मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६८

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 68

अष्टषष्टिकसंख्याकं पिशाचाख्यमथेश्वरम्

ईश्वर उवाच

अष्टषष्टिकसंख्याकं पिशाचाख्यमथेश्वरम् ॥

शृणु देवि प्रयत्नेन दर्शनात्पापनाशनम्

॥१॥

आदौ कलियुगे देवि शूद्रो बहुधनोऽभवत् ॥

सोमो नाम सुविख्यातो नास्तिको वेदनिंदकः

॥२॥

अब्रह्मण्यो नृशंसश्च कदर्यो निरपत्रपः ॥

विश्वासघातकश्चैव परस्वहरणे रतः

॥३॥

त्रिवर्गहंता चान्येषामात्मकामानुवर्त्तकः ॥

स कदाचिन्मृतो देवि कष्टेन परमेण च

॥४॥

मरुदेशे पिशाचोऽभून्नग्नो दीनो भयावहः ॥

नाशकृत्स पिशाचानां स्वपक्षोच्छेदकारकः

॥५॥

बहवो मर्द्दितास्तेन पिशाचा बलवत्तराः

॥६॥

अथ तेनैव मार्गेण कदाचिच्छाकटायनः ॥

स्वाध्यायनिरतो विद्वान्वाग्ग्मी शमपरायणः

॥७॥

उदयादित्यसंकाशो विभावसुसमद्युतिः ॥

शकटेन सदा याति स पश्यन्पर्वतात्मजे

॥८॥

गतो ददर्श तं रौद्रं पिशाचं च भयावहम् ॥

स पिशाचः क्षुधाविष्टो भोक्तुकामोऽभ्यधावत

॥९॥

दृष्ट्वा तं शकटारूढं ब्राह्मणं शाकटायनम् ॥

. शकटस्य ध्वनिं श्रुत्वा रूपं दृष्ट्वा द्विजस्य च

॥१०॥

तथारूपः पिशाचस्तु कर्णाभ्यां बधिरीकृतः ॥

आत्मत्राणपरो भूत्वा नष्टः कष्टेन पार्वति ॥

तं धावंतं समालोक्य पिशाचं ब्राह्मणोऽब्रवीत्

॥११॥

पिशाच त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ॥

क्व धावसि समाचक्ष्व कुतस्ते भयमागतम्

॥१२॥

पिशाच उवाच

शकटस्यास्य महतो घोषं श्रुत्वा भयंकरम् ॥

कर्णाभ्यां बधिरो जातो विसंज्ञस्तव दर्शनात्

॥१३॥

ब्राह्मण उवाच

पिशाचानां बलिष्ठाश्च श्रूयंते ब्रह्मराक्षसाः ॥

स त्वं मां भोक्तुकामोऽसि विख्यातो ब्रह्मराक्षसः

॥१४॥

पिशाच उवाच

पिशाचानां समर्थोऽस्मि नष्टोऽहं तव दर्शनात् ॥

दुःखं हि मृत्युः सर्वेषां जीवितं च सुदुर्ल्लभम् ॥

अतो भीतः पलायामि जीवहेतोः सुखार्थतः

॥१५॥

ब्राह्मण उवाच

कुतः पिशाच सौख्यं ते मरणं श्रेय एव ते ॥

पैशाची कुत्सिता योनिः पापिनामेव जायते

॥१६॥

पिशाच उवाच

सर्वत्र हि गतो जीवो भवत्येव सुखाश्रयः ॥

तस्माज्जीवितुमिच्छामि प्रसीद ब्रह्मराक्षस

॥१७॥

ब्राह्मण उवाच

नाहं त्वां भोक्तुकामोऽस्मि ब्राह्मणोऽहं न राक्षसः ॥

सर्वभूतहितार्थाय विचरामि महीतले

॥१८॥

सर्वेषामेव जंतूनां मैत्रो ब्राह्मण उच्यते ॥

मा कुरुष्व भयं मत्तो मित्रभावगतो ह्यहम्

॥१९॥

तस्य तद्वचनं श्रुत्वा पिशाचः स्वस्थमानसः ॥

प्रणम्य प्रत्युवाचेदं ब्राह्मणं शाकटायनम्

॥२०॥

यदि ते सर्वभूतानां दत्ता ह्यभयदक्षिणा ॥

कर्मणा मनसा वाचा मित्रभावं गतो यदि

॥२१॥

पृच्छामि त्वां महाभाग संशयो हृदये स्थितः ॥

श्रुत्वानुकंपया सम्यक्तन्मे व्याख्यातुमर्हसि

॥२२॥

केन कर्मविपाकेन पैशाचं याति मानवः ॥

पिशाचत्वात्कथं मुक्तिः प्राप्यते पापकर्मभिः

॥२३॥

इति तस्य वचः श्रुत्वा पिशाचस्य वरानने ॥

ममत्वेनावृतस्तस्मै प्रावोचच्छाकटायनः

॥२४॥

अपहृत्य च विप्रस्वं देवस्वं च विशेषतः ॥

तेन पापेन पापिष्ठाः पिशाचत्वं प्रयांति च

॥२५॥

पितरं मातरं चैव स्त्रियं बालं द्विजं तथा ॥

वंचयित्वा हरत्यर्थं स पिशाचो भवेन्नरः

॥२६॥

राजद्रव्यं गृहीत्वा तु न यजेन्न ददाति यः ॥

आत्मानमेव पुष्णाति पिशाचत्वं स गच्छति

॥२७॥

विश्वासघातका ये च परदाररताश्च ये ॥

प्राप्नुवंति पिशाचत्वं तथा ये वेदनिंदकाः

॥२८॥

निंदंति ये पुराणानि धर्मशास्त्राणि सर्वदा ॥

ते भवंति पिशाचाश्च ये सदा पिशुना नराः

॥२९॥

इति ते कथितं सर्वं वेदप्रामाण्यतोऽधुना ॥

इदानीं कथयिष्यामि यस्त्वं जातोसि तच्छृणु

॥३०॥

सोमको नाम शूद्रस्त्वं परमर्मप्रकाशकः ॥

विश्वासघातको जातो देवब्राह्मणदूषकः

॥३१॥

नास्तिको भिन्नमर्यादो जन्मन्यत्रापि सप्तमे ॥

सकुलं पातयित्वात्र नरके दारुणे भृशम्

॥३२॥

पिशाचयोनिं संप्राप्तः पुनः प्राप्स्यसि रौरवम् ॥

महारौरवसंज्ञं तु क्रकचं कालसूत्रकम् ॥

यंत्रपीडनकं रौद्रं मथनं कुम्भवालुकम्

॥३३॥

इत्येवं वदतस्तस्य ब्राह्मणस्य यशस्विनि ॥

सस्मार प्राक्तनं जन्म सत्संगात्कुत्सितं स्वकम्

॥३४॥

दुःखाभिभूतो निश्चेष्टो धिग्धिगित्यसकृद्ब्रुवन् ॥

पतितो भूतले देवि इदं वाक्यमथाब्रवीत्

॥३५॥

अहो केनापि पुण्येन भवता सह दर्शनम् ॥

जातं ममाल्पपुण्यस्य दीनस्य कृपणस्य च

॥३६॥

नास्ति धर्मसमं मित्रं नास्ति धर्मसमा गतिः ॥

नास्ति धर्मसम्ं त्राणं स च नास्ति मम प्रभो

॥३७॥

मग्नोऽहं दुःखजलधौ मग्नोऽहं पापकर्दमे ॥

भ्रांतोऽहमंधतमसि ततस्त्वां शरणं गतः

॥३८॥

नमस्तेऽस्तु महाभाग किं करोमि प्रशाधि माम् ॥

तत्तपोबलनिर्दिष्टमिदं प्राप्तं मयाऽधुना

॥३९॥

एवं निगदतस्तस्य पिशाचस्य वरानने ॥

कथयामास माहात्म्यं स विप्रः शाकटायनः

॥४०॥

पृथिव्यां यानि तीर्थानि आसमुद्रगतानि वै ॥

क्षेत्राणि यानि संतीह तेषां क्षेत्रं सुपुण्यदम्

॥४१॥

महाकालवनं क्षेत्रं प्रलयेऽप्यक्षयं गतम् ॥

लिंगं तत्र महाक्षेत्रे पिशाचत्वविनाशनम्

॥४२॥

ढुंढेश्वरस्य देवस्य दक्षिणे त्रिदशार्चितम् ॥

पैशाचं विद्यते भूयः पिशाचयोनिनाशनम् ॥

तस्य दर्शनमात्रेण पिशाचत्वात्प्रमोक्ष्यसे ॥

तस्य तद्वचनं श्रुत्वा स पिशाचो वरानने ॥

आजगाम त्वरायुक्तो नमस्कृत्य द्विजं तदा

॥४४॥

महाकालवने पुण्ये समीहितफलप्रदे ॥

ददर्श तत्र तल्लिंगं स्नात्वा शिप्राजले शुभे

॥४५॥

दर्शनात्तस्य लिंगस्य स पिशाचो वरानने ॥

तत्क्षणाद्दिव्यदेहस्तु दिव्याभरणभूषितः

॥४६॥

दिव्यं विमानमारूढो गतो लोके सनातने ॥

उद्धृत्य सकलं गोत्रं मातृकं पैतृकं तथा

॥४७॥

दृष्ट्वा तन्महदाश्चर्यं माहात्म्यातिशयं श्रिये ॥

प्रोक्तं देवैर्विमानस्थैः सिद्धैराकाशगैस्तथा

॥४८॥

पिशाचोपि गतः स्वर्गमस्य लिंगस्य दर्शनात्।

अतो देवः स विख्यातो भविष्यति महीतले ॥

पिशाचेश्वरसंज्ञस्तु सर्वपापप्रणाशनः

॥४९॥

ये पश्यंति नरा देवि पिशाचेश्वरसंज्ञकम् ।

तेषां हि पितरः सद्यो ये चापि निरये स्थिताः ॥

पिशाचत्वाद्विमुच्यंते स्वर्गं यांति न संशयः

॥५०॥

अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् ॥

तत्फलं लभते सोऽपि पिशाचेश्वरदर्शनात् ॥

गयायां पिंडदानेन यत्पुण्यं समुदाहृतम् ॥

तत्पुण्यमधिकं ज्ञेयं पिशाचेश्वरदर्शनात्

॥५२॥

ये पश्यंति चतुर्दश्यां पिशाचेश्वरसंज्ञकम् ॥

प्रेतत्वं च पिशाचत्वं कुले तेषां न जायते

॥५३॥

न वियोनिं नरो याति नरकं च न पश्यति ॥

प्रसंगेनापि यः पश्येत्पिशाचेश्वरसंज्ञकम्

॥५४॥

सर्वैश्वर्यसमायुक्तः सर्वबन्धुसमन्वितः ॥

मोदते पितृलोके स पिशाचेश्वरदर्शनात्

॥५५॥

कीर्तनान्मुच्यते पापाद्दृष्ट्वा स्वर्गं च गच्छति ॥

स्पर्शनादस्य लिंगस्य पुनात्यासप्तमं कुलम्

॥५६॥

तदैव स नरो मुक्तः संसारनिगडादिभिः ॥

यदैव वीक्षते लिंगं पिशाचेश्वरसंज्ञकम्

॥५७॥

यज्ञानां तपसां चैव दानानां चैव यत्फलम् ॥

तत्फलं कोटिगुणितं जायते तस्य दर्शनात्

॥५८॥

यदि पश्येच्चतुर्दश्यां वैशाखे कार्त्तिके तथा ।

तस्य पुण्यमसंख्यातं जायते नात्र संशयः

॥५९॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

पिशाचेश्वरदेवस्य श्रूयतां संगमेश्वरम्

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे पिशाचेश्वरमाहात्म्यवर्णनंनामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

छ