मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 52

ॐकारेश्वरमाहात्म्यवर्णनम्

श्रीविश्वेश्वर उवाच

द्व्यधिकं देवि जानीहि पंचाशत्तममीश्वरम् ॥

ओंकारेश्वर इत्याख्या यस्यास्ति भुवनत्रये

॥१॥

प्राकृते कल्पसंज्ञे तु प्रथमे प्रथमं मया ॥

वक्त्रादुत्पादितो देवि पुरुषः कपिलाकृतिः

॥२॥

ततः स पुरुषो दिव्यः किं करोमीत्युपस्थितः ॥

विभजात्मानमित्युक्तो मयांतर्द्धानगोऽभवत्

॥३॥

निर्वाणस्येव दीपस्य गतिस्तस्य न लक्षिता ॥

ततस्तस्याभवच्चिंता कथमात्मा विभज्यते

॥४॥

एवं चिंतयतस्तस्य चतुर्मित्योत्थितस्ततः ॥

त्रिवर्णस्वररूपी च चतुर्वर्गफलप्रदः

॥५॥

ऋग्यजुःसामनामा च ब्रह्मविष्णुशिवात्मकः ॥

व्याप्नुवन्सकलाँल्लोकान्प्रभावैः पृथुभिस्तदा

॥६॥

ओंकार इति तस्याख्या मया दता प्रसादतः ॥

तदोक्ताभिरुदाराभिर्वाणीभिः समलंकृतः

॥७॥

हृदयात्तस्य देवस्य वषट्कारः समुत्थितः ॥

छंदसां प्रवरा देवी चतुर्विंशाक्षरा परा

॥८॥

षट्कुक्षिः सा त्रिपादा च पंचशीर्षोपलक्षिता ॥

समीपवर्त्तिनी देवी पार्श्वे तत्र व्यवस्थिता

॥९॥

गायत्री मधुराभाषा सावित्री लोकविश्रुता ॥

स चोंकारो मया प्रोक्तो गायत्र्या सह पार्वति ॥

सृष्टिं कुरु ममादेशाद्विचित्रामनया सह

॥१०॥

इत्युक्तस्त्रिशिखो भूत्वा हिरण्यसदृशाकृतिः ॥

सृष्टिमुत्पादयामास स्वशरीरान्ममाज्ञया

॥११॥

पूर्वं देवगणाश्चैव त्रयस्त्रिंशच्च देवताः ॥

मनुष्या ऋषयश्चैव वेदप्रामाण्यतः कृताः

॥१२॥

तेषां देहे प्रविष्टानां प्रादुर्भावः पुनर्भवेत् ॥

यथा सूर्यस्य सततमुदयास्तमनं भवेत्

॥१३॥

संहृत्योंकारमखिलान्सदेवासुरपन्नगान् ॥

कृतात्मगर्भे भगवानोंकारो जगतः प्रभुः

॥१४॥

ससर्ज सर्वभूतानि कल्पांते पर्वतात्मजे ॥

अव्यक्तः शाश्वतश्चैव तस्य सर्वमिदं जगत्

॥१५॥

कर्त्ता चैव विकर्त्ता च संहर्ता च महांस्तु यः ॥

ओंकारपूर्वका वेदा यज्ञाश्चोंकारपूर्वकाः

॥१६॥

ओंकारपूर्वकं ज्ञानं तपश्चोंकारपूर्वकम् ॥

स्वयंभूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः

॥१७॥

स वायुरिति विज्ञेयः सर्वज्ञः स प्रजाकरः ॥

विश्वे देवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ

॥१८॥

प्रजानां पतयश्चैव सप्त चैव महर्षयः ॥

वसवोऽप्सरसश्चैव गंधर्वाश्चैव राक्षसाः

॥१९॥

दैत्याः पिशाचा रक्षांसि भूतानि विविधानि च ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ॥

सर्वे चतुष्पदाश्चैव तिर्यग्योनिगतास्तदा

॥२०॥

जंगमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञकम् ॥

कृत्वा सर्वमशेषं च ममांतिकमुपागतः

॥२१॥

प्रणम्य प्रयतो भूत्वा वचनं चेदमब्रवीत् ॥

कृता सृष्टिर्मया देव त्वत्प्रसादान्महेश्वर

॥२२॥

देहि मे परमं स्थानं यथा कीर्त्तिर्ध्रुवा भवेत् ॥

ओंकारस्य वचः श्रुत्वा मया प्रोक्तं वरानने

॥२३॥

ममाभीष्टकरं स्थानं नित्यमव्ययमक्षयम् ॥

महाकालवनं दिव्यं सर्वसंपत्करं शुभम्

॥२४॥

तत्र ते भविता कीर्त्तिः शाश्वती नात्र संशयः ॥

शूलेश्वरस्य देवस्य पूर्वभागे व्यव स्थितम्

॥२५॥

त्रिकल्पप्रभवं लिंगं त्वन्नाम्ना ख्यातिमेष्यति ॥

ओंकारेश्वर इत्याख्या भविष्यति जगत्त्रये

॥२६॥

इत्युक्तो हि मया देवि ओंकारो हृष्टमानसः ॥

ददर्श तत्र तल्लिंगं तस्मिँल्लिंगे लयं गतः

॥२७॥

ततः प्रभृति वेदेषु ओंकारः क्रियते द्विजैः ॥

पुण्यार्थं मंगलार्थं च प्रथमं सर्ववस्तुषु

॥२८॥

लयंगतो यदोंकारस्तदाप्रभृति पार्वति ॥

मयोच्यमानं लिंगस्य प्रभावातिशयं शृणु

॥२९॥

यद्युगादिसहस्रेषु व्यतीपातशतेषु च ॥

अयनानां सहस्रेषु यत्पुण्यं समुदाहृतम् ॥

तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात्

॥३०॥

चतुर्ष्वपि च वेदेषु समधीतेषु यत्फलम् ॥

ततोऽधिकं फलं प्रोक्तमोंकारेश्वरदर्शनात्

॥३१॥

ब्रह्मचर्येण यत्पुण्यं यावज्जीवं कृतेन च ॥

तत्पुण्यमधिकं प्रोक्तमोंकारेश्वरदर्शनात्

॥३२॥

करीषसाधने पुण्यं यच्च पुण्यमनाशके ॥

तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात्

॥३३॥

पूजायां यत्फलं प्रोक्तं तस्य संख्या न विद्यते

॥३४॥

किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः ॥

ॐकारदर्शनादेव तत्फलं लभते यतः

॥३५॥

पूजनात्स्पर्शनाद्वापि कीर्त्तनाच्छ्रवणात्तथा ॥

ॐकारेश्वरदेवस्य नराः स्युर्मुक्तिभाजनाः

॥३६॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

ॐकारेश्वरदेवस्य शृणु विश्वेश्वरं परम्

॥३७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ॐकारेश्वरमाहात्म्यवर्णनंनाम द्विपंचाशत्तमोऽध्यायः ॥ ५२ ॥