मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ८२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 82

कायावरोहणेश्वरमाहात्म्यवर्णनम्

महादेव उवाच

कायावरोहणस्यापि उत्पत्तिं शृणु पार्वति ॥

यस्याः श्रवणमात्रेण न नरः कायवान्भवेत्

॥१॥

ब्रह्मणः सृष्टिकामस्य मनोवर्वैस्वतेंऽतरे ॥

दक्षस्त्व जायतांगुष्ठाद्दक्षिणात्स प्रजापतिः

॥२॥

वामादजायतांगुष्ठाद्भार्या तस्य महात्मनः ॥

तस्यां पञ्चाशतं कन्याः स एवाजनयत्प्रभुः

॥३॥

ताः सर्वाश्चानवद्यांगीः कन्याः कमललोचनाः ॥

पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः

॥४॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ॥

दिव्येन विधिना देवि सप्तविंशतिमिंदवे

॥५॥

रोहिणी वल्लभा जाता तस्य चन्द्रस्य सर्वदा ॥

षड्विंशतिकृते चन्द्रः शप्तो दक्षेण पार्वति

॥६॥

चंद्रेणापि तथा शप्तो दक्षः प्राचेतसः कृतः ॥

अयजत्सोऽश्वमेधेन भूत्वा प्राचेतसात्मजः

॥७॥

नामंत्रितोऽहं मोहेन दक्षेण पर्वतात्मजे ॥

तत्र देवनिकायानां यज्ञभागानशेषतः

॥८॥

हव्यवाहस्तदा युक्तो वहन्मंत्रैः समीरितः ॥

त्वया दृष्टो विशालाक्षि निरालंबेंऽबरे स्थितः

॥९॥

स्मरंत्या पूर्ववैरं तु विज्ञप्तोऽहं त्वया प्रिये ॥

त्वं देवः सर्वदेवानां गतिश्च शरणं तथा

॥१०॥

त्वं यज्ञस्त्वं वषट्कारो होताऽध्वर्युस्त्वमेव च ॥

त्वया विना कथं यज्ञो वर्त्तते सर्वदेवप

॥११॥

देवानां भागधेयानि वहत्यग्निरयं भयात् ॥

सगर्वश्चावलिप्तश्च दक्षः प्राचेतसः किल

॥१२॥

अनुस्मरन्पूर्ववैरं नैव दास्यत्यशासितः ॥

कायहीनश्च कर्त्तव्यो दक्षो वह्निस्तथैव च

॥१३॥

ये च यज्ञे समानीता देवा दक्षस्य शंकर ॥

ते सर्वे कायरहिताः कार्या स्त्रिपुरसूदन

॥१४॥

एवमुक्ते त्वया देवि मयाप्युक्तं वरानने ॥

पूर्वजन्मनि दक्षोऽयं पिता तव शुचिस्मिते

॥१५॥

वह्निश्चादेशकारी च देवाः क्रीडनकाः प्रिये ॥

मदीयं वचनं श्रुत्वा कृतः क्रोधस्त्वया प्रिये

॥१६॥

ललाटे भ्रुकुटीं कृत्वा प्रोच्छ्वसंत्या पुनःपुनः ॥

क्रोधात्करेण नासाग्रं मर्दितं बहुशस्तदा

॥१७॥

तस्मिन्संमर्द्यमाने तु नासाग्रे पर्वतात्मजे ॥

जाता स्त्री भ्रुकुटीवक्रा चतुर्दंष्ट्रा त्रिलोचना

॥१८॥

बद्धगोधांगुलित्रा च कवचाबद्धमेखला ॥

सखड्गा सधनुष्का च सतूणा सपताकिनी

॥१९॥

सहस्रास्या शतभुजा सहस्रचरणोदरी ॥

प्रतिकूलैः पदैर्देवि कंपयंती तथा भुवम्

॥२०॥

कृतं नाम त्वया देवि तां दृष्ट्वा च तमोमयीम् ॥

भद्रकाली च माया च सर्वलोकनमस्कृते

॥२१॥

मया सृष्टस्तु पुरुषस्तादृशो लोमहर्षणः ॥

स चापि प्रांजलिर्भूत्वा मामुवाच पुनःपुनः ॥

आज्ञापय सुरेशान किं करोमि जगत्प्रभो

॥२२॥

ततो देवि मयाज्ञप्तो भावं ज्ञात्वा त्वदीयकम् ॥

कृत्वा नाम मनोज्ञं तु वीरभद्र इति स्मृतः

॥२३॥

वीरभद्र ममादेशाद्भद्रकाल्या सहानया ॥

प्राचेतसात्मजं दक्षं सगर्वं सहदैवतम्

॥२४॥

विध्वंसय गणाध्यक्ष सयज्ञं सपरिग्रहम् ॥

दत्तं मया महत्सैन्यमसंख्येयगुणस्य च

॥२५॥

त्वयापि भद्रकाल्यास्तु दत्तं सैन्यं भयावहम् ॥

कपालकर्त्रिकाहस्तं मातॄणां गणमक्षयम्

॥२६॥

ततस्तौ तेन सैन्येन महतातिसमावृतौ ॥

जग्मतुस्तत्र यत्रास्ते दक्षः प्राचेतसो यजन्

॥२७॥

देवैः परिवृतो देवि सदस्यैर्ब्राह्मणैः सह ॥

ततो देवाः सुरुद्धास्ते तेन सैन्येन पार्वति ॥

विश्रब्धा मंत्रपूतं तु पिबंतः सोममध्वरे

॥२८॥

त्रिनेत्रेण त्रिशूलेन त्रिदशाधिप ईश्वरः ॥

त्रा सितः सहसा शक्रो गणेनाध्वरमध्यगः

॥२९॥

यमाख्येन गणेनैव यमकल्पप्रभेण च ॥

सोमपाने प्रसक्तश्च यमश्चाकर्षितोऽध्वरे

॥३०॥

पाशेन वरुणो बद्धः पाशेन गणपेन तु ॥

पश्चिमाशाधिपो वीरः प्राणेन परमेश्वरि

॥३१॥

ताडितोऽनिल एवाथ उत्तरे नरवाहनः ॥

उत्तराशाधिपो देवि निधानैः सहितोऽध्वरे ॥

वीरभद्रनियुक्तास्ते चक्रुर्युद्धं सुदारुणम्

॥३२॥

अथ युद्धं चकारो च्चैर्भद्रकाली भयावहा ॥

विकराली महाकाली कालिका कलशोदरी

॥३३॥

प्रज्वालज्वलनाकारा शुष्कमांसातिभैरवा ॥

एताश्चान्याश्च शतशो नरमालाविभूषणाः

॥३४॥

कपालकर्त्रिकाहस्ता जघ्नुर्देवगणास्तदा ॥

इति मातृगणं क्रुद्धं मर्दयंतं सुरास्तदा ॥

दृष्ट्वाभ्युपगता देवास्तुषिता युद्धलालसा

॥३५॥

केचिच्च चिक्षिपुः शक्तीः केचित्प्रासांस्तथापरे ॥

केचिच्च तोमरैस्तीक्ष्णैः केचित्खङ्गैश्च पट्टिशैः

॥३६॥

अर्द्दितो मातृसंघस्तु पीडिताः प्रमथा यदा ॥

भद्रकाली तदा क्रुद्धा गदया शरवृष्टिभिः

॥३७॥

खड्गादिभिः षडर्कांशुः पीडयामास संयुगे ॥

भगस्य नेत्रे पूष्णस्तु दशनाः सूदिता मुखात्

॥३८॥

करान्दिनकरस्यैव चरणौ भास्करस्य च ॥

मुशलेन हता येऽष्टौ वसवो रणकोविदाः

॥३९॥

वमन्तो रुधिरं तेऽपि नष्टा जर्जर मस्तकाः ॥

विदेहाश्च कृता युद्धे तुषिता रणगर्विताः

॥४०॥

बद्धः प्राचेतसो दक्षः पाशेन सुदृढेन च ॥

शेषाश्च त्रिदशा भीता ब्रह्माणं शरणं गताः

॥४१॥

वृत्तांतः कथितः सर्वो विस्तरेण यथा तथा ॥

आद्या ये तुषिता देवा विदेहाश्चैव ते कृताः

॥४२॥

नष्टाश्च वसवो देवाः पीडिता भास्करा रणे ॥

न ज्ञायते सहस्राक्षो न यमो न धनेश्वरः ॥

वरुणो यादसां नाथः क्व गतः परमेश्वरः

॥४३॥

भद्रकाल्या हतं सर्वं वीरभद्रगणेन च ॥

भग्नश्च यज्ञयूपो वै विध्वस्तं कलशं तदा

॥४४॥

प्रदीपिता महाशाला भग्नं वै यज्ञतोरणम् ॥

तेषां तु वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥

आजगाम कृपाविष्टो यत्राहं मन्दरे स्थितः

॥४५॥

स्तुतिं कृत्वा मदीयां तु वाक्यमुक्तमिदं तदा ॥

आद्या ये तुषिता देवा विदेहाश्चैव ते कृताः

॥४६॥

भद्रकाल्या महादेव वसवो जर्जरीकृताः ॥

पीडिता भास्करा युद्धे शेषा नष्टा दिशो गताः

॥४७॥

कायावरोहणं देव तुषितानां कथं भवेत् ॥

ब्रह्मणो वचनं श्रुत्वा मया प्रोक्तं वरानने

॥४८॥

महाकालवने क्षेत्रे गच्छन्तु तुषितास्त्वमी ॥

लकुटीशो गतो यत्र कायावरोहणाद्ग्र हम्

॥४९॥

ब्राह्मणाश्च ममादेशाच्चतुःशिष्यैः समन्विताः ॥

द्वापरे समतिक्रांते प्राप्ते कलियुगे तथा

॥५०॥

तत्र कायमनुप्राप्ता मम शिष्या ममो पमाः ॥

अवसंत क्षितौ धन्या रक्षणार्थं द्विजन्मनाम्

॥५१॥

क्षेत्रस्य दक्षिणे तस्य विद्यते लिंगमुत्तमम् ॥

सर्वसंपत्करं दिव्यं सिद्धानां काय दायकम्

॥५२॥

प्रसादात्तस्य लिंगस्य कायान्प्राप्स्यंत्यमी सुराः ॥

मदीयं वचनं श्रुत्वा गतास्ते तुषिताः प्रिये

॥५३॥

मुदिता ब्रह्मणा सार्द्धं यत्र तल्लिंगमुत्तमम् ॥

प्रसादात्तस्य लिंगस्य प्राप्तं कायमनुत्तमम्

॥५४॥

पुनस्ते तादृशा जातास्तुषिता यादृशाऽभवन् ॥

अतो देवैः कृतं नाम कायावरोहणेश्वरः ॥

समीहितप्रदो नित्यं ख्यातो देवो भविष्यति

॥५५॥

ये गत्वा दक्षिणामाशां देवं कायावरोहणम् ॥

पश्यन्ति परया भक्त्या यमस्तेषां पिता भवेत्

॥५६॥

जन्मकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥

तत्सर्वं नाशमायाति दर्शनादेव नान्यथा

॥५७॥

स्वकर्मणा गता ये च नरके पितरो गणाः ॥

दर्शनात्तस्य लिंगस्य तेषां मुक्तिर्भविष्यति

॥५८॥

ये पश्यंति प्रसंगेन देवं कायारोहणम् ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

॥५९॥

स्पर्शनात्तस्य लिंगस्य पापिनोपि हि ये नराः ॥

ते यास्यंति परं स्थानं सर्वपापविवर्जितम्

॥६०॥

शाठ्येन पूजितो देवः कायावरोहणेश्वरः ॥

ददाति राज्यं भोगांश्च स्वर्गलोकं सनातनम्

॥६१॥

द्वादश्यां ये प्रपश्यंति स्नात्वा कायावरोहणम् ॥

ते भित्त्वा ब्रह्मसदनं यास्यन्ति परमां गतिम्

॥६२॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

कायावरोहणेशस्य बिल्वेश्वरमथो शृणु

॥६३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे कायावरोहणेश्वरमाहात्म्यवर्ण नंनाम द्वयशीतितमोऽध्यायः ॥ ८२ ॥