मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 9

स्वर्गद्वारेश्वरमाहात्म्यवर्णनम्

श्रीरुद्र उवाच

स्वर्गद्वारेश्वरं लिंगं नवमं विद्धि पार्वति ॥

सर्वपापहरं देवि स्वर्गमोक्षफलप्रदम्

॥१॥

यदा देवि समायाताः कैलासे पर्वतोत्तमे ॥

अश्विन्याद्या भगिन्यस्तास्त्वां दृष्ट्वा विस्मयान्विताः

॥२॥

निमंत्रिता वयं यज्ञे सकांताः सपरिग्रहाः ॥

स्नेहेन देवि तातेन बहुमानपुरः सरम्

॥३॥

कच्चित्स्मृता विशालाक्षि किं वा तातस्य विस्मृतिः ॥

कारणं किं समुद्दिश्य तातेन न निमंत्रिता

॥४॥

तासां तद्वचनं श्रुत्वा अवमा नात्तदा त्वया ॥

प्राणा मुक्तास्तु योगेन पुरतस्तासु पार्वति

॥५॥

अथ ताः शोकसंतप्ता गता यत्र प्रजापतिः ॥

आचख्युः सकलं वृत्तं दक्षस्याग्रे यथा तथम्

॥६॥

तच्छुत्वा दारुणं वाक्यं दक्षो नोवाच किंचन

॥७॥

मया दृष्टा यदा देवि भूमौ पंचत्वमागता ॥

यज्ञप्रध्वंसनार्थाय तदा वै प्रेरिता गणाः

॥८॥

ते गत्वाथ गणा रौद्राः शतशोऽथ सहस्रशः ॥

विरूपा भीषणा रौद्रा नानाशस्त्रा महाबलाः ॥

मुमुचुः शरवर्षाणि कुर्वंतो भैरवान्रवान्

॥९॥

ततो देवगणाः सर्वे वसवः सह भास्करैः ॥

विश्वेदेवाश्च साध्याश्च धनुर्हस्ता महाबलाः ॥

युद्धाय च विनिष्क्रांता मुमुचुः सायकान्सितान् ॥

ते समेत्याथ युयुधुः प्रमथा विबुधैः सह ॥

मुमुचुः शरवर्षाणि वारिधारा यथा घनाः

॥११॥

तेषां मध्ये गणो नाम वीरभद्रो महाबलः ॥

स शक्रं ताडयामास शूलेन हृदये तथा

॥१२॥

स तु तेन प्रहारेण विसंज्ञो निषसाद ह ॥

अथ मुष्ट्या हतः कुम्भे नाग ऐरावतस्तथा

॥१३॥

स हतः सहसा तेन गजेंद्रो भेरवान्रवान् ॥

विनदन्भयमास्थाय यज्ञवाटमुपाद्रवत्

॥१४॥

एतस्मिन्नंतरे देवा कृतास्तेन पराङ्मुखाः ॥

ततस्ते शरणं जग्मुर्विष्णुं विश्वैकनायकम्

॥१५॥

ततः कोपसमाविष्टो विष्णुर्दृष्ट्वा दिवालयान् ॥

गणैर्विद्रावितान्सर्वान्मुमोचाशु सुदर्शनम्

॥१६॥

तदापतत्तु वेगेन चक्रं विष्णोः सुदर्शनम् ॥

प्रसार्य वक्त्रं सहसा ह्युदरस्थं चकार ह

॥१७॥

तस्मिंश्चक्रे तदा ग्रस्ते ह्यमोघे दैत्यसूदने ॥

क्रुद्धो नारायणो देवि वीरभद्रमुपाद्रवत्

॥१८॥

गृहीत्वा पादयोर्भूमौ निजघानातिदूरतः ॥

हन्यमानस्याथ भूमौ गदया च सुदर्शनम्

॥१९॥

रुधिरोद्गारसंयुक्तं वक्त्रात्तच्च विनिर्गतम् ॥

मत्तो लब्धवरो देवि वीरभद्रो गणोत्तमः ॥

न तु पंचत्वमापन्नो गदया ताडितोऽपि सः

॥२०॥

ततस्तु प्रमथाः सर्वे विष्णुवीर्यबलार्द्दिताः ॥

कृच्छ्रेण सहसा प्राप्ता यत्राहं देवि संस्थितः

॥२१॥

मां दृष्ट्वा शूलहस्तं तु विष्णुश्चांतरधीयत ॥

इंद्रोऽपि त्रिदशैः सार्द्धं पितृभिर्ब्राह्मणैः सह

॥२२॥

मत्तस्त्रासपरीतात्मा ततश्चादर्शनं गतः ॥

एवं विध्वंसिते यज्ञे नष्टो देवगणो यदा

॥२३॥

मया निरूपितो देवि स्वर्गद्वारे गणस्तदा ॥

प्रवेशो नैव दातव्यस्त्रिदशानां गणेश्वर

॥२४॥

द्वारावरोधः कर्त्तव्यो यत्नतः शासनान्मम ॥

यः कोपि दृश्यते देवः स हंतव्यो न संशयः

॥२५॥

उद्वसश्च ततो जातः स्वर्गो देवा विनिर्जिताः

॥२६॥

स्वर्गद्वारे निरुद्धे तु शक्राद्या भयविह्वलाः ॥

ब्रह्मलोकं गता देवा मंत्रयित्वा पुनःपुनः

॥२७॥

तस्याग्रे कथितं सर्वं स्वर्गद्वारावरोधनम् ॥

महेश्वरगणैर्व्याप्तं स्वर्गद्वारं पितामह

॥२८॥

प्रवेशो दुर्लभो जातः कृते द्वारावरोधने ॥

केनोपायेन यास्यामः स्वर्गलोकं तथाविधम् २९ ॥

नास्माकं जायते प्रीतिर्विना स्वर्गं पितामह

॥३०॥

इति तेषां वचः श्रुत्वा प्रोक्तं तु ब्रह्मणा तदा ॥

आराध्यः शंकरो देवो महादेवो जगत्पतिः

॥३१॥

स्तुत्यो वंद्यो नमस्कार्यः सृष्टि संहारकारकः ॥

दुर्लभस्तु सुराः स्वर्गो विना तस्य प्रसादतः ॥

३२ गोप्ता स्रष्टा समर्थश्च स चास्माकं परा गतिः ॥

स एवाराधनीयस्तु स च पूज्यतमो मतः

॥३३॥

तस्मात्सर्वप्रयत्नेन गम्यतां शरणं शिवः ॥

उपायं कथयिष्यामि श्रूयतां सावधानतः

॥३४॥

त्रिदशैः सहितः शक्र तूर्णं गच्छ ममाज्ञया ॥

महाकालवने रम्ये कपालेश्वरपूर्वतः

॥३५॥

स्वर्गद्वार परं लिंगं विद्यते तत्तु वासव ॥

लोकानामनुकंपार्थं महादेवेन निर्मितम् ॥

तमाराधयत क्षिप्रं स वः कामं प्रदास्यति

॥३६॥

ब्रह्मणो वचनं श्रुत्वा त्रिदशा मुदिता भृशम् ॥

समायाता महादेवि महाकालवनं तदा

॥३७॥

स्वर्गद्वारप्रदं पुण्यं ददृशुर्लिंगमुत्तमम् ॥

तस्य दर्शनमात्रेण स्वर्गद्वारमपावृतम्

॥३८॥

स्वर्गलोकं गताः सर्वे यथापूर्वं यशस्विनि ॥

निःशंकांस्त्रिदशान्दृष्ट्वा विज्ञप्तोहं गणैस्तदा

॥३९॥

मयाज्ञप्ताश्च ते सर्वे निवर्त्तध्वं गणोत्तमाः ॥

स्वयमेव प्रतिज्ञातं कथं मिथ्या भविष्यति

॥४०॥

स्वर्गद्वारप्रदो देवो दृष्टो देवैर्न संशयः ॥

महाकालवने रम्ये कथितो हि विरंचिना

॥४१॥

स्वर्गद्वारं गताः सद्यः शक्राद्यास्त्रिदशा गणाः ॥

अतः प्रभृति विख्यातः स्वर्गद्वारेश्वरः शिवः

॥४२॥

ख्यातिं यास्यति भूलोके स्वर्गलोकप्रदायकः

॥४३॥

ये पश्यंति नरा लोके स्वर्गद्वारेश्वरं शिवम् ॥

ते यांति स्वर्गलोकं हि स्वर्गद्वारेश्वरार्चनात्

॥४४॥

स्वर्गद्वारेश्वरं देवं ये पश्यंति प्रसंगतः ॥

न तेषां भयमस्तीति कल्प कोटिशतैरपि

॥४५॥

अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम् ॥

तत्पुण्यमधिकं देवि स्वर्गद्वारेश्वरार्चनात्

॥४६॥

जन्मांतरसहस्रेण यत्पापं पूर्व संचितम् ॥

यत्पापं विलयं यांति लिंगस्यास्य च कीर्तनात्

॥४७॥

अष्टम्यां वा चतुर्दश्यामथवा चंद्रवासरे ॥

ये पश्यंति नरा भक्त्या स्वर्गद्वारेश्वरं शिवम् ॥

ते देवि मे शरीरं तु प्रविष्टास्त्वपुनर्भवाः

॥४८॥

दशकोटिसहस्राणि तस्मिँल्लिंगे तु पूजिते ॥

पूजितानि भवं तीह लिंगान्यंतःस्थितानि तु

॥४९॥

स्पर्शनात्तस्य लिंगस्य कीर्त्तनाद्यजनात्तथा ॥

सुखेन स्वर्गमायांति यथा कामानवाप्नुयात्

॥५०॥

अकामावा सकामा वा ये पश्यंति दिने दिने ॥

तेऽपि पुण्या महाभागाः स्वर्गलोकं प्रयांति वै

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्वर्गद्वारेश्वरमाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥