मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ४६

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 46

वीरेश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

षट्चत्वारिंशकं देवि वीरेश्वरमथो शृणु ॥

यस्य दर्शनमात्रेण कुलवृद्धिर्भवेद्ध्रुवम्

॥१॥

निशामय महा वि वीरेशाविर्भवं परम् ॥

यच्छ्रुत्वा पितरः पुण्यं प्राप्नुयुर्विपुलं शिवे

॥२॥

आसीदमित्रजिन्नाम राजा परपुरंजयः ॥

धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः

॥३॥

यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥

सदैवावभृथस्नातः परिक्लिन्नशिरोरुहः

॥४॥

विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ॥

विद्याविशारदश्चाथ गुणवान्गुणिवत्सलः

॥५॥

कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥

सत्यवाञ्छौचनिलयः सत्यवाग्विजितेंद्रियः

॥६॥

रणांगणे कृतांतस्य संख्यावांश्च सदोजिरे ॥

कामिनीकेलिकालज्ञो युवापि स्थविरप्रियः

॥७॥

धर्मार्थ धनकोशश्च समृद्धबलवाहनः ॥

सुभगश्च सुरूपश्च सुमेधाः सुप्रजाप्रियः

॥८॥

स्थैर्यधैर्यसमापन्नो देशकालविचक्षणः ॥

मान्यानां मानदो नित्यं सर्वदूषणवर्जितः

॥९॥

वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय च ॥

चकार राज्यं निर्द्वंद्वं धिग्धिगीतिविवर्जितम

॥१०॥

अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥

अभुनक्प्रवरान्भोगान्समंताद्विष्णुसंस्कृतान्

॥११॥

हरेराराधनान्युच्चैः प्रतिसौधं पदेपदे ॥

तस्य राज्ये समभवन्महाभागनिधेः शिवे

॥१२॥

गोवृन्दगोपगोपालगोपीजनमनोहर ॥

गदापाणे गुणातीत गुणाश्च गरुडध्वज

॥१३॥

केशिहन्कैटभाराते कंसारे कमलापते

॥१४॥

कृष्ण केशव कंजाक्ष कीनाशभयनाशन ॥

पुरुषोत्तम पापारे पुण्डरीकविलोचन

॥१५॥

पीतकौशेयवसन पद्मनाभ परात्पर ॥

जनार्द्दनजगन्नाथ जाह्नवीजलजन्मभूः

॥१६॥

जन्मिनां जन्महरण जंजपूकौघनाशन ॥

श्रीवत्सवक्षः श्रीकंठ श्रीकर श्रेयसांनिधे

॥१७॥

श्रीरंग शार्ङ्गकोदंड शौरे शीतांशुलोचन ॥

दैत्यारे दानवाराते दामोदर दुरंतक

॥१८॥

देवकीहृदयानंद दंदशूकेश्वरेशय ॥

विष्णो वैकुण्ठनिलय बाणारे विष्ट रश्रवः

॥१९॥

विष्वक्सेन विभो वीर वनमालिन्बलिप्रिय ॥

त्रिविक्रम त्रिलोकेश चक्रपाणे चतुर्भुज

॥२०॥

इत्यादीनि पवित्राणि नामानि प्रति मंदिरे ॥

स्त्रीवृद्धबालगोपालवदनोदीरितानि तु

॥२१॥

श्रूयंते यत्र कुत्रापि रम्याणि मधुविद्विषः ॥

सुरम्यकाननान्येव विलोक्यंते गृहेगृहे

॥२२॥

विचित्राणि चरित्राणि गीयंते च गृहेगृहे ॥

सौधभित्तिषु दृश्यंते चित्राणि कृत्रिमाणि च

॥२३॥

ऋते हरिकथायास्तु नान्या वार्त्ता निशम्यते ॥

हरिणा नैव वध्यंते हरिणा मांसधारिणः

॥२४॥

तस्य राज्ञो भयाद्व्याधैररण्ये सुखचारिणः ॥

न मत्स्या नैव च बका वराहाश्च न केनचित्

॥२५॥

हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनाऽपि व ॥

अपुत्रा न नरास्तस्य राष्ट्रेऽमित्रजितः क्वचित्

॥२६॥

स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् ॥

पशवोऽपि तृणाहारं परित्यज्य हरेर्दिने ॥

उपोषणपरा जाता अन्येषां का कथा नृणाम्

॥२७॥

महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥

अस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे

॥२८॥

यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ॥

स एव दण्ड्यो भुंक्ते यो राज्ञोऽमित्रजितः क्षितौ

॥२९॥

अन्त्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ॥

संप्राप्य वैष्णवीं दीक्षां दीक्षिता इति संस्थिताः

॥३०॥

शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ॥

वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः

॥३१॥

विना मुकुंदगोविंद परमानंदमच्युतम् ॥

नान्यो जप्येत नम्येत सभाज्येत जनः क्वचित् ॥

कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः

॥३२॥

एवं तस्मिन्महीपाले राज्ये सम्यक्प्रशासति ॥

एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ

॥३३॥

राज्ञा समर्चितः सोऽथ मधुपर्कविधानतः ॥

नारदो वर्णयामास तममित्रजितं नृपम्

॥३४॥

श्रीनारद उवाच

धन्योऽसि कृतकृत्योऽसि मान्योऽप्यसि दिवौकसाम् ॥

सर्वभूतेषु गोविंदं परिपश्यन्विशांपते

॥३५॥

यो वेदपुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥

योंऽतरात्मास्य जगतः कर्ता हर्ताविता विभुः

॥३६॥

तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥

दर्शनं प्राप्य शुभदं शुचित्वमगमं परम्

॥३७॥

एष एव हि सारोऽत्र संसारे क्षणभंगुरे ॥

कमलाकांतपादाब्जभक्तिभावोऽखिलप्रदः

॥३८॥

परित्यज्य हि यः सर्वं विष्णुमेकं सदा भजेत् ॥

सुमेधसं भजंते तं पदार्थाः सर्व एव हि

॥३९॥

हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥

स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले

॥४०॥

यौवनं धनमायुष्यं जलं पद्मदले यथा ॥

अतीव चंचलं ज्ञात्वाऽच्युतमेव सदाश्रयेत्

॥४१॥

वाचि चेतसि कर्णेऽथ यस्य देवो जनार्दनः ॥

स एव सर्वदा वेद्यो नररूपी जनार्द्दनः ॥

निर्व्याजप्रणिधानेन शीलयित्वा श्रियःपतिम्

॥४२॥

पुरुषोत्तमतां को न प्राप्तस्त्वमिव भूतले ॥

अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ॥

उपकर्तुमना ब्रूयां तन्निशामय भूपते

॥४३॥

मालाविद्याधरसुता नाम्ना मलयगंधिनी ॥

क्रीडंती पितुराक्रोडे हृता कंकालकेतुना

॥४४॥

कपालकेतुपुत्रेण दानवेन बलीयसा ॥

आगामिन्यां तृतीयायां तस्याः पाणिग्रहः किल

॥४५॥

पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ॥

हाटकेशात्समागच्छंस्तयाऽहं साश्रुनेत्रया

॥४६॥

दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निशामय ॥

ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः

॥४७॥

बालक्रीडनकासक्तां मां जह्रे त्रस्तमान साम् ॥

कंकालकेतुर्दुर्वृत्तस्तस्य नास्ति च पातकः

॥४८॥

स स्वत्रिशूलघातेन म्रियते नान्यथा रणे ॥

जगत्पर्याकुलीकृत्य निद्रात्यथ विनिर्भयः

॥४९॥

यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥

मद्दत्तेन त्रिशूलेन नयेद्भद्रं च वै कृतम्

॥५०॥

यद्यत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्ट दानवात् ॥

ममापि हि वरो दत्तो भगवत्योमया पुरा ॥

विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति

॥५१॥

आतृतीयातिथि यथा तद्वाक्यं तथ्यतां व्रजेत् ॥

तथा निमित्तमात्रं त्वं भव यत्नं समाचर

॥५२॥

इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥

युवानं चापि धीमन्तं त्वामनुप्राप्तवानहम्

॥५३॥

तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम् ॥

आनयाशु महाबाहो शुभां मलयगंधिनीम्

॥५४॥

सा तु विद्याधरी बाला विलोक्य त्वां नरेश्वर ॥

अवश्यमेव तच्छूलं दास्यतीति विनिश्चितम् ॥

पार्वतीवचनाद्दुष्टं घातयिष्यस्यसंशयम्

॥५५॥

इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥

अनल्पोत्कलिको जातो विद्याधरसुतां प्रति ॥

उपायं चापि पप्रच्छ गंतुं वै चंपकावतीम्

॥५६॥

नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ॥

तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप

॥५७॥

भवान्द्रक्ष्यति पोतस्थकल्पवृक्षरथास्थिताम् ॥

तत्र दिव्यांगनां कांचिद्दिव्यपर्यंकसुस्थिताम् ॥

वीणामादाय गायंतीं गाथामत्यंतसुस्वरम्

॥५८॥

यत्कर्म विहितं येन शुभं वाप्यथवाऽशुभम् ॥

स एव भुंक्ते तत्तथ्यं विधिस्तत्र नियंत्रितः

॥५९॥

गाथामिमां तु संगीय सरथा समहीरुहा ॥

सपर्यंका क्षणादेव मध्येसिंधुं प्रवेक्ष्यति

॥६०॥

भवानप्यविशंकं च ततः पोतान्महार्णवे ॥

तमनुव्रजतु क्षिप्रं यज्ञवाराहसा त्मवान्

॥६१॥

ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ॥

महामनोहरा राजन्सनाथां बालया तया

॥६२॥

इत्युक्त्वांतर्हितो देवि स चतुर्मु खनंदनः ॥

राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च

॥६३॥

विवेशांतः समुद्रं च नगरीमाससाद ताम् ॥

सापि विद्याधरी बाला नेत्रयोः प्राघु णीकृता

॥६४॥

तेन राज्ञा त्रिजगतीसौंदर्यश्रीरिवैकिका ॥

पाताले देवतेयं वा मम नेत्रोत्सवाय किम्

॥६५॥

निरमायि प्रमोद्देशात्स्रष्टृसृष्टिर्वि लक्षणा ॥

कुहूराहुभयद्वेषात्कांतिश्चांद्रमसी किमु

॥६६॥

योषिद्रूपं समाश्रित्य तिष्ठत्यत्राकुतोभया ॥

इत्थं क्षणं च निर्वर्ण्य स राजाऽगच्छदंति कम्

॥६७॥

सा विलोक्याथ तं बालं नितरां मधुराकृतिम् ॥

विशालोरःस्थलतलप्रलंयतुलसीस्रजम्

॥६८॥

शंखचक्रांकसुभगभुजद्वयविराजि तम् ॥

हरिनामाक्षरसुधासुधौतरदनावलिम्

॥६९॥

भवानीभक्तिबीजोत्थभूरुहं पुरुषाकृतिम् ॥

अनेनात्र कृतं कस्य भवनं मधुराकृति

॥७०॥

इति पर्याकुलीकृत्य चक्षुषी च मुहुर्मुहुः ॥

कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः

॥७१॥

तावद्गुप्तं समातिष्ठ शस्त्रागारेऽत्र गह्वरे ॥

न मे कन्याव्रतं भग्नं सामर्थ्याच्चण्डिकावरात्

॥७२॥

आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ॥

स चिकीर्षति दुष्टात्मा गतायुर्मम शापतः

॥७३॥

मा तद्भीतिं कुरु युवंस्त्वत्कार्यं भविताचिरात् ॥

विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत्

॥७४॥

स्थिरो वीरो महाबाहुर्दानवागमनेक्षणः

॥७५॥

अथ सायं समायातो दानवो भीषणाकृतिः ॥

त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम्

॥७६॥

आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ॥

विद्याधरीं जगादेति मदाघूर्णितलोचनः

॥७७॥

गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥

कन्यात्वं हि परश्वस्ते पाणिग्राहो भविष्यति

॥७८॥

दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ॥

आसुरीणां सुरीणां च दानवीनां मनोहरम्

॥७९॥

गन्धर्वीणां किंनरीणां सततं परिचारिकाः ॥

विद्याधरीणां नागीनां यक्षीणां च शतानि षट्

॥८०॥

राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥

एतास्ते परिचारिण्यो भविष्यंत्यमलाशये

॥८१॥

यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ॥

मत्परिग्रहतां प्राप्तौ तावतस्त्वं महेश्वरी

॥८२॥

दिव्यान्भोगान्मया सार्द्धं भोक्ष्यसे मत्परिग्र हात् ॥

कदा परश्वो भविता यस्मिन्वैवाहिको विधिः

॥८३॥

त्वदंगसंगसंस्पर्शसुखस्वादातिमेदुरः ॥

परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि

॥८४॥

मनोरथाश्चिरं यावद्ये मे हृदि समेधिताः ॥

तान्कृतार्थी करिष्यामि परश्वस्तव संगमात्

॥८५॥

जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलो चने ॥

त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम्

॥८६॥

आधायांके त्रिशूलं च सुष्वापेति प्रलप्य सः ॥

नरमांसस्य स्वादेन प्रमत्तो वीतसाध्वसः

॥८७॥

वरं स्मरंती सा गौर्या विद्याधरकुमारिका ॥

विज्ञाय तं प्रमत्तं च प्रसुप्तं चातिनिर्भयम् ॥

आहूय तं नरवरं वरं सर्वांगसुंदरम्

॥८८॥

विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ॥

शूलं तदंकादादाय ददौ तस्मै च सुंदरी

॥८९॥

तमादाय त्रिशूलं च स तदामित्रजिन्नृपः ॥

संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम्

॥९०॥

जगादोत्तिष्ठ रे दुष्ट कन्यादूषणलालस ॥

युध्यस्व च मया सार्द्धं न सुप्तं हन्म्यहं रिपुम्

॥९१॥

इति संश्रुत्य संप्राप्तः कस्य दृष्टोद्य चांतकः ॥

क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम्

॥९२॥

मम प्रचंडदोर्दंडकंडूकंडूयनक्षमः ॥

माल्यो नरोऽयं भविता किं त्रिशूलेन सुंदरि

॥९३॥

मा भैर्मे कौतुकं पश्य भक्षोयं मम सांप्रतम् ॥

कालेन मत्तो भीतेन स्वयमेवोपढौकितः

॥९४॥

इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दंडसूनुना ॥

हृदये निहतो राजा शिलातिकठिने द्रुतम्

॥९५॥

स चक्रिणा कृतत्राणः पीडां नाल्पीयसीमपि ॥

विवेद कठिनोरस्कः करस्तस्य प्रपीडितः

॥९६॥

अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥

आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ॥

उवाच च वचो धैर्यमवष्टभ्य महाबली

॥९७॥

दानव उवाच

ज्ञातं तत्त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥

ततस्त्वं छिद्रमासाद्य हंतुं मां दानवांतक

॥९८॥

एवंविधो हि मधुभिद्यदि त्वं बलवानसि ॥

विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया

॥९९॥

त्वया कपटरूपेण बलिना कैटभादयः ॥

न बलेन हताः संख्ये हता एव च्छलेन हि

॥१००॥

बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥

नृमृगत्वेन भवता हिरण्यकशिपुर्हतः

॥१॥

तथा जटिलरूपेण लंकेशो विनिपातितः ॥

गोपालवेषमालंब्य कंसाद्या घातितास्त्वया ॥

स्त्रीभूय चाहरस्त्वं हि विप्रतार्यासुरान्सुधाम्

॥२॥

यादोरूपेण भवता शंखाद्या निहता इह ॥

मायाविना त्वयाऽगण्याः सर्वमर्मज्ञ माधव

॥३॥

न त्वत्तोऽहं बिभेम्यद्य सद्यः पातः शरीरिणाम् ॥

वरं तव श्रये मृत्युं बलेनापि छलेन वा

॥४॥

न त्यक्ष्यसि त्रिशूलं त्वं न त्वां योत्स्याम्यहं रणे ॥

अवश्यमेव मर्त्तव्यं मया प्रातः शरीरिणा

॥५॥

इयं विद्याधरी कन्या न मया दूषिता सती ॥

साक्षाच्छ्रीरिव मंतव्या तवार्थं रक्षिता मया

॥६॥

इत्युक्त्वा वामदोर्दंडप्रहारेणापि निष्ठुरम् ॥

निजघान दनोः सूनुस्तं शिलोच्चय घातिना

॥७॥

नृपतिस्त्वथ संधार्य विषह्य रणमूर्द्धनि ॥

जघानाशु तदा क्रूरं त्रिशूलेनाथ वक्षसि

॥८॥

तत्प्रहारान्महाबाहुः पंचत्वमगम त्क्षणात् ॥

लक्ष्यीचकार तद्वक्त्रं त्रिशूलं तोलयन्करे

॥९॥

पश्यतोऽस्य महाबाहोः स च प्राणाञ्जहौ क्षणात् ॥

इत्थं कंकालकेतुं स निहत्य सुरकं पनम्

॥११०॥

विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहः ॥

नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम्

॥११॥

कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥

श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसा

॥१२॥

मलयगंधिन्युवाच

अत्युदारमते वीर निजप्राणैः पणीकृताम् ॥

किं मां पृच्छसि युवतीं कुलकन्यामदूषिताम्

॥१३॥

इति ब्रुवंत्यां कन्यायां पुनः स्वैरचरो मुनिः ॥

अतर्कितागमः प्राप्तो नारदो देवलोकतः

॥१४॥

ततस्तुष्टुवतुस्तौ तु तं दृष्ट्वा मुनिसत्तमम् ॥

कृतप्रणामौ मुनिना प्रतिज्ञाप्रापिताशिषौ

॥१५॥

पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥

जग्मतुर्नारदादिष्टवर्त्मना कृतमंगलौ

॥१६॥

तया मलयगंधिन्या वृतः सोऽमित्रजिन्नृपः ॥

पुरीं चोज्जयिनीं प्राप्य पौरैर्विहितमंगलाम्

॥१७॥

तद्वीक्षणादपि नरो नारकीं नैव जातुचित् ॥

गतिं प्राप्नोति मेधावी तां पुरीमविशन्नृपः

॥१६॥

यस्यां पुर्यां प्रवेशं न लभन्ते वास वादयः ॥

कैवल्यजयजैत्र्यां हि तां पुरीमविशन्नृपः

॥१९॥

सापि विद्याधर्यवंतीं समृद्धां वीक्ष्य दूरतः ॥

निनिंद स्वर्गलोकं च पातालनगरी मपि

॥१२०॥

प्राप्यामित्रजितं कांतं तथा हृष्टा न सा वधूः ॥

यथा दृष्ट्वाप्यहोऽवंतीं परमानंददायिनीम्

॥२१॥

सा कृतार्थामिवात्मानं मन्य माना मनस्विनी ॥

तेन पत्योज्जयिन्यां च परां निर्वृतिमाप सा

॥२२॥

सोऽप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ॥

धर्मप्रधानं संसेव्य कामं प्रापोत्तमं सुखम्

॥२३॥

सा पतिं विष्णुभजने रतं प्रोवाच भामिनी

॥२४॥

राज्ञ्युवाच

भूपाभीष्टतृतीयायां चरिष्यामि महा व्रतम् ॥

राजोवाच ॥

देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद

॥२५॥

इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥

इति कर्तव्यतां तस्य व्रतस्य सविधानकाम्

॥२६॥

राज्ञ्युवाच

पुरा देवर्षिणा चेदं व्रतं लक्ष्म्यै प्रतिश्रुतम् ॥

तया प्राप्तास्तु सकलाः कामाः स्वर्गापवर्गदाः

॥२७॥

मार्गशीर्षतृतीयायां शुक्लायां कलशोपरि ॥

ताम्रपात्रं निधायैव तंदुलैः परिपूरितम्

॥२८॥

अच्छिद्रं च नवीनं च रजनीरागरंजितम् ॥

वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम्

॥२९॥

तस्योपरि शुभं पद्मं रविरश्मिप्रकाशितम् ॥

तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ॥

विधिं संपूजयेद्भक्त्या रक्तमाल्यांबरादिभिः

॥१३०॥

पुष्पैः सुगंधैः कर्पूरकस्तूर्यादिभिरर्चयेत् ॥

रात्रौ जागरणं कार्यं विप्राणां परमोत्सवैः

॥३१॥

होमः कार्यो महाभक्त्या सहस्रपरिसंख्यया ॥

नवप्रसूतां कपिलां दद्याच्च सुपयस्विनीम्

॥३२॥

दद्यादाचार्यवर्याय सालंकारां सदक्षिणाम् ॥

उपोष्य दंपती भक्त्या नवांबरविभूषितौ

॥३३॥

प्रातः स्नात्वा चतुर्थ्यां च संपूज्याचार्यमादितः ॥

वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ॥

सोपस्करां च तां मृर्तिमाचार्याय प्रदापयेत्

॥३४॥

मंत्रः ॥

नमो विश्वविधानज्ञे विद्ये विविधकारिणि ॥

सुतं च शंकरं देहि तुष्टा ह्यस्माद्व्रतोत्तमात

॥३५॥

सहस्रं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ॥

भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः

॥३६॥

इत्थमेतद्व्रतं नाथ चिकीर्षामि त्वदाज्ञया ॥

कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये

॥३७॥

इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ॥

तदा व्रतं समाचीर्णं सांतर्वत्नी बभूव ह

॥३८॥

तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ॥

पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभ वम्

॥३९॥

जातमात्रो व्रजेत्स्वर्गं पुनरायाति चात्र वै ॥

भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ॥

विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात

॥१४०॥

एवंभूतः सुतो गौरि यथा स्यान्मे तथा कुरु ॥

मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया

॥४१॥

अथ कालेन तनयं मूलर्क्षे साऽप्यजीजनत् ॥

हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता

॥४२॥

देवि राजार्थिनी त्वं तु त्यज दुष्टर्क्षजं सुतम् ॥

सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता

॥४३॥

अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ॥

धात्रिकां तु समाहूय प्राहेदं सा नृपांगना

॥४४॥

पंचमुद्रे महापीठे विकटानाम मातृका ॥

तदग्रे स्थापयित्वामुं बालं धात्रि त्विदं वद

॥४५॥

गौरि दत्तः शिशुरसौ तवाग्रे विनिवेदितः ॥

राज्ञ्या पत्युः प्रियैषिण्या मंत्रिविज्ञप्तिनुन्नया

॥४६॥

सापि राज्ञ्युदितं श्रुत्वा बालं शिशुशशिप्रभम् ॥

विकटायाः पुरोभागे संस्थाप्य गृहमागता

॥४७॥

अथ सा विकटा देवी समाहूय च योगिनीः ॥

उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः

॥४८॥

तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ॥

योगिन्यो विकटावाक्यात्खेचर्यस्तत्क्षणेन तम्

॥४९॥

निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ॥

प्रणम्य योगिनीवृन्दं तं शिशुं सूर्यवर्चसम्

॥१५०॥

पुरो निधाय मातॄणां प्रोचुश्च विकटोदितम् ॥

ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ॥

कौमारी चापि माहेन्द्री चामुण्डा चैव चंडिका

॥५१॥

दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ॥

पप्रच्छुर्युगपद्वाक्यं कस्ते बाल प्रमुख्यकः

॥५२॥

मातृभि श्चेति पृष्टस्तु यदा किंचिन्न वक्ति सः ॥

तदा च योगिनीचक्रं प्राह मातृगणस्त्विति

॥५३॥

राज्ययोग्यो भवत्येष महालक्षणलक्षितः ॥

पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम्

॥५४॥

पञ्चमुद्रा महादेवी तिष्ठते यत्र कामदा ॥

यस्याः संसेवनान्नॄणां निर्वाणश्रीरदूरतः

॥५५॥

तत्पीठसे वनादस्य षोडशाब्दाकृतेः शिशोः ॥

सिद्धिर्भवित्री परमा रुद्रस्यानुग्रहात्परा

॥५६॥

एवं मातृगणात्सद्यो योगिनीभिः क्षणेन तु ॥

प्रापितो मातृवाक्येन पञ्चमुद्रांतिकं पुनः

॥५७॥

संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ॥

महाकालवने पुण्ये तताप विपुलं तपः

॥५८॥

तपसातीव तीव्रेण निश्चलेन्द्रियमानसः ॥

तस्य राजकुमारस्य प्रसन्नोऽभूदुमाधवः

॥५९॥

आविर्बभूव पुरतो लिंगरूपेण शंकरः ॥

उवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज

॥१६०॥

सर्वज्योतिर्मयं लिंगं पुरतो दृष्टवान्स्वयम् ॥

सप्तपातालमुद्भिद्योत्थितं बृहदनुग्रहात्

॥६१॥

प्रणम्य दंडवद्भूमौ परि तुष्टाव धूर्जटिम् ॥

सूक्तैर्जन्मांतराभ्यासात्सुहृष्टो रुद्रदैवतैः ॥

वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः

॥६२॥

देवदेव महादेव यदि देयो वरो मम ॥

तदत्र भवता स्थेयं भवतापहृता सदा

॥६३॥

अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ॥

विना मुद्रादिकरणं मंत्रेणापि विना विभो

॥६४॥

अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः ॥

सदैवानुग्रहस्तेषु कर्त्तव्यो वर एष मे

॥६५॥

इति तद्वरमाकर्ण्य लिंगरूपोऽवदत्प्रभुः ॥

एवमस्तु यदुक्तं ते वीर वैष्णवसूनुना ६६ ॥

वीर वीरेश्वरंनाम लिंगमेतत्त्वदाख्यया ॥

अवंत्यां संप्रदास्यामि भक्तानां चिंतितान्यहो

॥६७॥

अत्र दत्तं हुतं जप्तं स्तुतमर्चितमेव च ॥

तदक्षयं भवेदत्र भक्तानां नात्र संशयः

॥६८॥

त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम् ॥

भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि

॥६९॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

वीरेश्वरस्य देवस्य नूपुरेशमथो शृणु

॥१७०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये वीरेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशो ऽध्यायः ॥ ४६ ॥