मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५१

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 51

एकाधिकं विजानीहि पंचाशत्तममीश्वरम्

ईश्वर उवाच

एकाधिकं विजानीहि पंचाशत्तममीश्वरम् ॥

देवं शूलेश्वरं देवि सर्व व्याधिविनाशनम्

॥१॥

आद्ये कल्पे प्रवृत्ते च राज्यहेतोर्वरानने ॥

देवानां दानवानां च युद्धमासीत्सुदारुणम् ॥

दैत्यानामीश्वरे जंभे देवानां च शचीपतौ

॥२॥

ततो देवाः पराभूता दैत्या विजयिनोऽभवन् ॥

अंधको मंदरं प्राप्तो दूतं मे प्राहिणोत्तदा

॥३॥

स दूतो मामुवाचोच्चैः सगर्वो दुष्टमानसः ॥

अन्धकेनाहमादिष्टः शृणु शंकर मद्वचः

॥४॥

गौरीं मे देहि पत्न्यर्थं मंदरस्त्यज्यतामयम् ॥

एवं कृते कृतार्थस्त्वमन्यथा नास्ति ते गतिः

॥५॥

उक्तोऽहं तेन दूतेन त्वया सह महागिरौ ॥

स्मिताननः क्षणं भूत्वा मया प्रोक्तमिदं वचः

॥६॥

गच्छ दूत ममादेशादंधकं ब्रूहि सत्वरम् ॥

इहाभ्येत्याहवं कृत्वा जित्वेमां सुन्दरीं नय

॥७॥

इत्युक्तः प्रययौ दूतस्तेनाख्यातं वचो मम ॥

अन्धकोऽपि तदा दैत्यः समरार्थी तु मन्दरम् ॥

समायातः सहामात्यो बलेन चतुरंगिणा

॥८॥

मया सह ततस्तस्य घोरं युद्धमभूच्चिरम् ॥

अन्धकस्य रथो घोरश्छिन्नो भिन्नः समं ततः

॥९॥

ततः कुद्धोंऽधको देवि रथात्तस्मादवप्लुतः ॥

मद्रथं बलवान्गृह्य मया सह बलोत्कटः ॥

युयुधे स महादैत्यः शूलेन ताडितो मया

॥१०॥

मया धृतोन्तरिक्षे स शूलप्रोतो महासुरः ॥

शूलप्रोतोऽथ वै दुष्टस्तावत्स भ्रामितो मया

॥११॥

सुस्राव तस्य गात्रेभ्यः शोणितोघ स्ततो महान् ॥

बिन्दौबिन्दौ तु रक्तस्य तत्तुल्या दानवास्तथा

॥१२॥

संभूताः कोटिशो देवि तैरहं पुनरर्द्दितः ॥

किं कर्त्तव्यमिति ध्यायन्स्थि तोऽहं तत्र भामिनि

॥१३॥

मया चोत्पादिता दुर्गा रक्तदंता सुभीषणा ॥

अन्धकस्य तदा पीतं रक्तं वहुविधं तया

॥१४॥

तस्मिन्पीते ततो रक्ते नोत्तस्थुर्देवि चापरे ॥

पूर्वोत्थितास्तयैवाशु निहता दानवाधिपाः ॥

तेन शूलवरेणैव तत्क्षणान्निधनं गताः

॥१५॥

स मामुवाच हृष्टात्मा कृतां जलिपुटोंऽधकः ॥

त्वयि भक्तिः सदा मेस्तु दुर्लभं तव दर्शनम्

॥१६॥

स्वामिना निहतश्चाहं कोऽन्यो धन्यतरो हि मत् ॥

त्वच्छूलेन विनिर्भिन्नो ह्यन्तरिक्षे ततोऽप्यहम्

॥१७॥

संकल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम् ॥

सहस्रवक्त्रशिरसं त्वामहं शरणं व्रजे

॥१८॥

गिरींद्रतनयानाथं गिरींद्रशिखरालयम् ॥

महालयकृतावासं त्वामहं शरणं व्रजे

॥१९॥

एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि ॥

ततो मे करुणा जाता कृतोंधको गणस्तदा

॥२०॥

स च शूलवरो देवि मया प्रोक्तो मुदा तदा ॥

एहि शूल हतो दैत्यस्त्वया दुष्टोंधको मृधे

॥२१॥

परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम् ॥

न देवैर्न च गन्धर्वैर्नापि तत्परमर्षिभिः

॥२२॥

संप्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः ॥

मामुवाच ततः शूलः प्रणम्यानतकन्धरः

॥२३॥

यदि प्रसन्नो भगवन्करुणा मयि ते यदि ॥

कथयस्व परं स्थानं मनो मे यत्र शुद्ध्यति ॥

दुष्टसंपर्कसंजातमन्यत्पातकमात्मनः

॥२४॥

ततो मया समादिष्टः करुणाश्लिष्टचेतसा ॥

महाकालवनं रम्यमतिपुण्यफलप्रदम्

॥२५॥

तत्रास्मत्प्राप्तिदं लिंगं लोकानुग्रहकारकम् ॥

पृधुकेश्वरपूर्वेण तदाराधय यत्नतः

॥२६॥

मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः ॥

ददर्श तत्र तल्लिंगमनेकफलदायकम्

॥२७॥

लिंगेन च पुनर्दृष्टः शूलः शंकरवल्लभः ॥

संभूतोऽनेकवक्त्रस्तु हर्षाद्विस्मितमानसः

॥२८॥

स्नेहात्संश्लेषितोऽत्यर्थं पृष्टस्तु कुशलं पुनः ॥

कथितं तेन शूलेन दुष्टांधक वधं तदा

॥२९॥

प्रभुणा प्रेरितोऽत्यर्थं शुद्ध्यर्थं भवतोंतिके ॥

त्वद्दर्शनेन पूतोऽहं यास्यामि शिवसंनिधौ ॥

अद्यप्रभृति भूलोके मन्नाम्ना ख्या तिमेष्यसि

॥३०॥

ततो भविष्यत्यधिकं दर्शनात्ते वृणोम्यहम् ॥

किं तीर्थैर्विविधैः स्नातैः किं दानैर्विविधैः कृतैः

॥३१॥

ते प्राप्स्यंति फलं सर्वंं ये त्वां द्रक्ष्यंति भक्तितः

॥३२॥

यः करिष्यति ते पूजां भक्तियुक्तोऽपि मानवः ॥

अष्टम्यां वा चतुर्दश्यां दिने भौमस्य भक्तितः

॥३३॥

विमानवरमास्थाय कामगं रत्नभूषितम् ॥

उदितादित्यसंकाशं स मुदा विचरिष्यति

॥३४॥

त्वन्नाम ये ग्रहीष्यंति सर्वदा भयपीडिताः ॥

व्याधिभिः पीडिता नित्यं दुःखैर्वा क्लेशिता भृशम् ॥

न भविष्यति भीस्तेषां घोरसंसारसागरे

॥३५॥

ये त्वां द्रक्ष्यंति पुरुषा भावहीनाः प्रसंगतः ॥

न पतिष्यंति संसारे नरके चातिदारुणे

॥३६॥

इत्युक्तं तेन शूलेन लिंगमाश्लिष्य यत्नतः

॥३७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

शूलेश्वरस्य देवस्य अथोंकारेश्वरं शृणु

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शूलेश्वरमाहात्म्यवर्णनंनामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥