बिल्वेश्वरमाहात्म्यवर्णनम्
श्रीहर उवाच
बिल्वेश्वरस्य माहात्म्यं शृणु सुन्दरि सादरम् ॥
यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः
॥१॥आदिकल्पे महादेवि लोकानामनुकम्पया ॥
कल्पवृक्षास्ततो जाता ब्रह्मणो ध्यायतः पुरा
॥२॥तेषां मध्ये बिल्ववृक्षः श्रीवृक्ष इति गीयते ॥
अधस्तात्तस्य वृक्षस्य पुरुषः कांचनप्रभः
॥३॥उपविष्टस्तदा दृष्टो ब्रह्मणा लोककर्तृणा ॥
फलानि तस्य पत्राणि विविधानि निरन्तरम्
॥४॥भक्षयत्यतिसंहृष्टो हद्यानि च मृदूनि च ॥
बद्धगोधांगुलित्रश्च शरी धन्वी तथैव च
॥५॥खङ्गी किरीटमाली च कुण्डली कवची तथा ॥
महोरस्को महोत्साहः सिंहसंहननो युवा
॥६॥ब्रह्मणा च कृतं नाम बिल्व इत्यभिविश्रुतम् ॥
तमिन्द्रो वरयामास राजा त्वं भूतले भव
॥७॥त्रिविष्टपस्य भूमिस्थः सखाभूतो मम प्रियः ॥
ददामि ते वैजयन्तीं मालामम्लानपंकजाम्
॥८॥यस्याः प्रभावतः शस्त्रं रणे न प्रभविष्यति ॥
सोऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि
॥९॥तत्स्यां पृथिव्यां राजाहं नान्यथा रोचते मम ॥
ततोऽहं पालयिष्यामि सत्येनेमां वसुन्ध राम्
॥१०॥इंद्र उवाच
एवं भवतु भद्रं ते भव राजा प्रजाहितः ॥
स्मरणादेव वज्रस्ते करे यास्यति नान्यथा
॥११॥स एवमुक्तस्तेजस्वी बिल्वो राजा बभूव ह ॥
कपिलोनाम धर्मात्मा वेदवेदांगपारगः
॥१२॥सखा बभूव बिल्वस्य तस्य विप्रर्षिसत्तमः ॥
स तेन सह संगम्य सुखासीनो वरानने
॥१३॥चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनःपुनः ॥
तथा कथान्तरे वादः परस्परमभूत्तयोः
॥१४॥दानं प्रधानं तीर्थं तु बिल्वेनोक्तं पुनःपुनः ॥
ब्रह्म श्रेष्ठं तपः श्रेष्ठमित्युक्तं कपिलेन तु
॥१५॥बिल्व उवाच
दानाद्राज्यं सुखं भोगा ऐश्वर्यं स्वर्गमक्षयम् ॥
प्राप्यते द्विजशार्दूल कथं ब्रह्म प्रशंसससि
॥१६॥कपिल उवाच
वेदाद्यज्ञाः प्रवर्त्तंते वेदादिष्टिश्च कामिका ॥
प्रवर्त्तंते क्रिया वेदाद्वेदमूलमिदं जगत्
॥१७॥बिल्व उवाच
संसारे पार्थिवाः श्रेष्ठाः समर्था लोकपालने ॥
लोकपालोपमा लोके कथं ब्रह्म प्रशंससि
॥१८॥कपिल उवाच
मुख्या वै ब्राह्मणाः प्रोक्ताः शापानुग्रहकारकाः ॥
पितरः पार्थिवानां तु किं त्वं बिल्व न मन्यसे
॥१९॥एवं कौतूहले जाते कपिलो द्विजसत्तमः ॥
बिल्वेन ताडितो मूर्ध्नि वज्रेणानतपर्वणा
॥२०॥वज्रेण स द्विधा छिन्नः कपिलो ब्रह्मविद्यया ॥
संधार्य स्वशरीरं तु ममांतिकमुपागतः
॥२१॥स्तुतोऽहं विविधैः स्तोत्रैः सम्यगाराधितो ह्यहम् ॥
मया दत्तमव्ययत्वं कुलिशाद्ब्राह्मणस्य तु
॥२२॥द्विजः समागतो बिल्वं पुनः सख्यमभूत्तयोः ॥
पुनस्तु तादृशो वादः संजातः पर्वतात्मजे
॥२३॥वामपादेन चाप्येनं बिल्वो विप्रमताडयत् ॥
पुनश्च वज्रमादाय जघानैनं तदा दृढम्
॥२४॥न मृतिं न व्यथां तस्य तद्वज्रमकरोत्पुनः ॥
अवध्यत्वमथो ज्ञात्वा बिल्वस्तस्य महात्मनः
॥२५॥नारायणमथासाद्य प्रार्थयामास चेप्सितम् ॥
वरदोऽस्मीति तुष्टेन विष्णुना स च मोदितः ॥
प्रोवाच प्रणतो विष्णुमिदं देवि महामनाः
॥२६॥बिल्व उवाच
कपिलोनाम विप्रर्षिरवध्योऽक्षय एव च ॥
सखा मम हृषीकेश स च मामाह नित्यशः ॥
बिभेम्यहं न देवस्य राक्षसस्यासुरस्य च
॥२७॥पिशाचस्यापि यक्षस्य न चैवान्यस्य कस्यचित् ॥
बिभेमीति यथा ब्रूयां तथा त्वं कर्त्तुमर्हसि
॥२८॥एवमुक्तस्तु बिल्वेन स देवः पुरुषोत्तमः ॥
एवं भविष्यतीत्युक्त्वा कपिलस्याश्रमं गतः
॥२९॥स प्रविश्याश्रमं देवं कपिलेन प्रपूजितः ॥
कपिलं प्रत्युवाचेदं सामपूर्वं जनार्द्दनः
॥३०॥भगवन्ब्राह्मणश्रेष्ठ वेदवेदांगपारग ॥
वरमेकं वृणोम्यद्य विप्रेंद्र दातुमर्हसि
॥३१॥प्रसादितोऽहं बिल्वेन नृपेंद्रेण पुनःपुनः ॥
वरदोऽ स्मीति चाप्युक्तो वरं वव्रे महामुने
॥३२॥त्वया प्रोक्तं बिभेमीति ब्रूहि तस्मादनुग्रहात् ॥
अभीतस्त्वं तथाप्यद्य मदर्थं तु वद प्रभो
॥३३॥कपिलस्त्वेवमुक्तो वै विष्णुना मधुरं वचः ॥
उवाच न बिभेमीति भूयोभूयो जनार्दन
॥३४॥नाहं वक्ष्ये बिभेमीति तेनोक्तं नोच्यते मया ॥
एतच्छ्रुत्वा वचस्तस्य कपिलस्य जनार्द्दनः ॥
उवाच चक्रमुद्यम्य भयं विप्रस्य दर्शयन्
॥३५॥न चेद्वक्ष्यसि भीतोऽहं चक्रं ते प्रहरामि वै
॥३६॥कपिल उवाच
किं वृथा प्रियचक्रस्य विष्णो क्लेशमिहेच्छसि ॥
नाहं चक्रस्य ते गम्यः प्रसादात्त्र्यंबकस्य हि
॥३७॥ततः स मुष्टिमादाय कुशानां कपिलस्तदा ॥
वासुदेवं समासाद्य तिष्ठतिष्ठेत्यभाषत
॥३८॥अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम् ॥
तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन
॥३९॥ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ॥
निमेषांतरमात्रं तु कृष्णस्य कपिलस्य च
॥४०॥दिव्यास्त्राणां कुशानां च युद्धं समभवद्दृढम् ॥
निरालंबेंऽबरे देवि देवानां भयमाविशत्
॥४१॥एतस्मिन्नंतरे ब्रह्मा सुरैः परिवृतस्तदा ॥
आजगामाति संतप्तः कृष्णं वचनमब्रवीत्
॥४२॥भगवन्भूतभव्येश भवबंधभयापह ॥
हृषीकेश हृषीकेश सूष्टिसंहारकारक
॥४३॥समाराध्य जगन्नाथ शक्रा द्यास्त्रिदिवौकसः ॥
वसंति मुदिताः सर्वे सर्वकामसमन्विताः
॥४४॥आब्रह्मस्तंबपर्यंतं त्रैलोक्यं सचराचरम् ॥
उत्पादितं धृतं व्याप्तं विष्णुना प्रभविष्णुना
॥४५॥तेनैकेन विशुद्धेन सर्वगेन महात्मना ॥
इति स्म मुनयः सर्वे उदिता मुनिसत्तमाः
॥४६॥वदंति कारणं चास्य त्रैलोक्यस्य जनार्द्दनः ॥
देवदानवदैत्यैश्च मुनिचारणपन्नगैः
॥४७॥वरार्थिभिश्च प्रवरैः पूज्यसे गरुडध्वज ॥
किं भवानेव गोर्विद वृथा युध्यसि स द्विजैः
॥४८॥कपिलस्य च विप्रस्य हराल्लब्धवरस्य च ॥
किं न वेत्सि यथा ह्येष प्रसादात्पारमेश्वरात्
॥४९॥अवध्यत्वमनुप्राप्तो ह्यजेयत्वं च संयुगे ॥
न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते
॥५०॥ब्रह्म च ब्रह्मणो मूलं त्वयैव प्राक्प्रतिश्रुतम् ॥
तस्मादाशु निवर्तस्व मत्वैनं ब्राह्मणं विभो
॥५१॥इत्थं निशम्य देवेशो वाक्यं ब्रह्ममुखाच्च्युतम् ॥
योगेन तद्बलं ज्ञात्वा कपिलस्य तु शंकरम्
॥५२॥जगाम परमं लोकं पूज्यमानस्त्रिविष्टपैः ॥
गते जनार्दने बिल्वो विललाप पुनः पुनः
॥५३॥युद्धं सुदारुणं श्रुत्वा कृष्णस्य कपिलस्य च ॥
कथं जेष्यामि कपिलं कथं मे निर्वृतिर्भवेत् ॥
कस्याहं शरणं यामि को मे त्राता भविष्यति
॥५४॥न जितः कपिलो युद्धे विष्णुना प्रभविष्णुना ॥
मया संस्पर्द्धते नित्यं कथं जेयो भविष्यति
॥५५॥अजेया ब्राह्मणा युद्धे शापानुग्रहकारकाः ॥
भस्म कुर्युर्जगत्सर्वं सदेवा सुरमानुषम्
॥५६॥ब्राह्मं हि परमं तेजो देवैरपि दुरासदम् ॥
एवं विलपतस्तस्य वासवः समुपागतः
॥५७॥विलपंतं कृशं बिल्वं वज्र हस्तमवेक्ष्य सः ॥
ममत्वाकृष्टहृदयः प्रत्युवाच पुरंदरः
॥५८॥अलं शोकेन भूपाल शृणु मे वचनं परम् ॥
यदाहं पीडितो युद्धे शंबरेण दुरात्मना ॥
बलिष्ठेन सगर्वेण तदा पृष्टो मया गुरुः
॥५९॥बृहस्पतिर्महातेजास्तेनोक्तं तु तदा नृप ॥
गच्छ शक्र ममादेशान्महाकालवनं शुभम्
॥६०॥यत्र संति सुदिव्यानि लिंगानि विविधानि च ॥
भुक्तिमुक्तिकराण्येव वांछितार्थप्रदानि च
॥६१॥तेषां मध्ये लिंगमेकमाराधय शचीपते ॥
यस्य दर्शनमात्रेण रणे धृष्टो भविष्यसि ॥
तस्य तद्वचनाद्बिल्व सम्यगाराधना कृता
॥६२॥मया लिंगस्य हर्षेण जितो वै शंबरस्तदा ॥
प्रसिद्धिं तु गता देवः स चेंद्रेश्वरसंज्ञकः
॥६३॥तस्मात्त्वं पश्चिमामाशां गत्वा क्षेत्रस्य तस्य वै ॥
समाराधय यत्नेन लिंगं वरुणपूजितम्
॥६४॥तल्लिंगं त्रिषु लोकेषु त्वन्नाम्ना ख्यातिमेष्यति ॥
कपिलस्त्वत्सखा विप्रो जितोऽस्मीति वदिष्यति ॥
तस्य लिंगस्य माहात्म्यान्मित्रभावं गमिष्यति
॥६५॥इत्युक्त्वा तु गते शक्रे देवलोकं यशस्विनि ॥
पूजयामास भावेन पुष्पैर्दिव्यैः सुगंधिभिः
॥६६॥जगाम बिल्वो भूपालो महाकालवनं शुभम् ॥
ददर्श पश्चिमे भागे लिंगं त्रिदशपूजितम्
॥६७॥मुक्ताफलैश्च रत्नैश्च वासोभिर्भूषणैस्तथा ॥
एतस्मिन्नंतरे चैव कपिलोऽपि समागतः
॥६८॥ददर्श बिल्वं भूपालं पूजयंतं पुनःपुनः ॥
शरीरे तस्य बिल्वस्य मदीयं रूपमुत्तमम् ॥
दृष्ट्वा मत्वा महादेवं जितोऽस्मीति द्विजोऽब्रवीत्
॥६९॥प्रार्थयामि त्वया सख्यमनंतं शिवसंनिधौ ॥
एवमुक्तस्तदा बिल्वः कपिलेन महात्मना
॥७०॥प्रसन्नः प्रांजलिर्भूत्वा कपिलं द्विजसत्तमम् ॥
एवं भवतु भद्रं ते कृतार्थोऽहं महात्मना
॥७१॥सख्यं तदेव भवतु शश्वद्वदसि मन्यसे ॥
एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्
॥७२॥चिकीडतुश्चिरं कालं परं हर्षमुपागतौ ॥
तस्य लिंगस्य माहात्म्याद्भूयो राज्यं चकार सः
॥७३॥स हि मित्रेण भूपालो बिल्वो देवि मुदान्वितः ॥
तदाप्रभृति विख्यातो देवो बिल्वेश्वरः क्षितौ ॥
बिल्वेनाराधितो लोके वांछितार्थफलप्रदः
॥७४॥ये पश्यंति विशालाक्षि देवं बिल्वेश्वरं परम् ॥
ते कृतार्था भविष्यंति सर्वपातकवर्जिताः
॥७५॥येऽनुमोदंति देवस्य दर्शनं पर्वतात्मजे ॥
तेऽपि पापविनिर्मुक्ताः प्रयांति मम मंदिरे
॥७६॥समतीतं भविष्यं च कुलानामयुतं नरः ॥
मम लोकं नयत्याशु तस्य लिंगस्य दर्शनात्
॥७७॥प्रयांति पितरो हृष्टा मम लोके ह्यतंद्रिताः ॥
विमुक्ताः पातकैर्घोरैः कृत्वा लिंगस्य दर्शनम
॥७८॥कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ॥
तत्पापं विलयं याति श्रीबिल्वेश्वरदर्शनात्
॥७९॥या तिथिः श्रूयते देवि कृष्णपक्षे त्रयोदशी ॥
सा प्रोक्ता वल्लभा तस्य सर्वपातकनाशिनी
॥८०॥येऽर्चयंति नरास्तस्यां देवं बिल्वेश्वरं प्रिये ॥
न तेषां पुनरावृत्ति र्घोरसंसारगह्वरे
॥८१॥कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥
तत्क्षालयति देवोऽसौ तिथौ तस्यां समर्चितः
॥८२॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
बिल्वेश्वरस्य देवस्य श्रूयतामुत्तरेश्वरम्
॥८३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये बिल्वेश्वरमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥