मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय १९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 19

एकोनविंशतितमं नागचंडेश्वरं प्रिये

ईश्वर उवाच

एकोनविंशतितमं नागचंडेश्वरं प्रिये ॥

निर्माल्यलंघनाप्तपापान्मुच्यते यस्य दर्शनात

॥१॥

तस्य प्रभावं सुभगं कथयाम्यथ विस्तरात् ॥

शृण्वेकाग्रमना देवि सर्वपापप्रणाशनम्

॥२॥

पुरा देवर्षिगंधर्वाश्चारणा गुह्यकास्तथा ॥

उपविष्टाः सुधर्मायां कथयंतः शुभां कथाम्

॥३॥

एतस्मिन्नंतरे शक्रो देवर्षिं नारदं मुनिम् ॥

पप्रच्छ सादरं देवि समायातं शुचिव्रतम्

॥४॥

दृष्ट्वा विनयसंपन्नं ब्रह्मचर्यपरायणम् ॥

मेखलाजिनकौपीनं वीणादण्डविभूषितम्

॥५॥

त्वया दृष्टमिदं सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥

उत्पाद्यमानमुत्पन्नं प्रलयच्च सहस्रशः

॥६॥

त्वत्तुल्यो नास्ति लोकेऽस्मिन्मु क्त्वैकं परमेष्ठिनम् ॥

जगत्कारणमव्यक्तं नित्यं सदसदात्मकम्

॥७॥

योगेन तपसा भक्त्या यत्त्वया परितोषितः ॥

त्रैलोक्यमभिजानासि तत्सर्वं सर्वतः स्फुटम्

॥८॥

अतोऽहं प्रष्टुमिच्छामि कथ्यतां मम निश्चयम् ॥

पृथिव्यां प्रवरं क्षेत्रं पावनं भुक्तिमुक्तिदम्

॥९॥

एवं श्रुत्वा तदा ध्यात्वा चिंतयामास नारदः ॥

चिंतयित्वा चिरं कालमिदं वचनमब्रवीत्

॥१०॥

देवराज स्मृतं पुण्यं क्षेत्रराजमनुत्तमम् ॥

क्षेत्राणामुत्तमं क्षेत्रं प्रयागं च प्रश स्यते

॥११॥

तस्माद्दशगुणं क्षेत्रं महाकालस्य कथ्यते ॥

भुक्तिदं मुक्तिदं तच्च दर्शनादपि वासव

॥१२॥

एतच्छ्रुत्वा सहस्राक्षो वर्णयित्वा च तं मुनिम् ॥

सर्वैर्देवगणैः सार्द्धं विमानस्थस्त्वरान्वितः

॥१३॥

अंतरिक्षस्थितो जिष्णुरद्राक्षीच्च सुरैः सह ॥

क्षेत्रं लिंगैः समाकीर्णमंगुलस्यांतरं न हि

॥१४॥

षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥

महाकालवने रम्ये निर्माल्यं लंघ्यते कथम्

॥१५॥

निर्माल्यलंघनाद्दोषो महान्भवति निश्चितम् ॥

इत्यालोच्य पुनर्देवि जग्मुः स्वर्गे मनोरमाः

॥१६॥

निर्माल्यदोषभीतास्ते क्षेत्रे न विविशुः सुराः ॥

एतस्मिन्नंतरे देवि विमानस्था गणोत्तमाः

॥१७॥

गणैर्नानाविधैः गेयैर्गीयमानश्च किंनरैः ॥

चारणैः स्तूयमानस्तु स्वर्गलोकं व्रजन्सुरैः

॥१८॥

प्रफुल्लनयनैर्दृष्टः कोऽयं धन्यो महातपाः ॥

तेजसा दीप्यमानोयम्पसरोभिश्च सेव्यते

॥१९॥

पप्रच्छुरमराः सर्वे कोऽयं रुद्रनिभो गणः ॥

याति कुत्र महाबाहो हृष्टात्मा प्रहसन्मुखः

॥२०॥

पृष्टस्तदा सुरैः सर्वैर्विस्मयाविष्टमानसैः ॥

कस्त्वं पुरुषशार्दूल किं त्वया सुकृतं कृतम्

॥२१॥

देवानां पुरतो देवि निःशेषं कथितं तदा ॥

महाकालो महादेवः पूजितो भक्तितः स्तुतः

॥२२॥

हृष्टेन तेन मे दत्तं गणत्वं यत्सुदुर्लभम् ॥

नाम दत्तं च सुभगं नागचंड इति ध्रुवम्

॥२३॥

पप्रच्छुरमरास्तच्च सादरं गणसत्तम ॥

नागचंड त्वया तत्र निर्माल्यं पतितं त्वथ

॥२४॥

महाकालवने पुण्ये लंघितं चरता त्वया ॥

संचारो नास्ति तत्रैव लिंगसंकीर्णता यतः

॥२५॥

उपायस्तेन कथितो देवानां पुरतस्तदा ॥

तत्र तिष्ठति देवेशा लिंगं सर्वफलप्रदम्

॥२६॥

ईशानेश्वरदेवस्य तिष्ठतीशानभागतः ॥

तस्य दर्शनमात्रेण न स गच्छति दुष्कृतम्

॥२७॥

निर्माल्यलंघनोद्भूतं यत्पापं जायते महत् ॥

तत्सर्वं नाशमायाति तस्य लिंगस्य दर्शनात्

॥२८॥

ततो देवगणाः सर्वे महाकालवने पुनः ॥

समायाता महाभागा महाकालश्च पूजितः

॥२९॥

यथा लिंगं च तद्दृष्टं सर्वदोषक्षयंकरम् ॥

तस्य दर्शनमात्रेण निर्माल्यलंघनादिभिः ॥

दोषो नष्टः सुराणां च ततो नामास्य चक्रिरे

॥३०॥

अस्माकं तेन कथितं नागचंडेन धीमता ॥

नागचंडेश्वराख्यानमतो लोके भविष्यति

॥३१॥

कृत्वास्य नाम ते देवा जग्मुः स्वर्गेहमुत्तमम् ॥

पूजयिष्यंति ये केचिन्नागचंडेश्वरं शिवम् ॥

निर्माल्यलंघनोद्भूतं तेषां नश्यति पातकम्

॥३२॥

नागचंडेश्वरं देवं ये पश्यंति दिनेदिने ॥

अज्ञानाज्ज्ञानतः पापं तेषां नश्यति नान्यथा

॥३३॥

आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम् ॥

सप्त जन्मान्यवाप्नोति दर्शनेन न संशयः

॥३४॥

प्राप्नोत्यभिमतान्कामान्देवानामपि दुर्लभान् ॥

कीर्त्तनान्नात्र संदेहो नागचंडेश्वरस्य च

॥३५॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

नागचंडेश्वरस्यैव प्रतीहारेश्वरं शृणु

॥३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये नागचंडेश्वरमाहात्म्यवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥