मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ४०

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 40

कुंडेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

चत्वारिंशत्तमं विद्धि कुंडेश्वरमतः शृणु ॥

यस्य दर्शनमात्रेण लभ्यते सद्गतिः परा

॥१॥

विज्ञप्तोऽहं त्वया देवि मंदरे चारुकंदरे ॥

वीरकं द्रष्टुमिच्छामि क्व गतो मम पुत्रकः

॥२॥

मया प्रोक्तं विशालाक्षि महाकालवनो त्तमे ॥

जलमध्ये स्थितस्तेपे तपः परमदारुणम्

॥३॥

मुनिभिः सहितो धीमान्भ्राजमानोंऽशुमानिव ॥

गच्छामस्तत्र तं द्रष्टुं गणैः सार्द्धं वरानने

॥४॥

मदीयं वचनं श्रुत्वा त्वयाहं प्रेरितस्तदा ॥

उत्तिष्ठ शम्भो गच्छामो वृषमारुह सत्वरम्

॥५॥

सप्रस्नवौ स्तनौ जातौ सद्यः संस्मृत्य वीरकम् ॥

मया स्मृतो वृषो देवि धर्मरूपी सनातनः

॥६॥

मदीयं चिंतितं ज्ञात्वा ममपार्श्वमुपागतः ॥

आरूढोऽहं त्वया सार्द्धं तस्मिन्नेव वृषे तदा

॥७॥

प्रस्थितस्तत्क्षणाच्छीघ्रं गणैर्नानाविधैः सह ॥

वेगात्प्रयातो वृषभस्कंधालंबितया त्वया

॥८॥

रणद्वलयबाहुभ्यां गाढमालिंगितो ह्यहम् ॥

त्वं भीता च तदा जाता यदातीव प्रणोदितः

॥९॥

वृषो मया विशालाक्षि स कृष्टो गणपैस्तदा ॥

कृष्टं च सत्वरं दृष्ट्वा प्रोक्तं च भीतया तदा

॥१०॥

श्रांतास्मि सांप्रतं देव वेगेनानेन भीषिता ॥

तद्विश्रमितुमिच्छामि भूधरस्य तटे विभो

॥११॥

क्षणं पद्भ्यां गमिष्यामि विषमोयं गिरिर्महान् ॥

त्वदीयं वचनं श्रुत्वा बाढमुक्तं प्रिये मया

॥१२॥

मुहूर्त्तं चारुजघने शैलपादमुपाश्रिता ॥

कुरु श्रमापनयनं यावद्वेगात्प्रयाम्यहम्

॥१३॥

पंथान त्वत्सुखं यत्र तं वयं मृगयावहे ॥

एष कुण्डो गणाध्यक्षस्त्वत्समीपे वसिष्यति ॥

त्वदाज्ञावशवर्त्ती च किंकरः स्थापितो मया

॥१४॥

एवमुक्त्वा ततो देवि संस्थाप्य गणरक्षकम् ॥

आरूढोऽहं गिरेः प्रांतमुदयाद्रिं रविर्यथा

॥१५॥

ततोऽवलोकितोऽत्यर्थं रमणीयो महा गिरिः ॥

इदं रम्यमिदं रम्यमित्यस्मिन्वरपर्वते

॥१६॥

पश्यतो मम शैलेंद्रं गताः संवत्सरा दश ॥

त्वयाथ चिंतितं देवि क्व गतस्त्रिपुरांतकः

॥१७॥

नूनं न मदनातप्तां वेत्ति मां रतिवर्जिताम् ॥

मां विहाय महादेवो निर्विशंकः क्व वर्त्तते

॥१८॥

हरस्य क्वापि यातस्य वैरं संस्मृत्य चित्तजः ॥

बाधते मामनंगोपि चापरोपितमार्गणः ॥

विलोकयंतीं हा दृष्ट्वा विलपंतीं पुनः पुनः

॥१९॥

ततः कुण्डो गणाध्यक्षो ज्ञात्वा भावं त्वदीयकम् ॥

उत्कृष्टेन स्वरेणोक्तं मा देवि विमना भव

॥२०॥

आयात एष ते भर्त्ता मा चेतः कलुषं कुरु ॥

एतच्छ्रुत्वा वचस्तस्य कुण्डस्य कमलानने

॥२१॥

दुःखार्त्तया त्वया प्रोक्तः कुण्ड वेद्मि न शंकरम् ॥

क्व गतः किं च कुरुते कालं दीर्घमिमं शिवः ॥

दर्शयस्व महादेवमित्युक्तोऽ सौ पुनःपुनः

॥२२॥

यदा न दर्शितस्तेन कुण्डेनाहं वरानने ॥

तदा शप्तस्त्वया देवि क्रुद्धया गणरक्षकः

॥२३॥

गच्छ त्वं मानुषं लोकं यस्मान्न कथितो हरः ॥

एतस्मिन्नंतरे देवि प्राप्तोऽहं त्वत्समीपतः

॥२४॥

पृष्टश्चाहं त्वया देवि विहाय क्व गतोऽसि माम् ॥

दुर्गमे पर्वते शून्ये तस्मात्त्य क्ष्यामि जीवितम्

॥२५॥

गत्वाग्रे भूधरस्यास्य किं कृतं च त्वया विभो ॥

मया तव वचः श्रुत्वा कथितं सर्वमेव तत्

॥२६॥

दुराधर्षतरः शैलः समंताद्दुरतिक्रमः ॥

त्वत्प्रियार्थं महाभागे मया मार्गोऽवलोकितः

॥२७॥

येन मार्गेण विश्रब्धं गमिष्यामः सुमध्यमे ॥

अयं कुण्डो गणो देवि विषण्णो व्याकुलः कृतः

॥२८॥

त्वयाप्युक्तं महादेव कुण्डः शप्तो मया गणः ।

ममाज्ञा न कृता यस्माद्विफलं न वचो मम ॥

तस्माद्यातु ममादेशा न्महाकालवनं शुभम्

॥२९॥

भैरवं रूपमास्थाय यत्र त्वं चोत्तरे स्थितः ॥

तस्याग्रतः स्थितं लिंगं वर्त्तते कामदं सदा

॥३०॥

तस्य दर्शन मात्रेण गणपोऽयं भविष्यति ॥

कुण्डेश्वरेति विख्यातः स देवो वै भविष्यति

॥३१॥

इत्युक्तः स त्वया देवि समासाद्य पुनःपुनः ॥

प्रस्थापितस्त्वयादेशाद्व्रज कुण्ड ममाज्ञया

॥३२॥

महाकालवनं शीघ्रं लिंगमाराध्य सत्वरम् ॥

कीर्तिस्ते भविता पुत्र त्रिषु लोकेषु शाश्वती

॥३३॥

इत्युक्तस्तत्क्षणात्प्राप्तो दृष्ट्वा लिङ्गं तु शाश्वतम् ॥

उत्तरस्य शिवस्याग्रे पूजयामास भक्तितः

॥३४॥

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ॥

यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः

॥३५॥

अथाहं तत्क्षणात्प्राप्तस्त्वया सार्द्धं गणैर्वृतः ॥

दृष्ट्वा कुण्डं गणेशं तु लिंगाराधनतत्परम्

॥३६॥

समाधिध्याननिरतं प्रोक्तमस्माभिरादरात् ॥

तुष्टा ते पार्वती पुत्र प्रार्थ्यतां वरमुत्तमम्

॥३७॥

अक्षयं तु पदं प्राप्तं त्वया लिंगस्य दर्शनात् ॥

अद्यप्रभृति देवोऽयं ख्यातो भुवि भविष्यति ॥

नाम्ना कुण्डेश्वरो यस्मात्सर्वसंपत्करः सदा

॥३८॥

कुण्डेश्वरमनादिं तु भक्त्या पश्यति यो नरः ॥

सोऽश्वमेधसहस्रस्य फलं प्राप्स्यति नान्यथा

॥३९॥

तस्य दानफलं सर्वं सर्वतीर्थफलं सदा ॥

लिंगं कुण्डेश्वरं यस्तु भक्त्या संपूजयिष्यति

॥४०॥

दशानामश्वमेधानामग्निष्टोमशतस्य च ॥

स्पर्शनात्फलमाप्नोति कुण्डेश्वरस्य सर्वदा

॥४१॥

प्रातः पश्यंति ये भक्त्या कृत्वा नियमपूर्वकम् ॥

सिद्धिं सुकामिकीं हृष्टाः संप्राप्स्यंति न संशयः

॥४२॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

कुण्डेश्वरस्य देवस्य शृणु लुंपेश्वरं परम्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कुंडेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशो ऽध्यायः ॥ ४० ॥