मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ११

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 11

लिंगमेकादशं विद्धि देवि सिद्धेश्वरं शुभम्

श्रीमहादेव उवाच

लिंगमेकादशं विद्धि देवि सिद्धेश्वरं शुभम् ॥

वीरभद्रसमीपे तु सर्वसिद्धिप्रदायकम्

॥१॥

देव दारुवने पूर्वं विप्रा योगसमन्विताः ॥

स्पर्द्धया सिद्धिलब्ध्यर्थं तपोऽकुर्वत संयताः

॥२॥

शाकाहारा निराहाराः पर्णाहारास्तथापरे ॥

दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे

॥३॥

केचिद्वीरासनरता धूम्रपानरताः परे ॥

पादैरूर्ध्वैरधोवक्त्रैः केचिदभ्रावकाशिकाः

॥४॥

कृच्छ्रचांद्रायणादीनि कुर्वन्त्यन्ये समाहिताः ॥

न चापि परमा प्राप्ता सिद्धिर्वर्षशतैरपि

॥५॥

दुःखार्त्ताश्चिंतयामासुः कथं सिद्धिर्भविष्यति ॥

तपसा दुष्करेणैव सिद्धिर्न वात्र लभ्यते

॥६॥

व्यर्था श्रुतिस्तथा जाता या गीता मुनिभिः पुरा ॥

तपसा लभ्यते सर्वं तपोमूलमिदं जगत्

॥७॥

अंजनं गुटिका चैव पादुकागमनं तथा ॥

खड्गसिद्धिर्बिले वासश्चिंतामणिरपेक्षितम्

॥८॥

एवं तेऽचिंतयसिद्धाः परमामर्षपूरिताः ॥

उत्सार्य तत्तपोधर्मं नास्तिक्यं भावमागताः

॥९॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

आश्वासयंती तान्सिद्धान्माता पुत्रमिवौरसम्

॥१०॥

माऽवमन्यध्वमार्या हि श्रुतिर्व्यर्था महीतले ॥

तपो न निंद्यं धर्मो वा श्रूयतामत्र कारणम्

॥११॥

भविता भवतां सिद्धिरत्र नैव तपोधनाः ॥

स्पर्द्धया सिद्धिकामैश्च तपस्तद्धि कृतं वृथा

॥१२॥

कामाच्च तपसो हानिरहंकाराच्च विस्मयः ॥

क्रोधाल्लोभात्तथा मोहाज्जायते नात्र संशयः

॥१३॥

स्पर्द्धया रहितो यस्तु कामक्रोधविवर्जितः ॥

करोति कर्म भावेन स तपःफलमश्नुते

॥१४॥

वासनावासितो यस्तु एकचित्तः समाहितः ॥

आस्तिकः श्रद्दधानश्च स तपःफलमश्नुते

॥१५॥

मातृवत्परदाराणि परद्रव्याणि लोष्टवत् ॥

यः पश्यति नरो नित्यं स तपः फलमश्नुते

॥१६॥

ईदृशे पुरुषे विप्रास्तपःसिद्धिश्च दृश्यते ॥

भवंतः स्पर्द्धया चैव कृतवंतश्च दुष्करम्

॥१७॥

तस्माद्वर्षसहस्रेण नैव सिद्धिर्भविष्यति ॥

यदि मद्वचनं कार्यं निर्विकल्पेन चेतसा

॥१८॥

महाकालवनं गत्वा यूयं सर्वे समाहिताः ॥

आराधयध्वं देवेशं सदा सिद्धिप्रदायकम्

॥१९॥

दर्शनात्तस्य देवस्य लभ्यते सिद्धिरुत्तमा ॥

सनकादयोऽपि ये देवमासाद्य योगतत्पराः ॥

पूजयित्वापि भावेन संसिद्धिं परमां गताः

॥२०॥

राज्ञा वसुमता पूर्वं खङ्गसिद्धिः सुदुर्लभा ॥

प्राप्ता दर्शनमात्रेण लिंगस्यास्य प्रभावतः

॥२१॥

पादुकागमनं लब्धं हैहयेन महात्मना ॥

कृतवीरात्मजेनैव वाहानां च सहस्रकम्

॥२२॥

अदृश्यकरणं चैव प्राप्तं चानूरुणा पुरा ॥

स्वर्णसिद्धिश्च सिद्धेन पादलेपो रसायनम् ॥

अंजनं च तथा लब्धं लिंगस्यास्य च दर्शनात्

॥२३॥

आकाशवचनं श्रुत्वा ते सिद्धा विस्मयान्विताः ॥

समायाता मुदा युक्ता महाकालवनोत्तमे

॥२४॥

सर्वसिद्धिप्रदं चैव ददृशुर्लिंगमुत्तमम् ॥

दर्शनात्तस्य लिंगस्य संसिद्धिं परमां गताः

॥२५॥

ततःप्रभृति विख्यातो देवैः सिद्धेश्वरः परः ॥

ये पश्यंति नरा देवि देवं सिद्धेश्वरं परम् ॥

न तेषां दुर्लभा सिद्धिर्भविष्यति महीतले

॥२६॥

सिद्धेश्वरं गमिष्यंति भावहीनाः प्रसंगतः ॥

संसिद्धास्ते भविष्यंति नियता नात्र संशयः

॥२७॥

महापातकसंयुक्तो यस्तु सिद्धेश्वरं स्मरेत् ॥

संसिद्धस्तु भवेन्नूनं ज्ञानैश्वर्यसमन्वितः

॥२८॥

नियमेन तु यः पश्येद्देवं सिद्धेश्वरं परम् ॥

षण्मासाज्जायते सिद्धिर्वांछिता या भवेद्धृदि

॥२९॥

अष्टम्यां च चतुर्द्दश्यां कृष्णपक्षे विशेषतः ॥

सिद्धेश्वरं तु यः पश्येत्स पश्येन्मम मंदिरम्

॥३०॥

अपुत्रो लभते पुत्रं निर्धनस्तु धनं लभेत् ॥

विद्यार्थी लभते विद्यां भार्यार्थी लभते स्त्रियम्

॥३१॥

संक्रांतौ सोमवारे च ग्रहणे चैव योऽर्चयेत् ॥

कुलानां शतमुद्धृत्य पैतृकं स्वाधिकं प्रिये ॥

मोदते मम लोके च यावदिंद्राश्चतुर्दश

॥३२॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

सिद्धेश्वरस्य देवस्य लोकपालेश्वरं शृणु

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥