चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
षट्सप्ततितमं देवमरुणेश्वरसंज्ञकम् ॥
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम्
॥१॥पुरा देवयुगे देवि प्रजापतिसुते शुभे ॥
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे
॥२॥ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता तथा ॥
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः
॥३॥कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं तु ते
॥४॥हर्षादभ्यधिकां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः
॥५॥द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥
ओजसा तेजसा चैव विक्रमेणाधिकौ च तौ
॥६॥तस्यै भर्त्ता वरं प्रादाल्लप्स्यसे पुत्रकोत्तमौ ॥
एवमस्त्विति तां चाह कश्यपो विनतां तदा
॥७॥यथा च प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा ॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ
॥८॥कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥
धार्यौ गर्भौ प्रयत्नेन इत्युक्त्वा स महातपाः
॥९॥ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥
कालेन महता कद्रूर्नागानां सा शतीर्दश ॥
जनयामास चार्वंगी द्वे चांडे विनता तदा
॥१०॥तयोरंडानि निदधुः प्रहृष्टाः परिचारिकाः ॥
सोपस्वेदेषु भांडेषु पंचवर्षशतानि च
॥११॥ततः पंचशते काले कद्रूपुत्रा विनिर्गताः ॥
अंडभ्यां विनतायास्तु मिथुनं न व्यदृश्यत
॥१२॥ततः पुत्रार्थिनी देवी व्रीडिता सा तपस्विनी ॥
अंडं बिभेद विनता तत्र पुत्रं ददर्श ह
॥१३॥पूर्वार्द्धकायसंपन्नमितरेणा प्रकाशितम् ॥
स पुत्रो रोषसंरब्धः शशापैनामिति श्रुतम्
॥१४॥योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि
॥१५॥पंचवर्षशतान्यस्या यया विस्पर्द्धसे सदा ॥
एष ते च सुतो मातर्दास्याद्वै मोक्षयिष्यति
॥१६॥यद्येनमपि मातस्त्वं मामिवांडविभेदनात् ॥
न करिष्यस्यनंगं वा पुत्रं चाति तरस्विनम्
॥१७॥प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ॥
विशिष्टबलमीप्संत्या पंचवर्षशतान्यतः
॥१८॥एवं शप्त्वा ततो देवि विनतां मातरं स्वकम् ॥
अरुणो विललापाथ वाष्पशोकपरिप्लुतः
॥१९॥हाहा मया नृशंसेन माता स्वजननी स्वका ॥
शप्ता विनापराधेन कथं यास्यामि सद्गतिम् ॥
माता देहारणिः पुंसां माता दुःखसहा परा
॥२०॥गर्भक्लेशे परं दुःखं माता जानाति यादृशम् ॥
वात्सल्यं चाधिकं मातुर्दृश्यते न तु पैतृकम्
॥२१॥गुरूणामेव सर्वेषां माता गुरुतरा स्मृता ॥
एकस्यापि सुतस्यैव न दृष्टा निष्कृतिः श्रुतौ
॥२२॥यदि पिंडप्रदानं तु गयायां कुरुते सुतः ॥
गते पितरि पंचत्वं माता पुत्रस्य निर्वृतिः ॥
न च मातृविहीनस्य ममत्वं कुरुते पिता
॥२३॥विकलो मातृहीनस्तु पुत्रो हि प्रोच्यते तदा ॥
यदा स वृद्धो भवति तदा भवति दुःखितः ॥
तदा शून्यं जगत्सर्वं यदा माता वियुज्यते
॥२४॥सोऽहं पापसमाचारो जातो मातृविहिंसकः ॥
मरिष्यामि न संदेहः साधयित्वा हुताशनम्
॥२५॥जातोऽहं विकलांगस्तु प्राक्कृतेनैव कर्मणा ॥
न माता कारणं यस्मात्स्वकीयं कर्म भुज्यते
॥२६॥एवं विलपतस्तस्य कश्यपस्य सुतस्य च ॥
अरुणस्य विशालाक्षि नारदः समुपागतः
॥२७॥दृष्ट्वारुणं सुदुःखार्त्तं विलपंतं पुनः पुनः ॥
प्रत्युवाच प्रसन्नात्मा नारदः प्रहसन्निव
॥२८॥अरुणोऽयमहो रौति कश्यपस्यात्मसंभवः ॥
विनतायाः सुतो ज्येष्ठः संभूतस्तपसां निधिः
॥२९॥उत्पादितोऽयमल्पाहैरर्द्धकायो महाबलः ॥
एनमाश्वासयिष्यामि विनतागर्भसंभवम् ॥
मोहेन विलपंतं च श्रेयो मे भविता धुवम्
॥३०॥इति संचिंत्य मनसि वाक्यैर्मध्वमृतोपमैः ॥
प्रत्युवाचारुणं तत्र नारदो द्विजसत्तमः
॥३१॥तात कश्यपदायाद विनतागर्भसंभव ॥
तेजोराशे दुराधर्ष संतापं मा कृथा वृथा
॥३२॥भाविनोऽर्था भवंतीह दुःखस्य च सुखस्य च ॥
यत्त्वया विनता शप्ता रहस्यं देवनिर्मितम्
॥३३॥यदि तेस्ति घृणा चित्ते शप्तात्मजननी त्वया ॥
तदा गच्छ ममादेशान्महाकालवनं शुभम्
॥३४॥उत्तरे देवदेवस्य यात्रेशस्य च पुण्यदम् ॥
विद्यते त्रिदशैः पूज्यं सर्वदा सर्वदं शिवम्
॥३५॥अरुणस्त्वेवमुक्तस्तु नारदेन महात्मना ॥
आजगाम क्षणार्द्धेन महाकालवनं शुभम्
॥३६॥ददर्श तत्र तल्लिंगं तेजःकूटोपमं शुभम् ॥
पूजयामास विधिवत्पुष्पैर्भावसमन्वितः
॥३७॥लिंगेनोक्तोऽरुणो देवि सारथ्यं कुरु सर्वदा ॥
सूर्यस्य भ्रमतस्तस्य त्वत्तुल्यो नास्ति सारथिः
॥३८॥मया दत्तं तु सामर्थ्यं सूर्यस्य पुरतः सदा ॥
उदयस्तेऽरुण प्राग्वै पश्चात्सूर्य उदेष्यति
॥३९॥त्वन्नाम्ना त्रिषु लोकेषु ख्यातोऽहमरुणेश्वरः ॥
भविष्यामि न संदेहो नृणामर्थप्रदायकः
॥४०॥ये मां पश्यंति सततं त्वन्नाम्ना चारुणेश्वरम् ॥
ते यास्यंति परं स्थानं दाहप्रलयवर्जितम्
॥४१॥मोदिष्यंति कुलैः सार्द्धं पितृमातृसमुद्भवैः ॥
कल्पकोटिसहस्रं तु ये पश्यंति समाहिताः
॥४२॥न दुःखं जायते तेषां ये पश्यंति रवेर्द्दिने ॥
संसारसागरोत्थं वै यावदिंद्राश्चतुर्दश
॥४३॥यः पश्यति चतुर्दश्यां कृष्णायामरुणेश्वरम्
॥४४॥स नेष्यति पितॄन्स्वर्गे नरकस्थान्न संशयः ॥
संक्रांतौ रविवारे च यः पश्येदरुणेश्वरम् ॥
शुंडीरस्वामिनो यात्रा कृता तेन न संशयः
॥४५॥इत्युक्तस्तेन लिंगेन विनतानंदनस्तदा ॥
आगतः कृतकृत्यात्मा यत्र देवो दिवस्पतिः
॥४६॥अस्य लिंगस्य माहात्म्यात्कश्यपस्यात्मसंभवः ॥
अरुणो दृश्यते व्योम्नि सूर्यस्य पुरतः सदा
॥४७॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
अरुणेश्वरदेवस्य पुष्पवंतेश्वरं शृणु
॥४८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥