मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५७

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 57

सप्तपंचाशतं विद्धि घंटेश्वरमथो शृणु

ईश्वर उवाच

सप्तपंचाशतं विद्धि घंटेश्वरमथो शृणु ॥

यस्य दर्शनमात्रेण कामावाप्तिश्च जायते

॥१॥

घंटोनाम गणश्रेष्ठो बभूव मम वल्लभः ॥

चाक्षुषस्य मनोः काले कौतुकार्थं यदृच्छया ॥

प्रस्थितो ब्रह्मसदनं द्रष्टुं ब्रह्माणमव्ययम्

॥२॥

अथायान्तं समालोक्य गन्धर्वं गीतकोविदम् ॥

चित्रसेनं गणश्रेष्ठः पप्रच्छ कुशलं मुदा

॥३॥

मया तत्रैव गन्तव्यं सदने परमेष्ठिनः।

. गीतैराराधयिष्यामि ब्रह्माणं जगतां पतिम्

॥४॥

चित्रसेनोऽथ तं देवि प्रत्युक्तो घंटमब्रवीत् ॥

पद्मयोनिः सुरैः सार्धं गुह्यं मन्त्रमचीकरत्

॥५॥

एतच्छ्रुत्वा गणो घंटस्तस्थौ विस्मितमानसः ॥

मूहूर्तं चिंतयामास प्रतिहारनिवारितः

॥६॥

हित्वा स्वामिनमीशानं द्रष्टुं ब्रह्माणमागतः ॥

प्रवेशोपि न लभ्येत प्रसादो दूरतः स्थितः

॥७॥

एवं चिंतयतस्तस्य साग्रः संवत्सरो गतः ॥

घंटस्य ब्रह्मणो द्वारि प्रवेशो देवि नाभवत्

॥८॥

निर्गच्छतमथालोक्य वीणाहस्तं समुत्सुकम् ॥

नारदं स गणश्रेष्ठः पद्मयोनिं गृहोदरात्

॥९॥

प्रोक्तो घंटेन सहसा मां निवेदय नारद ॥

गणोऽहं गीततत्त्वज्ञो महादेवस्य वल्लभः

॥१०॥

दर्शनार्थं समायातो ब्रह्मणः परमेष्ठिनः ॥

घंटस्य वचनं श्रुत्वा प्रीतिमानभवन्मुनिः ॥

नारदः प्रत्युवाचेदं समाश्वास्य सकैतवम्

॥११॥

अहं बृहस्पतेः पार्श्वे प्रेषितोऽस्मि गणाधिप ॥

किंचित्कार्यांतरं प्रष्टुं ब्रह्मणा लोककर्तृणा ॥

आयास्यामि क्षणेनैव तावत्कालं प्रतीक्ष्यताम्

॥१२॥

इत्युक्त्वा नारदो देवि मम पार्श्वमुपागतः ॥

वृत्तांतं कथयामास घंटस्य मुनिसत्तमः

॥१३॥

ईदृशो दुर्ल्लभो भृत्यो घंटेन सदृशः प्रभो ॥

यस्त्वां त्यक्त्वा गणो देव सेवायै परमेष्ठिनः ॥

स्थितः संवत्सरं साग्रं प्रवेशं न च लब्धवान् ॥

१४ तच्छ्रुत्वा वचनं तस्य नारदस्य मुनेस्तदा ॥

मया शप्तस्तु कोपेन पत घण्ट महीतले

॥१५॥

मां त्यक्त्वा हि गतोन्यत्र सेवार्थं परवेश्मनि ॥

मयेत्युक्ते च वचने ब्रह्माद्वारि स्थितोऽपि सन्

॥१६॥

पतितो भूतले घंटो देवदारुवनांतिके ॥

आत्मानं पतितं दृष्ट्वा भूमौ घंटेन पार्वति

॥१७॥

प्रोक्तं शोकोत्तरेणैव वचनं गद्गदाक्षरम् ॥

सेवार्थं याति योऽन्यत्र परिहृत्य स्वकं प्रभुम्

॥१८॥

स याति नरकं घोरमपकीर्तिं च विंदति ॥

नारदेन मम त्वद्य वंचितस्य द्वयं गतम् ॥

यस्मात्स्वामी न मे ब्रह्मा न च देवो महेश्वरः

॥१९॥

एवं विलपतस्तस्य नारदो मुनिसत्तमः ॥

आजगाम तमुद्देशं यत्र घंटो व्यवस्थितः

॥२०॥

देवदारुवने देवि दर्शनार्थं तपस्विनाम् ॥

घंटेन नारदो दृष्टो भीतेनाकुलचेतसा

॥२१॥

अवस्थामीदृशीं कृत्वा किमन्यन्मे करिष्यति ॥

एवं तं चिंतयानं तु नारदो वाक्यमब्रवीत्

॥२२॥

गणाध्यक्ष न ते कार्यो मन्युः पुण्यविनाशनः ॥

कीर्त्यर्थं पतितो घंट प्रायश्चित्तार्थमेव च

॥२३॥

प्रायश्चित्तविशुद्धात्मा प्रभुं प्राप्स्यसि शंकरम् ॥

तस्माद्गच्छ ममादेशान्महाकालवनं शुभम्

॥२४॥

रेवंतेश्वर पूर्वे तु विद्यते लिंगमुत्तमम् ॥

सर्वसंपत्करं दिव्यं त्वन्नाम्ना ख्यातिमेष्यति

॥२५॥

इत्युक्तो नारदेनैव जैगीषव्यः समागतः ॥

तेनापि कथितं सर्वं सत्यमुक्तमनेन वै

॥२६॥

नारदेन गणाध्यक्ष कीर्त्तिस्ते भविताऽक्षया ॥

कश्यपेन मृकण्डेन कण्वेन जमदग्निना

॥२७॥

अत्रिणा भृगुणा देवि लोमशेन सुरर्षिणा ॥

प्रोक्तो घंटो गतः शीघ्रं महाकालवनं शुभम्

॥२८॥

यत्र घंटानिनादेन युध्यतो मम संयुगे ॥

पापक्षयकरं देवि संभूतं लिंगमुत्तमम् ॥

दृष्टं तत्र गणेनैव लिंगं तेजोमयं शुभम्

॥२९॥

दर्शनात्तस्य लिंगस्य भूयो घंटो गणोऽभवत् ॥

लक्ष्म्या कांत्या समायुक्तः सहस्रकिरणाकृतिः

॥३०॥

घण्टोभिनंदितोऽत्यर्थं विमानैः सार्वकामिकैः ॥

मम पार्श्वं समायातो ममातीव प्रियोऽभवत्

॥३१॥

ये पश्यन्ति विशालाक्षि देवं घण्डेश्वरं शिवम् ॥

ते घण्टाभिर्नादितास्तु विमानैः सार्वकामिकैः

॥३२॥

यास्यंति सुचिरं कालं मम लोकं सनातनम् ॥

घण्टेश्वरं परं लिंगं नाख्येयं यस्यकस्यचित्

॥३३॥

व्याधितो यदि वा दीनो दुःखितो वा भवेन्नरः ॥

यः पश्यति प्रसंगेन देवं घण्टेश्वरं प्रिये ॥

दीप्तकांचनवर्णाभैर्विमानैः सार्वकामिकैः

॥३४॥

गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ॥

ईप्सिताँल्लभते कामान्वीणावेणुविनोदितः

॥३५॥

ततः स्वर्गात्परिभ्रष्टः सर्वैश्वर्यसमन्वितः ॥

हिरण्यधान्यसंपूर्णे समृद्धे जायते कुले ॥

राजा वा राजतुल्यो वा जंबूद्वीपपतिर्भवेत्

॥३६॥

यः पूजयति देवेशं श्रद्धया परया युतः ॥

स याति परमं स्थानमपुनर्भवकारणम्

॥३७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

घण्टेश्वरस्य देवस्य प्रयागेशमथो शृणु

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये घण्टेश्वर माहात्म्यवर्णनंनाम सप्तपंचाशत्तमोऽध्यायः ॥ ५७ ॥