मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५४

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 54

कंटेश्वरमाहात्म्यवर्णनम्

श्रीमहादेव उवाच

चतुःपंचाशतं विद्धि देवं कंटेश्वरं प्रिये ॥

यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत

॥१॥

आद्यकल्पे पुरा देवि राजाभूत्सत्यविक्रमः ॥

स शत्रुभिर्जितः संख्ये हृतकोशोऽतिदुःखितः

॥२॥

वनं जगाम गहनमेकाकी श्रमकर्शितः ॥

तत्राश्रमं ददर्शाथ वसिष्ठस्य महात्मनः

॥३॥

तेनर्षिणा वसिष्ठेन दृष्टमात्रः स भूपतिः ॥

पूजितो विष्टराद्येन राजार्हेण च सादरम्

॥४॥

ज्ञात्वा तपःप्रभावेन सूर्यवंशोद्भवं नृपम् ॥

पप्रच्छागमनं देवि कुशलं च पुनः पुनः

॥५॥

स नृपः कथयामास वसिष्ठाय सुदुःखितः ॥

राज्यं च सकलं ब्रह्मन्हृतं विद्वेषिभिर्मम

॥६॥

त्वामहं शरणं प्राप्तो दुःखैकायतनो यतः ॥

निष्कण्टकं कथं राज्यं भविष्यति पुनः प्रभो ॥

उपदेशप्रदानेन प्रसादं कर्तुमर्हसि

॥७॥

तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवानृषिः ॥

ध्यात्वा च कथयामास बहुकौतू हलान्वितः

॥८॥

महाकालवनं भूप व्रज त्वं कार्यसिद्धये ॥

दिव्या नदी वने तत्र विश्रुता भुवनत्रये

॥९॥

तस्यास्तीरे शुभं लिंगं पृथुकेश्वर दक्षिणे ॥

द्रक्ष्यसे नृपशार्दूल तपस्यंतं च तापसम् ॥

अस्थिचर्मावशेषं तु चीरवल्कलधारिणम्

॥१०॥

वचनात्तस्य विप्रस्य वसिष्ठस्य महात्मनः ॥

जगाम सहसा राजा महाकालवनं शुभम्

॥११॥

ददर्श तापसं तत्र चिरंजीविनमव्ययम् ॥

उपवासकृतक्षामं द्वादशादित्यवर्चसम्

॥१२॥

तापसेन नृपो दृष्टो मित्रोऽयं मम वल्लभः ॥

प्राप्तो राज्यपरिभ्रष्टो ज्ञात्वा वचनमब्रवीत्

॥१३॥

एह्येहि नृपशार्दूल दिष्ट्या प्राप्तोऽसि मेंऽतिके ॥

इत्युक्त्वा तापसेनैव हुंकारश्च कृतस्तदा

॥१४॥

तद्धुंकारात्तु पातालं भित्त्वा पंच च कन्यकाः ॥

निर्ययुः कांचनं पीठमेका तासां प्रगृह्य वै

॥१५॥

भृंगारं तु गृहीत्वान्या निःसृता जलसंभृतम् ॥

पादप्रक्षालनार्थाय तृतीया समुपस्थिता

॥१६॥

अन्ये द्वे व्यजने गृह्य पार्श्वाभ्यां च व्यवस्थिते ॥

ततो हुंकारमकरोत्पुनरेव महातपाः

॥१७॥

तेन हुंकारशब्देन देवलोकात्समागतम् ॥

दृष्ट्वा चाप्सरसां संघं नृत्यगीतमनो हरम्

॥१८॥

अनंतरं ददर्शाथ लिंगं ज्योतिष्करं परम् ॥

उत्पन्नं च जगद्यस्मिँल्लीयते सचराचरम्

॥१९॥

तद्दृष्ट्वा विस्मयाविष्टो बभूव नृपसत्तमः ॥

प्रणम्य शिरसा विप्रं किमिदं द्विजसत्तम

॥२०॥

एवं पृष्टो नृपेणाथ स विप्रो वाक्यमब्रवीत् ॥

सप्तजन्मानि राजेंद्र त्वयाहं परितोषितः

॥२१॥

अतस्ते दर्शिता माया तपसा दुष्करेण तु ॥

लिंगस्यास्य प्रभावेण पश्य मे तपसो बलम्

॥२२॥

हुंकारेण कृता पृथ्वी जलपूर्णा तु तत्क्षणात् ॥

हुंकाराच्च जलं ग्रस्तं मुखादग्निरजायत

॥२३॥

हुंकारात्पृथिवी सर्वा जाता वह्निमयी तदा ॥

संहृत्य तत्क्षणाद्वह्निं मुखाद्वायुर्विनिर्ययौ

॥२४॥

हुंकारेण कृतं सर्वं तत्क्षणादेव पार्वति ॥

न दिशः प्रदिशो वापि न नक्षत्रग्रहास्तदा

॥२५॥

ततो बभ्राम तन्नास्ति स नृपो विस्मयान्वितः ॥

चिंतयामास सहसा क्व लिंगं क्व च तापसः

॥२६॥

एवं चिंतयतस्तस्य ततः शब्दो महानभूत् ॥

तस्माच्छब्दाच्च संजातं पुरं प्राकारसंवृतम्

॥२७॥

सुहर्म्यकक्ष्यारचितं विशालं विशुद्धजांबूनदभूषितं च ॥

दिव्यैर्जनैः सेवितमात्मविद्भिर्ददर्श राजा सहसा पुरं तत्

॥२८॥

भूयोभवन्महाशब्दस्तस्मात्स्त्रीयुगलं वभौ ॥

सितवस्त्रधरा चैका कृष्णवस्त्रधरा सिता

॥२९॥

पुनः शब्दो बभूवाथ तस्मात्पुरुषसत्तमः ॥

द्विशिराः षण्मुखश्चैव पादैर्द्वादशभिर्युतः

॥३०॥

पुनः शब्दाच्च संजज्ञे पुरुषः सप्तधा गतः ॥

संहृतं हि पुनस्तच्च दर्शयित्वा द्विजेन तु ॥

प्रोक्तमित्थं विशालाक्षि जातकंटकितं नृपम्

॥३१॥

पश्य लोकमिमं मह्यं तपसा निर्मितं नृप ॥

त्वत्प्रियार्थमयं लोको दर्शितस्ते नृपोत्तम

॥३२॥

एवमुक्तस्तदा तेन तापसेन नराधिपः ॥

विस्मयापन्नहृदयः पप्रच्छ प्रयतः सुधीः

॥३३॥

भगवन्सितकृष्णे द्वे के स्त्रियौ द्विजस त्तम ॥

कोऽसौ द्वादशपाद्विप्र द्विशिराः षण्मुखः पुनः

॥३४॥

कश्चासौ पुरुषो ब्रह्मन्य एकः सप्तधाऽभवत् ॥

तस्य तद्वचनं श्रुत्वा कथयामास तापसः

॥३८॥

एते स्त्रियौ त्वया दृष्टे सितकृष्णे नृपोत्तम ॥

ते च रात्र्यहनी प्रोक्ते ब्रह्मणा निर्मिते पुरा

॥३६॥

शीर्षद्वयं च यद्दृष्टं तेऽयने द्वे प्रकीर्तिते ॥

मुखानि यानि दृष्टानि षट् च ते ह्यृतवः स्मृताः ॥

पादा द्वादश ये दृष्टा मासा द्वादश ते स्मृताः

॥३७॥

यः पुमान्सप्तधा जात एकीभूतो नरेश्वर ॥

स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः

॥३८८॥

एतत्संवत्सरं चक्रं त्वत्प्रियार्थं निदर्शितम् ॥

एवं विदित्वा राजेंद्र न शोकं कर्तुमर्हसि

॥३९॥

सर्वो विनश्वरो लोकः सदेवासुरमानुषः ॥

मया दृष्टो हि बहुशो लिंगस्यास्य प्रभावतः

॥४०॥

कुरु शत्रुविनाशाय लिंग स्यास्य च दर्शनम् ॥

राज्यं निष्कण्टकं राजन्भविप्यति न संशयः

॥४१॥

एवमुक्तस्तदा राजा दृष्टवाँल्लिंगमुत्तमम् ॥

दर्शनात्तस्य लिंगस्य कण्टका ये महीभृतः ॥

विद्वेषिणो मृतास्तेऽपि श्रुतास्तेन महीभृता

॥४२॥

गतस्तं विषयं राजा चक्रवर्ती बभूव ह ॥

लिंगस्यास्य प्रभावेन राज्यं कृत्वा महाधनैः

॥४३॥

यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ॥

तापसेन श्रुतं सर्वं दृष्टं ध्यानेन तेन वै

॥४४॥

लब्धं निष्कण्टकं राज्यं लिंगस्यास्य च दर्शनात् ॥

मम मित्रेण सहसा राज्यभ्रष्टेन तेन वै

॥४५॥

अतो नाम सुविख्यातं कण्टेश्वर इति क्षितौ ॥

भविष्यति न संदेहो दर्शनाद्राज्यदायकः

॥४६॥

अद्यप्रभृति पश्यन्ति देवं कण्टेश्वरं शिवम् ॥

तेषां च कण्टकाः सद्यो विनश्यन्ति न संशयः

॥४७॥

नैमिषेथ कुरुक्षेत्रे गंगाद्वारे च पुष्करे ॥

स्नानात्संसेवनाद्वापि यत्पुण्यं च भविष्यति ॥

तत्पुण्यं भविता सम्यक्छ्रीगणेश्वरदर्शनात्

॥४८॥

गृहिणो लिंगिनो वापि ये पश्यंति यतव्रताः ॥

देवं कण्टेश्वरं भक्त्या तेषां सिद्धिर्भविष्यति

॥४९॥

जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम् ॥

तत्सर्वं यास्यति क्षिप्रं श्रीकण्टेश्वरदर्शनात्

॥५०॥

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ॥

ध्यानमध्ययनं चैव सर्वं भवति चाक्षयम्

॥५१॥

एवं ब्रुवाणं तं विप्रं तापसं संशितव्रतम् ॥

लिंगेनोक्तं विशालाक्षि तुष्टेन वरपूर्वकम्

॥५२॥

जरारोगविनिर्मुक्तः सर्वशोकविवर्जितः ॥

भविष्यति गणाध्यक्षो वरदः सर्वपूजितः ॥

अवध्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः

॥५३॥

एवमुक्तोऽथ लिंगेन तापसो गणतां गतः ॥

गणैः परिवृतो देवि मम पार्श्वमुपागतः

॥५४॥

अन्धकेन पुरा युद्धे सिंहनादो यदा कृतः ॥

तदा देवि मदीयं तु जातं कण्टकितं वपुः

॥५५॥

उत्पन्नं च तदा लिंगमशेषारिविनाशनम् ॥

देवानां कण्टका ये च दग्धा लिंगाग्निना यतः ॥

अतः कंटेश्वरो देवो विख्यातो भुवनत्रये

॥५६॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

कंटेश्वरस्य देवस्य शृणु सिंहेश्वरं परम्

॥५७॥

इति श्रीस्कांदे महापुराण एकशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कंटेश्वरमाहात्म्यवर्णनंनाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥