मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय २५

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 25

मुक्तीश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

पंचविंशतिकं देवं विद्धि मुक्तीश्वरं प्रिये ॥

यस्य दर्शनमात्रेण मुक्तिर्भवति पार्वति

॥१॥

पुरा राथंतरे कल्पे बभूव द्विजसत्तमः ॥

मुक्तिर्नाम महाभागे संशितात्मा जितेंद्रियः

॥२॥

महाकालसमीपे तु मुक्तिलिंगमनुत्तमम् ॥

महाकालवने रम्ये तत्रास्ते योगत त्परः

॥३॥

ततस्तेपे जिताहारो वत्सराणि त्रयोदश ॥

कदाचित्सोऽभिषेकाय आजगाम महानदीम्

॥४॥

शिप्रां विप्रप्रियां पुण्यां महापातकना शिनीम् ॥

तत्र स्नात्वा जपन्विप्रो ददर्शायांतमग्रतः

॥५॥

व्याधं महाधनुष्पाणिं रक्तनेत्रं सुभीषणम् ॥

वदंतं हन्तुकामं वै वल्कलानां जिघृक्षया

॥६॥

तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति ॥

ध्यायन्नारायणं देवं तस्थौ तत्रैव स द्विजः

॥७॥

तं दृष्ट्वांतर्गतहरिर्व्याधो भीत इवाग्रतः ॥

विहाय सशरं चापं ततो वचनमब्रवीत्

॥८॥

व्याध उवाच

हंतुमिच्छुरहं ब्रह्मन्भगवन्तमिहागतः ॥

इदानीं स्वगता बुद्धिस्त्वां दृष्ट्वैव महाप्रभम्

॥९॥

ब्राह्मणानां सहस्राणि स्त्रीणामयुतशस्तथा ॥

निहतानि मया ब्रह्मन्वृत्तिहेतोः कुटुंबिना

॥१०॥

न च मे व्यथितं चित्तं कदाचिदपि जायते ॥

इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः

॥११॥

उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥

एवमुक्तो ह्यसौ विप्रो नोत्तरं प्रत्यप द्यत

॥१२॥

ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः ॥

अनुक्तोऽपि स धर्मस्तु व्याधस्तत्रैव तस्थिवान्

॥१३॥

स्नात्वा सद्यः समायातो मुक्ति लिंगसमीपतः ॥

द्विजेन सहितो देवि दृष्ट्वा देवं सनातनम्

॥१४॥

तत्क्षणाद्दिव्यदेहस्तु तस्मिँल्लिंगे लयं गतः ॥

दृष्ट्वा तन्महदाश्चर्यं मुक्तिर्विप्रो निजांतरे ॥

चिंतयामास सहसा मुक्तिः प्राप्ता वरानने

॥१५॥

व्याधेन पापयुक्तेन समाधिरहितेन च ॥

मया पुनः समाचीर्णं तपः परम दुष्करम्

॥१६॥

न प्राप्ता परमा मूर्त्तिर्मुक्तिर्नैव च लभ्यते ॥

एवं सचिंतयित्वाथ वैराग्याद्ब्राह्मणर्षभः ॥

अन्तर्जलगतो भूत्वा चचार विपुलं तपः

॥१७॥

कस्यचित्त्वथ कालस्य तां नदीमगमत्किल ॥

व्याघ्रो बुभुक्षितः साध्वि तं विहंतुं समुद्यतः

॥१८॥

अंतर्जलचरं विप्रं यावद्व्याघ्रो जिघृक्षति ॥

नमो नारायणायेति तावद्वाक्यं द्विजोऽब्रवीत्

॥१९॥

व्याघ्रेणापि श्रुतो मंत्रोऽजहात्प्राणांश्च तत्क्षणात् ॥

दिव्यांबरधरो देवि दिव्याभरणभूषितः ॥

दिव्यालंकारशोभाढ्यः पुरुषश्चाभवच्छुभः

॥२०॥

सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः ॥

त्वत्प्रसादाद्द्विजश्रेष्ठ मुक्त्वा शापान्निरामयः

॥२१॥

इत्युक्ते ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ ॥

सोऽब्रवीदस्मि राजेंद्र प्रतापी पूर्वजन्मनि

॥२२॥

दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ॥

अहं जानामि वेदांश्च शास्त्राणि विविधानि च

॥२३॥

शुभाशुभमहं वेद्मि सर्वज्ञोऽहं महीतले ॥

ब्राह्मणैर्नैव मे कार्यं किं वस्तु ब्राह्मणा इति

॥२४॥

तस्यैकस्मिन्दिने विप्राः सर्वे क्रोधसमन्विताः ॥

ददुः शापं दुराधर्षं क्रूरो व्याघ्रो भविष्यति

॥२५॥

अपमानेन विप्राणां मांसाहारी भयावहः ॥

संजातोऽस्मि द्विजश्रेष्ठ पश्य कालविपर्यये

॥२६॥

इत्युक्तोऽहं पुरा तैस्तु ब्राह्म णैर्वेदपारगैः ॥

दुर्धर्षोऽयं मया प्राप्तो ब्रह्मशापो द्विजर्षभ

॥२७॥

ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य मया मुने ॥

प्रसादिता भृशं विप्र तदा गद्गद या गिरा

॥२८॥

जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ॥

अपेयः सागरः क्रोधात्कृतो यैर्लवणोदकः

॥२९॥

तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ॥

येषां क्रोधाग्निरद्यापि कण्डके नोपशाम्यति

॥३०॥

ब्राह्मणानां परीभावाद्वातापिश्च दुरात्मवान् ॥

अगस्तिमृषिमासाद्य जीर्णः क्रूरो महासुरः

॥३१॥

सर्वभक्षः कृतो वह्निर्भृगुणा कारणांतरे ॥

गौतमेन पुरा शक्रः स सहस्रभगः कृतः

॥३२॥

दशधा केशवो जज्ञे ब्रह्मशा पात्सुदुस्तरात् ॥

प्रसन्नैर्वालखिल्यैश्च पक्षींद्रो गरुडः कृतः

॥३३॥

अश्विनौ देवभिषजौ च्यवनेन महात्मना ॥

विष्टंभयित्वा कुलिशं कृतौ तौ सोमपायिनौ

॥३४॥

कार्त्तवीर्यार्जुनेनैव बाहूनां च सहस्रकम् ॥

दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम्

॥३५॥

पुरा सेंद्रा वशिष्ठेन रक्षितास्त्रि दिवौकसः ॥

ब्राह्मणप्रभवं सौख्यं कीर्तिरायुर्यशो वलम्

॥३६॥

लोकालोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ॥

एते हि सोमराजान ईश्वराः सुखदुःखयोः

॥३७॥

भस्मीकुर्युर्जगदिदं कुद्धाः प्रत्यक्षदर्शनाः ॥

प्रभावा बहवश्चापि श्रूयते ब्रह्मवदिनाम्

॥३८॥

क्रोधश्च विपुलः सद्यः सद्यः प्रत्य यकारकः ॥

अहं कोपाद्द्विजेंद्राणां गतो निरययातनाम्

॥३९॥

नित्यं क्रोधाच्छ्रियं रक्षेद्धनं रक्षेत्समत्सरात् ॥

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः

॥४०॥

मयाऽज्ञानात्कृतं पापं राजगर्वेण दैवतः ॥

क्षंतुमर्हथ विप्रेंद्रा भवतः शरणागतम्

॥४१॥

अथ तुष्टा द्विजाः सर्वे त ऊचुर्मामिदं मुदा ॥

षष्ठान्नकालिकस्तेऽग्रे यदा स्थास्यति कश्चन

॥४२॥

मांसभोक्ता च भविता कञ्चित्कालं नराधिप ॥

यदा शिप्रांतरे पुण्ये स्नातस्तु द्विजसत्तमः

॥४३॥

अंतर्जलगतेनोक्तो नमो नारायणेति च ॥

जिघृक्षुर्व्याघ्ररूपेण तदा मुक्तो भविष्यसि

॥४४॥

एवं स भवता प्रोक्तो नमो नारायणेति च ॥

मंत्रः श्रुतो मया त्वत्तस्तस्येयं व्युष्टिरागता

॥४५॥

जातोऽहं दिव्यदेहस्तु प्रसादात्तव सुव्रत ॥

स कृतार्थोऽस्मि संजातो भगवन्दर्शना त्तव

॥४६॥

वरं च गृह्यतां मत्तो यश्च ते संशयो हृदि ॥

तं च ब्रूहि द्विजश्रेष्ठ सर्वं संपादयामि ते

॥४७॥

तवोपदेशदानेन आनृण्यं गंतु मुत्सहे

॥४८॥

इति तस्य वचः श्रुत्वा दिव्यदेहस्य स द्विजः ॥

प्रोवाच परया तुष्ट्या प्रफुल्लमुखपंकजः

॥४९॥

अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ॥

अद्य मे सफला जिह्वा सफलं चक्षुरद्य मे

॥५०॥

श्रुतं देवेन संप्रोक्तं स्नात्वा पश्यंति देहिनः ॥

प्राक्छरीरगतं तेऽद्य व्याघ्ररूपं तपोत्तम

॥५१॥

तेजोमयं शरीरं तु ब्रह्मरूपं सनातनम् ॥

यदि त्वहमनुग्राह्यो यद्येवं कर्तुमर्हसि

॥५२॥

कारणं श्रोतुमिच्छामि हृदि मे वर्त्तते चिरम् ॥

कथं मुक्तिर्महाभाग मुक्तिकामेन यत्नतः

॥५३॥

योगाभ्यासरतेनापि वत्सरांश्च त्रयोदश ॥

न लब्धा परमाश्चर्यं तपसा दुष्करेण तु

॥५४॥

व्याधेनापि भृशं तेन प्राप्ता मुक्तिः क्षणेन तु ॥

अत्र मे संशयो जातः को हेतुः कथ्यतां भृशम्

॥५५॥

तस्य तद्वचन श्रुत्वा ततो वचनमब्रवीत् ॥

कथयामि परं गुह्यं रहस्यं मुक्तिलक्षणम्

॥५६॥

महादेवमुपास्याशु मुने मुक्तिः सुदुर्लभा ॥

पुरातनैस्तु विद्वद्भिरिदमुक्तं महात्मभिः

॥५७॥

शृणुष्वैकमना विप्र कुरु यत्नं यथार्थतः ॥

मन्नियोगाद्द्विजश्रेष्ठ ततो मुक्तिमवाप्स्यसि

॥५८॥

शप्तोऽहं तैर्यदा विप्रैस्तदा मे तोषिता भृशम् ॥

ममानुकंपया प्रोक्तं मुक्तिस्ते भविता नृप

॥५९॥

मुक्तिकामो महाकाले मुक्तिर्ब्राह्मणसत्तमः ॥

विद्यते तपसा युक्तः स ते प्रश्नं करिष्यति

॥६०॥

मुक्तीश्वरं तदा लिंगं तस्याग्रे कथयिष्यसि ॥

तवापि तस्य मुक्तेश्च मुक्तिरेवं भविष्यति

॥६१॥

पूर्वं हि चिह्नितं कर्म देहिनो न विमुंचति ॥

धात्रा विधिरयं दृष्टो बहुधा कर्मभिश्च यः

॥६२॥

इति तस्य वचः श्रुत्वा स विप्रो ब्रह्मवित्तमः ॥

अंतर्जलात्समुत्थाय ततो वचनमब्र वीत्

॥६३॥

दिष्ट्या त्वमागतो भूप दिष्ट्या ते संगतं मया ॥

ईदृशा दुर्लभा लोके नरा मुक्तिप्रदर्शकाः

॥६४॥

इत्युक्त्वा नृपविप्रौ तौ मुक्तिलिंगं समा गतौ ॥

दर्शनार्थं विशालाक्षि दृष्ट्वा देवं सनातनम्

॥६५॥

तत्क्षणात्सशरीरौ तौ तस्मिँल्लिंगे लयं गतौ ॥

ईदृशोऽयं मया देवि महिमा कथितस्तव

॥६६॥

अस्य लिंगस्य संस्पर्शान्मुक्तिर्भवति नान्यथा ॥

येऽर्चयंति सदा भक्त्या मुक्तिलिंगं सनातनम् ॥

अपि पापसमायुक्तः स याति परमां गतिम्

॥६७॥

रे मूढाः किं तपोभिश्च किं दानैर्नियमैश्च किम् ॥

कुरुध्वं मुक्तिलिंगस्य दर्शनं मुक्तिदायकम्

॥६८॥

न मां विदुर्देवगणा नासुरा न महर्षयः ॥

परं रूपं विशालाक्षि यदश्मद्युति निर्मलम्

॥६९॥

न मे वेत्ति परं रूपं स्वयं साक्षात्प्रजापतिः ॥

न विष्णुस्त्रिदशश्रेष्ठाः कुतोन्ये मुनयः प्रिये

॥७०॥

यदेतद्दृश्यते तेजो लिंगरूपं यशस्विनि ॥

एतदेव शुकाद्या हि ध्यायंति त्रिदशा अमी

॥७१॥

अनेकजन्मसंशुद्धा योगिनोऽनुग्रहान्मम ॥

प्रविशंतु तनुं देवि मदीयां मुक्तिदायिकाम्

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंन्यखण्डे चतुरशीतिलिंगमाहात्म्ये मुक्तीश्वरमाहात्म्यवर्णनंनाम पंचविंशतितमोऽध्यायः ॥ २५ ॥