मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६३

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 63

धनुःसाहस्रमाहात्म्यवर्णनम्

श्रीहर उवाच

धनुःसाहस्रनामानमीश्वरं शृणु पार्वति ॥

त्रिषष्टिसंख्यकं दिव्यं दर्शनात्पापनाशनम्

॥१॥

विदूरथोनाम नृपः ख्यातकीर्त्तिरभूद्भुवि ॥

तस्य पुत्रद्वयं जातं सुनीतिः .सुमतिस्तथा

॥२॥

एकदा तु वनं यातो मृगयां स विदूरथः ॥

ददर्श गर्त्तं सुमहद्भूमेर्मुखमिवोद्गतम्

॥३॥

तं दृष्ट्वा चिंतयामास किमेतदिति पार्थिवः ॥

पातालविवरं मन्ये वडवानलसंनिभम्

॥४॥

चिंतयन्निव तत्रासौ ददर्श विजने वने ॥

ब्राह्मणं सुव्रतं नाम तपस्विनमकल्मषम्

॥५॥

स तं पप्रच्छ नृपतिः किमेतदिति भो द्विज

॥६॥

ब्राह्मण उवाच

दानवः सुमहावीर्यो वसत्युग्रो रसातले ॥

कुजंभोनाम विख्यातो भिनत्ति वसुधामिमाम्

॥७॥

तमजित्वा कथं राज्यं भोक्ष्यसे वसुधाधिप ॥

तेन विध्वंसिता विप्रा रात्रौ निःसृत्य पार्थिव

॥८॥

उपद्रुतास्तथा देशा ध्वस्ताश्चैव तथाश्रमाः ॥

आप्याययति दैत्योऽयं सबली मुशलायुधः

॥९॥

यदि त्वं घातयस्येनं पातालांतरगोचरम् ॥

ततः समस्तवसुधापतिरेव भविष्यसि

॥१०॥

इति विप्र वचः श्रुत्वा मंत्रयामास पार्थिवः ॥

मंत्रिभिः सहितोऽमोघं श्रुत्वा मुशलमद्रिजे

॥११॥

तं मंत्रं क्रियमाणं तु सूनुभ्यां सह मंत्रिभिः ॥

तत्पार्श्ववर्त्तिनी कन्या शुश्रावाथ मुदावती

॥१२॥

ततः कतिपयाहे तु तां कन्यां जलजेक्षणाम् ॥

जहारोपवनाद्दैत्यः कुजंभः स्वसखीवृताम्

॥१३॥

एतच्छ्रुत्वा महीपालः क्रोधपर्याकुलेक्षणः ॥

उवाच पुत्रौ जानेऽहं सकुजंभो महासुरः

॥१४॥

दृष्ट्वा भूमौ पुरा गत्तें तत्र संशयिते मयि ॥

कथितो द्विजमुख्येन मया पृष्टेन पुत्रकौ

॥१५॥

स हन्यतां सोऽपहर्त्ता मुदावत्याः सुदुर्मतिः ॥

प्रस्थितौ नृपभक्त्याथ स्वसैन्यपरिवारितौ

॥१६॥

तौ सुतौ तत्र संप्राप्तौ पाताले पितृशासनात् ॥

युयुधाते कुजंभेन स्वशक्त्या सेनया वृतौ

॥१७॥

ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ॥

बाणैश्चिरतरं युद्धं तेषामासीत्सदारुणम्

॥१८॥

ततो मायाबलवता तेन दैत्येन तत्क्षणात् ॥

अमोघेनाद्वितीयेन मुशलेन वरानने

॥१९॥

हत सैन्यौ रणे बद्धौ राजपुत्रौ महाबलौ

॥२०॥

ततः श्रुत्वा महीपालो विवर्णवदनोऽभवत् ॥

बद्धपुत्रः परामार्त्तिं जगाम गिरिपुत्रिके

॥२१॥

रुरोद बहुधात्यर्थं पुत्रस्नेहेन पार्थिवः ॥

ततो विलपतस्तस्य मार्कंडेयो महामुनिः ॥

अनेकसृष्टिसंहारदृष्टकार्यपरावरः

॥२२॥

उदितादित्यसंकाशः सप्तकल्पानुगो वशी ॥

आजगाम नृपाभ्याशे विलपंतं ददर्श सः ॥

राजानं कथयामास त्रिकालज्ञो महामुनिः

॥२३॥

मा शुचस्त्वं महीपाल क्षत्त्रियोऽसि दृढव्रतः ॥

क्व शोक क्व महीपालो दुर्जयो लोकपालवत्

॥२४॥

शोकं कुपुरुषाचीर्णं त्यज त्वं राजसत्तम ॥

उद्यमं कुरु राजेंद्र कुजंभं घातयिष्यसि

॥२५॥

नात्युच्चं मेरुशिखरं नातिनीचं रसातलम् ॥

व्यवसायः सखा यस्य नास्ति दूरे महोदधिः

॥२६॥

महाकालवने लिंगमाराधय समाहितः ॥

रूपेश्वरस्य देवस्य पार्श्वे दक्षिणतः स्थितम्

॥२७॥

धनुःसाहस्रतुल्यं तु मुशलस्य निवारणम् ॥

धनुः प्राप्स्यसि राजेंद्र कुजंभं विनिपातय

॥२८॥

धनुःसाहस्रहस्तैस्तु रक्षितं योधसत्तमैः ॥

लिंगं देवासुरैर्युद्धे सहस्राक्षेण सेवितम् ॥

इंद्रेण च धनुर्लब्धं जंभो वै येन पातितः

॥२९॥

तस्य तद्वचनं श्रुत्वा स राजाथ विदूरथः ॥

जगाम त्वरितो देवि महाकालवनं शुभम्

॥३०॥

ददर्श तत्र तल्लिंगं पूजयामास भक्तितः ॥

तस्य तुष्टस्तदा देवो ददौ दिव्यं धनुस्तदा

॥३१॥

धनुःसाहस्रतुल्यं च मुशलस्य निवारणम् ॥

धनुर्लब्ध्वा तदा राजा बद्धगोधांगुलित्रवान् ॥

जगाम धीरः पातालं तेन गर्तेन सत्वरम्

॥३२॥

ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवस्तदा ॥

येन पातालमखिलमासीदापूरितांतरम्

॥३३॥

ततो ज्यास्वनमाकर्ण्य कुजंभो दानवेश्वरः ॥

आजगामातिकोपेन स्वसैन्यपरिवारितः

॥३४॥

ततो युद्धमभूत्तस्य सह राज्ञा वरानने ॥

दिनानि त्रीणि स यदा योधितस्तेन दानवः

॥३५॥

ततः कोपपरीतात्मा मुशलायाभ्यधावत ॥

गंधैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति

॥३६॥

यावद्गृह्णाति मुशलं तावत्सा च मुदावती ॥

पस्पर्श चंदनव्याजैरनेकैश्च पुनःपुनः

॥३७॥

ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ॥

तदा मुसलपातास्ते धनुषा निष्प्रभीकृताः

॥३८॥

धनुर्ज्याघातशब्देन पतिते भूतले तदा ॥

गतो वैवस्वतं लोकं कुजंभोनाम दानवः

॥३९॥

ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः ॥

जगुर्गंधर्वपतयो देववाद्यानि सस्वनुः

॥४०॥

स चापि राजा तं हत्वा पुत्रौ लब्ध्वा सुतां तदा ॥

मुदावतीं मुदा युक्तो हर्षगद्गदनिर्भरः

॥४१॥

पुत्राभ्यां सहितो देवि सुसंपूर्णमनोरथः ॥

सांतःपुरपरीवारः पुनरायाद्वरानने

॥४२॥

महाकालवने रम्ये यत्र तल्लिंगमुत्तमम् ॥

पूजयामास रत्नैश्च वस्त्रैराभरणैस्तथा

॥४३॥

ततः स पूजितो देवैः शक्रेण च पुनःपुनः ॥

अस्य लिंगस्य माहात्म्याद्धनुः प्राप्तं नृपेण ३

॥४४॥

कुजंभोऽपि हतो दैत्यो देवविद्वेषकारकः ॥

धनुःसाहस्रनामायमतः ख्यातिं गमिष्यति

॥४५॥

भक्त्या ये पूजयिष्यंति धनुःसाहस्रमीश्वरम् ॥

यास्यन्ति शत्रवस्तेषां क्षयं नैवात्र संशयः

॥४६॥

अर्चिते देवदेवेशे धनुःसाहस्रिके शिवे ॥

अर्चिताः सर्वदेवाः स्युर्वरदाश्च न संशयः

॥४७॥

प्रातर्मध्येऽपराह्णे च धनुःसाहस्रकं शिवम् ॥

ये नमन्ति नरा नित्यं न ते नरकभोगिनः

॥४८॥

तीर्थानां च यथा गंगा रक्षिता योधसत्तमैः ॥

तथायं रक्षको देवो नाम्ना धनुःसहस्रकः

॥४९॥

तत्र गंगादितीर्थानि विद्यन्ते विविधानि च ॥

सुरहस्यातिपुण्यानि सद्यः पापहराणि च

॥५०॥

तेषां फलं विनिर्दिष्टं ये पश्यन्ति तु भक्तितः ॥

धनुःसाहस्रकं नाम सदा शत्रुक्षयंकरम्

॥५१॥

एष ते कथितो देवि प्रभावः पापना शनः ॥

धनुःसाहस्रदेवस्य देवं पशुपतिं शृणु

॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिङ्गमाहात्म्ये धनुःसाहस्रमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥