मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय १८

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 18

देवमष्टादशं विद्धि ख्यातं कलकलेश्वरम्

श्रीशिव उवाच

देवमष्टादशं विद्धि ख्यातं कलकलेश्वरम् ॥

यस्य दर्शनमात्रेण कलहो नैव जायते

॥१॥

सर्वदुःखोपशमनं सर्वपाप प्रमोचनम् ॥

व्याधिसर्पाग्निचौराणां शमनं वांछितप्रदम्

॥२॥

मम देवि त्वया सार्द्धं कलहः समपद्यत ॥

पुरा विस्तरतो वच्मि शृण्वेकाग्रमनाः शुभे

॥३॥

यदा त्वं हिमशैलस्य दुहिता वरवर्णिनि ॥

तदा विवाहितं कांते यथोक्तविधिना मया

॥४॥

विनिवृत्ते विवाहे च त्वया सार्द्धं वरानने ॥

महाकालीति नाम्ना वै वर्णेनापि च तादृशी

॥५॥

नीलोत्पलनिभप्रख्या नीलकुंचितमूर्द्धजा ॥

अप्येकस्मिंस्तदा त्वं हि मातॄणां मंडपे शुभे ॥

मध्ये समुपविष्टासि कृष्णांजनसमप्रभा

॥६॥

कालि सुंदरि मत्पार्श्वे वल्लभे त्वमुपाविश ॥

शरीरे मम तन्वंगि सिते भास्यसितद्युतिः

॥७॥

भुजंगीवासिता शुभ्रे संश्लिष्टा चंदने तरौ ॥

रजनीवासिते पक्षे दृष्टिदोषहरासि मे

॥८॥

इत्युक्तासि मया देवि गिरिजे चारुहासिनि ॥

तदा प्रोक्तं त्वया वाक्यं मामुद्दिश्य सगद्गदम्

॥९॥

यदा त्वया मदर्थे हि प्रेरिता वेदपारगाः ॥

सप्तर्षयो महाभागाः किंकृते न तदात्थ माम्

॥१०॥

तदा त्वया मदर्थेऽपि प्रार्थितो जनको मम ॥

हिमाद्रिराजो यत्नेन किं काली न तदात्थ माम्

॥११॥

यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद ॥

प्रार्थ्यतां पार्वती शीघ्रं किं काली न तदात्थ माम्

॥१२॥

सत्येयं लौकिकी गाथा न वृथा परिजायते ॥

स्वकृतेन जनः सर्वो जाड्येन परि भूयते

॥१३॥

अवश्यमर्थी प्राप्नोति खंडनां तुंडमुंडनाम् ॥

तपोतिदीर्घचारैर्तयत्त्वां प्रार्थितवत्यहम्

॥१४॥

तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे ॥

नैवास्मि कुटिला रौद्रा विषमा न च धूर्जटे

॥१५॥

नाकुलीना वृथाचारा न दुष्टा न समत्सरा ॥

सविषस्त्वं यतः ख्यातो व्यक्तं दोषा कराश्रयः

॥१६॥

अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा ॥

नाहं मुष्णामि नयने तत्र हंता त्वमेव च

॥१७॥

आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः ॥

मया नोत्पाटिता दंताः कस्यापि निरपत्रप

॥१८॥

पूषादेवो विजानाति द्वादशात्मा दिवाकरः ॥

मूर्ध्नि शूलं तव यतः स्वैदोषैर्मामधिक्षिपः

॥१९॥

यत्तु मामाह कृष्णेति महाकालेति विश्रुतः ॥

इत्यथापि प्रवादोऽयं प्रवरः ख्यामि ते हर

॥२०॥

निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षंतुमर्हसि ॥

विरूपो यावदादर्शे नात्मनः पश्यते मुखम्

॥२१॥

मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम् ॥

यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते

॥२२॥

तदेतरं विजानाति ह्यात्मानं नेतरं जनम् ॥

सत्यधर्मच्युतात्पुंसः क्षुद्रादाशीविषादिव

॥२३॥

स नास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥

इत्युक्तोऽहं त्वया देवि मया कोलाहलः कृतः

॥२४॥

अनात्मज्ञासि गिरिजे मृडे पंडितमानिनि ॥

सत्यं सर्वैरवयवैः स्तुतोऽपि सदृशः पितुः

॥२५॥

काठिन्यं कष्टमभ्येति धातुभ्यो बहुघातिता ॥

कुटिलत्वं च सर्वेभ्योऽसेव्यत्वं च हिमादिव

॥२६॥

इत्युक्ताऽसि मया देवि पुनः प्रोक्तं त्वया वचः ॥

तथापि दुष्टसंसर्गात्संक्रांतं सर्वमेव हि

॥२७॥

व्यालेभ्योऽनेकजिह्वत्वं भस्मतः स्नेहवर्जनम् ॥

हृत्कालुष्यं शशांकाद्वै दुर्बोधत्वं वृषादपि

॥२८॥

श्मशानवासाद्भीरुत्वं नग्नत्वं च न लज्जया ॥

निर्घृणत्वं कपालाच्च दया ते विगता चिरम्

॥२९॥

एवं तदाभवद्रौद्रः कलहो भयकृच्छुभे ॥

एवं प्रवृत्ते तु तदा कंपितं भुवनत्रयम्

॥३०॥

भीताश्च देवगंधर्वा यक्षगंधर्वराक्षसाः ॥

तस्मात्कोलाहलो भूमिं भित्त्वा लिंगमभूत्तदा

॥३१॥

लिंगमध्यात्समुत्पन्ना वाणी सुखकरी शुभा ॥

आश्वासयंती देवान्वै त्रैलोक्यं सचराचरम्

॥३२॥

नामास्य चक्रुर्देवेशास्तदा कलकलेश्वरम् ॥

स्वरनामासौ ततोऽभूच्छङ्करो भुवि विश्रुतः

॥३३॥

यस्तमर्चयते भक्त्या देवं कलकलेश्वरम् ॥

न राक्षसाः पिशाचाश्च न भूता न विनायकाः ॥

विप्रं कुर्युर्वरारोहे कलहो न भवेद्गृहे

॥३४॥

सुशीला गृहिणी तस्य सुरूपा सुभगा प्रिये ॥

बहुपुत्रा बहुधना जायते दर्शनात्तथा

॥३५॥

ये पश्यंति चतुर्द्दश्यां देवं कलकलेश्वरम् ॥

न दुःखं न जराव्याधिर्नाकालमरणं तथा

॥३६॥

न च शत्रुभयं तेषां जायते गिरिपुत्रके ॥

लोकोऽक्षयो भवेद्देवि यावदिंद्राश्चतुर्द्दश

॥३७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

यस्य श्रवणमात्रेण क्षेममत्र परत्र च

॥३८॥

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कलकलेश्वरमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥