मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३७

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 37

शिवेश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

सप्तत्रिंशत्तमं विद्धि शिवेश्वरमनंतकम् ॥

यस्य दर्शनमात्रेण जायंते सर्वसंपदः

॥१॥

राजा रिपुंजयोनाम ब्रह्मकल्पे पुराभवत् ॥

महाकालवने रम्ये प्रजापालनतत्परः

॥२॥

देवपूजां व्रतं दानं ध्यानं स्वाध्यायसत्क्रियाम् ॥

प्रजापालनकं कृत्वा न स जानाति किंचन

॥३॥

स प्रजाः पालयामास पुत्रवत्परिपालिताः ॥

प्रजास्ताः सुखसंवृद्धा जरामृत्युविवर्जिताः

॥४॥

पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः ॥

तस्यैव तेजसा व्याप्तं महाकालपुरं प्रिये

॥५॥

एतस्मिन्नंतरे पृथ्वीं तस्मिञ्छासति पार्वति ॥

महाकालवनं देवि स्वपुरं चिह्नितं मया ॥

विना चोज्जयिनीं गंतुं न रतिं प्राप कुत्रचित्

॥६॥

तदा मया गणेशस्तु शिवसंज्ञो गणाग्रणीः ॥

चिंतितस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह

॥७॥

मयाप्युक्तो गणेशो हि गच्छ पुत्र मम प्रियम् ॥

महाकालपुरं व्याप्तं राजा रिपुञ्जयेन हि

॥८॥

इत्युक्तः स मया देवि तथेत्युक्ता कृतांजलिः ॥

गतोऽसौ मानुषे लोके ममाज्ञाहर्षिताननः

॥९॥

गते शिवगणे देवि संतुष्टोऽहं शुचिस्मिते ॥

युक्तिज्ञानवृतो दक्षः प्रभोर्भृत्यो हि दुर्लभः

॥१०॥

ततः स भिक्षु रूपेण बह्वोषधिपरिग्रहः ॥

गृहीत्वा दुंदुभिं स्कंधे वचनं चेदमब्रवीत्

॥११॥

कश्च भूतविषग्रस्तो नानादोषैः समाश्रितः ॥

कस्य को व्याधिरत्युग्रो यमहं प्रशमं नये

॥१२॥

कोऽपुत्रः पुत्रवानस्तु मन्मंत्रबलमाश्रितः ॥

वैद्योऽस्मि सर्वयुक्तिज्ञः सर्वकामप्रदायकः

॥१३॥

तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः ॥

सवृद्धबालनारीको जनस्तमभिजग्मिवान्

॥१४॥

तेषां स नाशयामास व्याधिं दुर्जयमप्यति ॥

ते च तस्मै सुमहतीं पूजां चक्रुः सुहर्षिताः ॥

हेमरत्नांबरधनैर्धान्यग्रामपुरादिभिः

॥१५॥

एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश ॥

नृपतेरंतरप्रेक्षी न चांतर मवाप सः

॥१६॥

अहोऽतिदुष्करो राजा अहो लोकपरायणः ॥

अहो तेजोनिधिर्वीरो दुर्जयोऽसौ महामतिः

॥१७॥

एवं स चिंतयंस्तत्र भिक्षु रूपी शिवो गणः ॥

जीर्णोद्यानलताजालगहने संवृतः स्थितः

॥१८॥

अत्रांतरे तु नृपतेस्तस्य लोकव्रतस्य तु ॥

महिषी निर्जरा राज्ञः प्राणेभ्योपि गरीयसी

॥१९॥

रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी ॥

सपत्नीबहुला देवी श्रुत्वा भिक्षुं समाश्रिता

॥२०॥

सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम् ॥

स्वां सखीं प्रेषयामास सुनंदांनाम भामिनी

॥२१॥

भिक्षोरायतने गुप्तमंतःपुरमतंद्रिता ॥

तया चासादितो भिक्षुर्विचिंत्य नगरं तदा ॥

उवाच चिंतापरमं भिक्षुं भिक्षासमन्वितम्

॥२२॥

प्रणम्य प्रांजलिर्भूत्वा कार्यार्थं विगतव्यथा ॥

भगवन्महिषी राज्ञः प्राणेभ्योऽपि गरीयसी ॥

वंध्या पुत्रार्थिनी देवी गुप्तं त्वां द्रष्टुमिच्छति

॥२३॥

भवान्कृपाकरः प्रायः प्रजानामीहितप्रदः ॥

एवं श्रुत्वा शिवगणो लब्ध्वा रन्ध्र मुवाच ह

॥२४॥

भिक्षुरुवाच

भद्रे केयं तव मतिर्विपरीतप्रलापिनी ॥

अविज्ञातो नरपतेर्गृहमेहीति भाषसे ॥

अविज्ञातः पुरे दृष्टः साहसी पुरुषो भवेत्

॥२५॥

एवं मत्वा व्रज क्षिप्रं स्वमेवांतःपुरं शुभे ॥

नाहं तत्रागमिष्यामि यावन्न नृपतेर्वचः

॥२६॥

सा तु तस्य वचः श्रुत्वा भिक्षोः क्षुभितमानसा ॥

जगामान्तःपुरं तूर्णं देव्यै तच्च न्यवेदयत्

॥२७॥

सखीवचस्तु सा श्रुत्वा देवी दीना उवाच ताम् ॥

सुनन्दे क उपायोस्ति राजा येन प्रवर्त्तते ॥

भिक्षोरानयने क्षिप्रं यावन्नासौ व्रजेत्क्वचित्

॥२८॥

उवाच सा तां युक्त्यैव सुनंदा युक्तभाषिणी ॥

त्वं तस्य वल्लभा राज्ञः प्राणेभ्योपि गरीयसी

॥२९॥

तस्मादस्वस्थचित्तत्वं राज्ञः स्वं संप्रदर्शय ॥

हेतुना तेन राजा च वाक्यं तव करिष्यति

॥३०॥

एतस्मिन्नेव काले तु देव्या दर्शनलालसः ॥

जगामांतःपुरं राजा प्रियां दीनां ददर्श ह ॥

तामपृच्छत्ततो राजा स्नेहार्द्रीकृतमानसः

॥३१॥

राजोवाच

किमिदं देवि ते रूपं विमनस्केव भाषसे ॥

भग्नासि केन दुःखेन कस्यापकृतमीदृशम्

॥३२॥

नृपस्य वचनं श्रुत्वा राज्ञी वचनमब्रवीत् ॥

न पुत्रा नृप मे संति तेन मे नास्ति निर्वृतिः

॥३३॥

क्रीडनं पीडनायैव तेषां ये पुत्रवर्जिताः ॥

अपुत्रा जगतो दीना दुःखिताः पुत्रवर्जिताः ॥

अपुत्रे च गतिर्नास्ति सुतापुत्रविवर्जिते

॥३४॥

सुखिनस्ते जना लोके ये बालं पांसुभूषितम् ॥

परिष्वजंति स्वसुतमस्फुटाक्षरभाषकम्

॥३५॥

अनेन कारणेनास्मि निर्वेदं परमं गता ॥

उपायो हि मया दृष्टः पुत्रार्थे मम सांप्रतम्

॥३६॥

इह भिक्षुः समायातो देवरूपी सनातनः ॥

तस्य चाव्याहता शक्तिः श्रूयते सर्ववस्तुषु

॥३७॥

सस्त्रीबालो जनश्चात्र शरणं यस्य गच्छति ॥

तस्य भिक्षोः प्रसादेन सुतवत्यो वयं नृप ॥

भविष्यामोऽत्र संदेहो न मे मनसि वर्त्तते

॥३८॥

तस्याः स वचनं श्रुत्वा जीर्णोद्यानं जगाम ह ॥

प्रियया सहितो राजा तं च भिक्षुं ददर्श ह

॥३९॥

दृष्टमात्रो नृपतिना भिक्षुर्लिगत्वमागतः ॥

दृष्ट्वा सुमहदाश्चर्यं भक्तिनम्रो महीपतिः ॥

पूजयामास विधिवत्तल्लिंगं भिक्षु रूपकम्

॥४०॥

अपुत्रोऽस्मीत्युवाचेदं धन्येयं महिषी मम ॥

देहि मे तनयं देव शिवो भवान्महेश्वरः

॥४१॥

इत्युक्तो राजसिंहेन भिक्षुर्लिंगा कृतिस्तदा ॥

प्रत्युवाच महीपालं पुत्रस्ते भविता नृप

॥४२॥

ततःप्रभृति राजासौ सकलत्रो महामतिः ॥

सर्वभावेन तं देवं जगाम शरणं मुदा

॥४३॥

देवदेवस्य माहात्म्यात्पुत्रो जातो महाबलः ॥

धर्मात्मा च यशस्वी च सार्वभौमो गुणाधिकः

॥४४॥

अथाहं मन्दराद्देवि कौतु- कात्तु समागतः ॥

लिंगाकारं गणं दृष्ट्वा राजानं सेवकं तथा

॥४५॥

योगैश्वर्येण च मया कृतं वै पुरमात्मनः ॥

नानारत्नप्रभोद्द्योतं नानासिद्धिनि षेवितम् ॥

तच्छिवं शाश्वतं स्थानं दत्तं देवि तदा मया

॥४६॥

मार्कंडेयेश्वराद्देवादुत्तरे वरवर्णिनि ॥

तदाप्रभृति देवोऽसौ शिवेश्वर इति स्मृतः

॥४७॥

येऽर्चयिष्यन्ति सततं शिवेश्वरमनुत्तमम् ॥

निर्धूतसर्वपापास्ते भविष्यंति गणोत्तमाः

॥४८॥

विदित्वार्भगुरुं लोकं ये द्रक्ष्यंति शिवेश्व रम् ॥

अन्तकाले प्रदास्यामि तेषां ज्ञानमनुत्तमम्

॥४९॥

मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ॥

अपुनर्भवहेतुत्वात्संसेव्योऽसौ शिवेश्वरः

॥५०॥

सर्वावस्थोऽपि यो मर्त्यः संश्रयेत्तं शिवेश्वरम् ॥

स तां गतिमवाप्नोति यज्ञैर्दानैर्हि या गतिः

॥५१॥

आख्यानं प्रयतो मर्त्त्यो य इदं श्रावयेच्छुचिः ॥

पठेद्वा वाचयेद्वापि स मुच्येत्सर्वकिल्विषैः

॥५२॥

एष ते कथिता देवि प्रभावः पापनाशनः ॥

शिवेश्वरस्य देवस्य कुसुमेश मतः शृणु

॥५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शिवेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥