मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३०

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 30

च्यवनेश्वरमाहात्म्यवर्णनम्

श्रीविश्वनाथ उवाच

त्रिंशत्तमं विजानीहि त्वं देवि च्यवनेश्वरम् ॥

यस्य दर्शनमात्रेण स्वर्गभ्रंशो न जायते

॥१॥

भृगोर्महर्षेः पुत्रश्च च्यवनो नाम पार्वति ॥

स्थाणुभूतस्तपस्तेपे निराहारो महामुनिः

॥२॥

वितस्तायास्तटे रम्ये बहुवर्षगणान्किल ॥

सवल्मीकोऽभवद्विप्रो लताभिरभिसंवृतः

॥३॥

कालेन महता देवि समाकीर्णः पिपीलकैः ॥

तथा स संवृतो धीमान्मृत्पिंड इव सर्वशः

॥४॥

आजगाम तमुद्देशं विहर्तुं वन उत्तमे ॥

शर्यातिर्नाम धर्मात्मा सकुटुंबो मुदान्वितः

॥५॥

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ॥

एकैव तु सुता सुभ्रूः सुकन्यानाम नामतः

॥६॥

सा सखीभिः परिवृता सर्वाभरणभूषिता ॥

सा भ्रम्यमाणा वल्मीके दृष्ट्वा भार्गवचक्षुषी

॥७॥

सा कौतुकात्कण्टकेन बुद्धिमोहवती तदा ॥

किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने

॥८॥

अभवत्स तया विद्धो नेत्रयोः परमार्तिमान् ॥

ततः शर्यातिसैन्यस्य शकृन्मूत्रं समारुणत्

॥९॥

ततो रुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः ॥

प्रत्युवाच ततः क्रुद्धो राजा गद्गदया गिरा

॥१०॥

केनापकृतमद्येह भार्गवस्य महात्मनः ॥

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः

॥११॥

ज्ञातं वा यदि वाज्ञातं तदिदं ब्रूत मा चिरम् ॥

तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्

॥१२॥

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥

पर्यपृच्छत्स्ववर्ग च भूयोभूयः सुदुःखितः

॥१३॥

पितरं दुःखितं दृष्ट्वा सुकन्या तमथाब्रवीत् ॥

मया किंचिच्च वल्मीके दृष्टं सत्त्वमतिच्छवि

॥१४॥

खद्योतवदभिज्ञातं तन्मया विद्धमंतिकम् ॥

एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं क्षिप्रमभ्यगात्

॥१५॥

तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥

प्रार्थयामास सैन्यार्थे प्रांजलिः स महीपतिः

॥१६॥

अज्ञानाद्बालया यत्तेऽपकृतं तु महीसुर ॥

इमामेव च ते कन्यां ददामि सुदृढव्रताम्

॥१७॥

भार्यार्थे त्वं गृहाणेमां प्रसीद द्विजसत्तम ॥

ततोब्रवीमहीपालं च्यवनो भार्गवस्तथा

॥१८॥

यद्येवं प्रतिगृह्यैतां क्षमिष्यामि महीपते ॥

ददौ दुहितरं तस्मै च्यवनाय महीपतिः

॥१९॥

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥

प्राप्ते प्रसादे राजाथ ससैन्यो विषयं गतः

॥२०॥

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिंदिता ॥

नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च

॥२१॥

कस्यचित्त्वथ कालस्य नासत्यावश्विनौ प्रिये ॥

कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्

॥२२॥

तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ॥

ऊचतुः समुपद्रुत्य कस्य त्वमतिशोभने

॥२३॥

सा प्रोवाच महाभागा पतिव्रतपरायणा ॥

शर्यातितनयां चैव भार्यां च च्यवनस्य हि

॥२४॥

ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्

॥२५॥

त्वमपास्येह कल्याणि कामभोगबहिष्कृता ॥

वृद्धं च्यवनमुत्सृज्य वरयस्वैकमावयोः

॥२६॥

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥

एवमुक्ता सुकन्या तु दस्रौ ताविदमब्रवीत्

॥२७॥

रताहं च्यवने देवे मैवं मा पर्यशंकतम् ॥

ततोऽब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ

॥२८॥

युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥

एतेन समयेनावामामंत्रय सुमध्यमे ॥

सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे ॥

तच्छ्रुत्वा च्यवनो भार्यां क्रियतामित्यभा षत

॥३०॥

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥

ततोऽप्सु च्यवनः शीघ्रं रूपार्थी प्रविवेश ह

॥३१॥

अश्विनावपि तत्काले सरः प्राविशतां प्रिये ॥

ततो मुहूर्त्तादुत्तीर्णा सर्वे ते सरसस्तदा

॥३२॥

दिव्यरूपधराः सर्वे युवानो दिव्यकुंडलाः ॥

तुल्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः

॥३३॥

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम् ॥

अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि

॥३४॥

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान् ॥

निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम्

॥३५॥

लब्ध्वा तु च्यवनो भार्यां वयो रूपं तु वांछितम् ॥

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः

॥३६॥

यदहं रूपसंपन्नो वयसा च समन्वितः ॥

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम्

॥३७॥

तस्माद्युवां करि ष्यामि प्रीत्याहं सोमपायिनौ ॥

सत्यमेतन्न संदेहो देवराजस्य पश्यतः

॥३८॥

तच्छ्रुत्वा हृष्टमनसौ दिवं देवौ प्रजग्मतुः ॥

याजयामास सोमार्हौ नासत्यावश्विनाविति

॥३९॥

भिषजौ देवतानां हि कर्मणा तेन गर्हितौ ॥

आभ्यामर्थाय सोमं त्वं प्रदास्यसि यदि स्वयम्

॥४०॥

वज्रं ते प्रहरिष्यामि घोररूपं सुदारुणम् ॥

एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ॥

बलिनं वासवं ज्ञात्वा चिंतयामास सत्वरम्

॥४१॥

देवमाराधयिष्यामि महादेवं महेश्वरम् ॥

यस्य कर्मकरः शक्रो यस्य देवा वशानुगाः ॥

यः समर्थो जगद्गोप्ता सृष्टिसंहारकारकः

॥४२॥

इत्युक्त्वा च्यवनो देवि महाकालवनं गतः ॥

रामेश्वरस्य देवस्य लिंगमीशानतः स्थितम् ॥

श्रद्धयाराधितं तेन च्यवनेन महात्मना

॥४३॥

तस्य प्रसन्नो रुद्रस्तु स वज्रादभयं ददौ ॥

तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः

॥४४॥

समाराधनतुष्टस्य लिंगस्यास्य प्रभावतः ॥

एतस्मिन्नंतरे ज्वाला निःसृता लिंगमध्यतः

॥४६॥

तया देवगणाः सर्वे दह्यमाना विचेतसः ॥

प्रोचुर्गद्गदया वाचा धूमेनांधीकृते क्षणाः

॥४६॥

क्रियेतां सोमपावेतावश्विनौ बलसूदन ॥

देवानां वचनं श्रुत्वा च्यवनं भयपीडितः ॥

प्रत्युवाच ततः शक्रः प्रणामानतकंधरः

॥४७॥

सोमपावश्विनावेतावद्यप्रभृति भार्गव ॥

भविष्यतस्ततः सर्वमेतत्सत्यं ब्रवीमि ते

॥४८॥

मा तेऽतिथ्याभिसंरंभो भविष्यति तपोधन ॥

लिंगस्यास्य प्रभावोऽयं यदहं निष्प्रभीकृतः

॥४९॥

ततस्त्वन्नामधेयेन प्रसिद्धिर्भुवि यास्यति ॥

आराधितं यतो देवि च्यवनेन महात्मना

॥५०॥

च्यवनेश्वरमेतद्वै ख्यातं त्रिभुवनेऽभवत् ॥

भक्ता ये पूजयिष्यंति देवेशं च्यवनेश्वरम् ॥

आजन्मप्रभवं पापं तेषां नश्यति तत्क्षणात्

॥५१॥

यः पश्यति नरो नित्यं च्यवनेश्वरसंज्ञकम् ॥

जन्मदुःखजरारोगैर्मुक्तो मुक्तिमवाप्नुयात्

॥५२॥

यंयं काममभिध्यायेन्मनसाभिमतं नरः ॥

तंतं दुर्लभमाप्नोति च्यवनेश्वरदर्शनात्

॥५३॥

नियमेन प्रपश्यंति ये देवं च्यवनेश्वरम् ॥

ते प्रयांति तनुं त्यक्त्वा मदीये भुवने प्रिये

॥५४॥

यः शृणोति कथां पुण्यां सर्वपापहरां शुभाम् ॥

स पुण्यात्मा परं स्थानं याति दिव्यं न संशयः

॥५५॥

भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः ॥

स पुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि

॥५६॥

पुष्पैर्विचित्रैर्ये देवं यजंते च्यवनेश्वरम् ॥

संसारार्णवमुल्लंघ्य ते यांति परमं पदम्

॥५७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

च्यवनेश्वरदेवस्य शृणु खंडेश्वरं शिवे

॥५८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥