शुभाः
॥५॥समीहितफलावाप्तिर्यत्र लभ्या सुखेन वै ॥
सिद्धचारणगन्धर्वकिंनरोद्गीतनादितम्
॥६॥पुण्यलोको पमस्थानं त्रिविष्टपविभूषणम् ॥
एवमभ्यर्थितो देवि मंदरे चारुकन्दरे
॥८०॥मया प्रोक्तं प्रसन्नेन स्थानं शृणु सनातनम् ॥
महाकालवनं रम्यं स्वर्गात्सुखकरं परम्
॥८॥अनौपम्यगुणोपेतं भुक्तिमुक्तिकरं शुभम् ॥
तत्समः कोऽपि धन्योऽन्यो न दृष्टो भुवनत्रये
॥९॥देवगन्धर्व्वसिद्धैश्च सेव्यं वै मुक्तिकांक्षिभिः ॥
विनोदार्थं मया सृष्टं त्वत्प्रियार्थं कुतूहलात्
॥१०॥तिलकं सर्वतीर्थानां जंबूद्वीपे मनोरमे ॥
इच्छाकामफलावाप्तिरनायासेन लभ्यते
॥११॥जरारोगभयैर्हीनं सर्वव्याधिविवर्जितम् ॥
शक्राग्नियमरक्षोंबुवायुसोमेशसेवितम् ॥
स्वर्गे प्रमुदिता देवास्तेऽपि कांक्षंति सर्वदा
॥१२॥असंख्येयफलं त्वत्र अक्षया च गतिः सदा ॥
यैर्न संसेवितं स्थानं वंचितास्ते नरा भुवि
॥१३॥क्षेत्रस्य च गुणान्वक्तुं देवदानवमानवैः ॥
न शक्यते प्रयत्नाच्च स्वयं यत्र स्थितो ह्यहम्
॥१४॥यत्किंचिदशुभं कर्म कृतं मानुषकर्मणा ॥
महाकालवनं प्राप्य तत्सर्वं भस्मसाद्भवेत्
॥१५॥न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे ॥
या गतिर्विहिता पुंसां महाकालवने सदा
॥१६॥तिर्यग्योनिगता गत्वा महाकालवने स्थिताः ॥
तत्रैव निधनं प्राप्तास्ते यांति परमां गतिम्
॥१७॥मेरुमंदरमात्रोपि राशिः पापस्य कर्मणः ॥
महाकालवनं प्राप्य सर्वोपि व्रजति क्षयम्
॥१८॥श्मशानमिति चाख्यातं महाकालवनं प्रिये ॥
तत्र ब्रह्मादयो देवा नारायणपुरोगमाः
॥१९॥योगिनश्च तथा सांख्याः सिद्धाश्च सनकादयः ॥
उपासते च मां भक्त्या मद्भक्त्या मत्परायणाः
॥२०॥या गतिर्योगतपसां या गतिर्यज्ञयाजिनाम् ॥
महाकालवने क्षेत्रे सा गतिर्विहिता मया
॥२१॥संहरामि च तत्रस्थस्त्रैलोक्यं सचराचरम् ॥
अतो देवि समाख्यातं महाकालवनं शुभम्
॥२२॥एवं बहुविधाञ्छुत्वा गुणान्बहुविधांस्तथा ॥
देवि त्वं विस्मिता जाता गमनाय मनो दधे
॥२३॥क्षेत्रस्यालोकने चित्तं जातमुत्कंठितं तव ॥
त्वया सार्द्धं समा गत्य महाकालवने शुभे
॥२४॥पश्य देवि विचित्राख्यं यन्मया कथितं तव ॥
अमरेशपुरस्पर्द्धि वर्द्धितानंदसुंदरम् ॥
वर्णितं यन्मया देवि भुक्ति मुक्तिकरं परम्
॥२५॥त्वया प्रोक्तं विशालाक्षि दृष्ट्वा क्षेत्रमनुत्तमम् ॥
अस्य स्थानस्य रक्षार्थं भक्तं गणचतुष्टयम् ॥
नियुज्यतां महादेव संतोषाय मम प्रभो
॥२६॥द्वाराणि तत्र चत्वारि क्रियतां परमेश्वर ॥
चत्वारः कलशाश्चैव हैमाः कार्या दृढाः शुभाः
॥२७॥पूर्वादिक्रमयोगेन चतुर्वर्गो नियोज्यताम् ॥
धर्मश्चार्थश्च कामश्च मोक्षश्चैव महेश्वर
॥२८॥त्वदीयं वचनं श्रुत्वा मया देवि प्रयत्नतः ॥
अस्य क्षेत्रस्य रक्षार्थं स्मृतं गणचतुष्ट यम्
॥२९॥चत्वार ईश्वरास्तेऽपि स्थापितास्तदनंतरम् ॥
पिंगलेशो धनाध्यक्षस्तथा कायावरोहणः
॥३०॥बिल्वेश्वरो गणश्रेष्ठो दुर्दर्शो गण नायकः ॥
एते मया नियुक्ता वै समर्थाः क्षेत्ररक्षणे
॥३१॥पूर्वादिक्रमयोगेन त्वत्प्रियार्थं वरानने ॥
नियुक्तास्त्वन्मतेनैव पूर्वस्यां दिशि पिंगलः
॥३२॥दक्षिणस्यां दिशि तथा प्रिये कायावरोहणः ॥
बिल्वेश्वरः प्रतीच्यां तु दुर्द्दर्शश्चोत्तरे तथा
॥३३॥मानवा ये म्रियंतेऽत्र क्षेत्रमध्ये गणो त्तमाः ॥
तेषां रक्षा परा कार्या भवद्भिर्मम शासनात्
॥३४॥कथां शृणु प्रयत्नेन पिंगलेश्वरसंभवाम् ॥
यस्याः श्रवणमात्रेण कृतकृत्यो नरो भवेत्
॥३५॥पिंगला कन्यका देवि कान्यकुब्जे बभूव ह ॥
सुशीला च सुवेषा च सौंदर्येणातिनिर्मिता
॥३६॥पिता तस्या महाप्राज्ञः सर्वशास्त्रार्थतत्त्व वित् ॥
ज्ञानध्यानरतश्चैव स्वाध्यायपरिनिष्ठितः
॥३७॥पिंगलोनाम विप्रेंद्रो भार्या तस्य पतिव्रता ॥
पिंगाक्षी विश्रुता लोके सा च पंचत्वमा गता
॥३८॥ततस्तेन स दुःखेन गृहस्थाश्रमनिःस्पृहः ॥
तपोवनं जगामाथ गृहीत्वा तनयां स्वकाम्
॥३९॥ऋषिभिः सेवितं पुण्यं शाकमूल फलाशनैः ॥
स तत्र मुनिभिः सार्द्धं ध्यानयोगपरायणः
॥४०॥निवासं कृतवान्देवि पिंगलायाश्च रक्षणम् ॥
पालयामास धर्मात्मा पुत्रिकां हृदयोपमाम्
॥४१॥तामेव सततं साध्वी मन्यमानो महातपाः ॥
न पाणिं ग्राहयामास मातृहीनेति चिंतयन्
॥४२॥विरक्तोऽपि महाभाग संसारा त्सर्वधर्म्मवित् ॥
पुत्रिकां प्रेक्षयन्सम्यक्संन्यासं नाकरोद्वशी
॥४३॥अथ संरक्षयन्बालां मातृहीनां तपस्विनीम् ॥
संयुक्तः कालधर्मेण स विप्रः स्वर्जगाम ह
॥४४॥ततः सा र्पिगला दीना हीना पित्रा सुदुःखिता ॥
विललापातुरा देवि पतिता शोकसागरे
॥४५॥पिंगलोवाच
अद्य मे च पिता दैवात्कालधर्ममुपेयिवान् ॥
मां त्यक्त्वा गतवानेको दयालुर्निःस्पृहो यथा
॥४६॥स समः सर्वभूतेषु ममात्यंतं हिते रतः ॥
मामेकां संपरित्यज्य परलोकमितो गतः
॥४७॥साऽहं परमदुःखार्ता पितृशोकेन विह्वला ॥
शरीरं धारयामीदं कृपणं व्यर्थजीवितम्
॥४८॥ब्रह्मज्ञोपि हि तातो मे शांतो दांतो जितेंद्रियः ॥
मामेव पालयामास मातृहीनेति चिंतयन्
॥४९॥येन संरक्षिता बाल्ये येनास्मि परिवर्धिता ॥
तेन पित्रा वियुक्ताहं न जीविष्ये कदाचन
॥५०॥नद्यां वा निपतिष्यामि समिद्धे वा हुताशने ॥
पर्वताद्वा पतिष्यामि पितृहीना निराश्रया
॥५१॥इति शोकातुरा बाला विलपंती पुनःपुनः ॥
बोध्यमाना महाभागैः सदारैर्ऋषिसत्तमैः
॥५२॥कन्यकाभी रुदंतीभिर्वयस्याभिः समंततः ॥
आलिंग्यालिंग्य बहुशः पीड्यमाना सुदुःखिता ॥
आगत्य करुणाविष्टो धर्मः परहिते रतः
॥५३॥स्थविरो ब्राह्मणो भूत्वा प्रोवाचेदं वचस्तदा ॥
अलं बाले विशालाक्षि रोदनैरतिदारुणैः ॥
न भूयः प्राप्यते तातस्तस्मान्नार्हसि शोचितुम्
॥५४॥अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ॥
प्रियैः सह च संवासस्तन्न शोचन्ति पंडिताः
॥५५॥त्वया वै तत्कृतं कर्म पूर्वजन्मनि शोभने ॥
येन पित्रा वियोगः स्यादरण्ये मुनिसेविते
॥५६॥त्वां विहाय गतः क्वापि पश्य बाले विधेर्बलम् ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्
॥५७॥एवमीहा समासक्तं मृत्युः प्रकुरुते वशे ॥
तस्माद्दुःखं समुत्सृज्य श्रोतुमर्हसि शोभने
॥५८॥पितृभ्यां च वियोगश्च येनाभूत्तव कर्मणा ॥
पुरा त्वं सुन्दरी नाम वेश्यारूपेण सुन्दरी
॥५९॥नृत्यगेयादि निपुणा वीणावेणुविचक्षणा ॥
आदिश्च पण्यनारीणां भूषणाच्छादनादिभिः
॥६०॥तां दृष्ट्वा रूपसंपन्नां सुवेषां सुविभूषिताम् ॥
ब्राह्मणो गुणवान्क श्चिद्बभूव मदनातुरः
॥६१॥तं विदित्वा तथाभूतं ब्राह्मणं मदनातुरम् ॥
समाश्चतस्रस्तेन त्वं रमिता कामिना ततः
॥६२॥सोऽथ पापरतिर्मूढो ब्राह्मणो विषयात्मकः ॥
हतः शूद्रेण केनापि कामिना तव वेश्मनि
॥६३॥विहाय भार्यामप्रौढां शुभां द्वादशवार्षिकीम् ॥
प्रयातो नरकं घोरं शूद्रासंपर्कदूषितः
॥६४॥ततस्तस्य पिता विद्वान्मातातीव च दुःखिता ॥
आर्त्ता पुत्रवियोगेन शापो दत्तो भयावहः
॥६५॥मातोवाच
औषधादि प्रयुक्तं च वशीकर्तुं ममात्मजम् ॥
यदस्माकं वियोगाय वंचितो दुष्टचारिणि
॥६६॥यस्माच्च मम पुत्रेण सा वियोगमकारयत् ॥
तेन जन्मांतरे दीना पतिहीना भवत्वसौ
॥६७॥पितोवाच
बाल्ये वयसि वर्त्तंती मातृहीना सुदुःखिता ॥
बहिष्कृता विवाहेन पितृहीना भविष्यसि
॥६८॥धर्म्म उवाच
तस्मात्पूर्वकृतेनैव कर्मणा वरवर्णिनि ॥
इदं दुःखमनुप्राप्ता कन्यका भवती सती
॥६९॥पिंगलोवाच
त्वया जन्मांतरे वृत्तं मम प्रोक्तं द्विजोत्तम ॥
तस्माद्ब्रूहि भवन्प्रश्नं पृच्छंत्या निश्चयं स्वकम्
॥७०॥इत्थं सुघोरपापाहं पापाचारा तथाऽधमा ॥
कथं तु ब्राह्मणेनाहमुत्पन्ना ब्रह्मवादिना
॥७१॥दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ॥
दशध्वजसमा वेश्या दशवेश्यासमो नृपः
॥७२॥एवं वदंति धर्मज्ञा ब्राह्मणाः संशितव्रताः ॥
तस्माद्द्विजोत्तमादस्मात्कथं जन्माभवन्मम
॥७३॥ब्राह्मण उवाच
पापाचारपरापि त्वं ब्राह्मणानां कुले शुभे ॥
उत्पन्ना तत्र वक्ष्यामि कारणं शृणु पिंगले
॥७४॥ब्राह्मणो विषयासक्तः कश्चिद्बद्धो नृपाज्ञया ॥
चौर्यं कर्म कृतं तेन वेश्यालुब्धेन सुन्दरि
॥७५॥मुच्यतां च त्वयाप्युक्तं न चौरो नैव पातकम् ॥
यद्यनेन कृतं चौर्यं तन्मयैव कृतं भवेत्
॥७६॥ददामि वित्तमधिकं मुच्यतां द्विजसत्तमः ॥
इत्युक्त्वा गृहमानीय तेनैव सहिता पुनः
॥७७॥गृहं च कल्पितं शुभ्रं पुष्पधृपादिवा सितम् ॥
रमितश्च त्वया विप्रो यथासुखमनुत्तमम्
॥७८॥तस्य पुण्यस्य माहात्म्याद्गता स्वर्गमनुत्तमम् ॥
समुत्पन्ना कुले पुत्री ब्राह्मणस्य विशेषतः
॥७९॥शापाच्चैव वियोगं त्वं प्राप्ता पुत्र्यधुना परम्
॥८०॥पिंगलोवाच
पूर्वजन्मनि वेश्याहं जाता दुष्कृतकारिणी ॥
परद्रव्यपरा दुष्टा शौचाचारविवर्जिता ॥
इदानीं दुःखिता जाता पितृमातृवियोगतः
॥८१॥पाणिग्रहणधर्मेण वर्जिता शापतः प्रभो ॥
प्रसादं कुरु मे विप्र को भवान्कथयस्व मे
॥८२॥कथं जन्म न मे भूयात्कथं मुक्तिर्भवेन्मम ॥
भवबन्धविनिर्मुक्ता कथं यास्यामि सद्गतिम्
॥८३॥विप्र उवाच
धर्मोहं द्विजरूपेण त्वां जिज्ञासुरिहागतः ॥
ममोपदेशात्तन्वंगि लिंगस्यैकस्य दर्शनात् ॥
क्षेत्रस्य च प्रसादात्त्वं परां मुक्तिमवाप्स्यसि
॥८४॥पिंगलोवाच
कस्मिन्क्षेत्रे परा मुक्तिः कस्य लिंगस्य दर्शनात् ॥
लभ्यते सहसा धर्म एतदिच्छामि वेदितुम्
॥८५॥धर्म उवाच
अस्ति गुप्ततमं क्षेत्रं महाकालवनं शुभम् ॥
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वदा
॥८६॥तस्मिन्क्षेत्रवरे पुण्ये स्थाने योजनविस्तृते ॥
लिंगं मोक्षप्रदं पुत्रि पूर्वस्यां दिशि संस्थितम् ॥
तस्य दर्शनमात्रेण मुक्तिमाप्स्यसि पिंगले
॥८७॥तस्य तद्वचनं श्रुत्वा धर्मस्य च यशस्विनि ॥
जगाम पिंगला तूर्णं यत्र तल्लिंगमुत्तमम् ॥
ददर्श परया भक्त्या पस्पर्श च पुनःपुनः
॥८८॥दर्शनात्तस्य लिंगस्य तस्मिल्लिंगे लयं गता ॥
अत्र चावसरे देवाः प्रोचुस्तत्रैव संस्थिताः
॥८९॥अन्यजन्मनि पापिष्ठा मुक्ता त्वं पिंगलेक्षणा
॥९०॥अतो लोकेषु विख्यातः पिंगलेश्वरसंज्ञकः ॥
भविष्यति न संदेहो महापातकनाशनः
॥९१॥दिशि पश्यंति ये गत्वा पूर्वस्यां पिंगलेश्वरम् ॥
तेषां शतक्रतुस्तुष्टः पूजां सम्यग्विधास्यति
॥९२॥देवा वश्या भविष्यंति स्वर्गस्तेषां न संशयः ॥
भविष्यति च वशगा नगरी चामरावती
॥९३॥धर्मो धनेन सहितः कुले तेषां न नश्यति ॥
लोको धर्मेण चरतां वशगः संभ विष्यति ॥
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः
॥९४॥अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम् ॥
तत्सर्वं भविता सम्य क्पिंगलेश्वरदर्शनात्
॥९५॥यानि लिंगानि क्षेत्रेऽस्मिन्गोप्यानि प्रकटानि च ॥
पूजितानि भवंतीह पिंगलेश्वरदर्शनात्
॥९६॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
पिंगलेश्वरदेवस्य शृणु कायावरोहणम्
॥९७॥इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पिंगलेश्वरमाहात्म्यवर्णनंनामैकाशीतितमोऽध्यायः ॥ ८१ ॥