शृणु पंचाशदेकोनं देवेशं पृथुकेश्वरम्
ईश्वर उवाच
शृणु पंचाशदेकोनं देवेशं पृथुकेश्वरम् ॥
यस्य दर्शनमात्रेण सार्वभौमो नरो भवेत्
॥१॥वंशे स्वायंभुवे देवि ह्यंगो राजा बभूव ह ॥
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा
॥२॥वेननामा सुतो जातो नास्तिको धर्मदूषकः ॥
देवब्रह्मस्वहारी च परभार्यापहारकः
॥३॥स च शप्तो द्विजैर्देवि तत्क्षणान्निधनं गतः ॥
तदूरोर्मथ्यमानात्तु निपेतुर्म्लेछजातयः
॥४॥शरीरे मातुरंशेन कृष्णांजनचयप्रभाः ॥
पितुरंशात्समुत्पन्नो धार्मिको द्विजसत्तमैः ॥
मथिताद्दक्षिणाद्धस्तात्पृथुः प्रथितविक्रमः
॥५॥स विप्रैरभिषिक्तश्च तपः कृत्वा सुदुष्करम् ॥
विष्णोर्वरेण महता प्रभुत्वमगमन्नृपः
॥६॥स च स्वाध्यायरहिता निर्वषट्कारनिर्द्धनाः ॥
हाहाभूताः प्रजा दृष्ट्वा ततोऽभूद्दुःखितो नृपः
॥७॥स दोग्धुमैच्छत्त्रैलोक्यं सदेवासुरमानुषम्
॥८॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तयः ॥
क्रोधाविष्टं पृथुं दृष्ट्वा वाक्यं चेदमुवाच ह
॥९॥लोकत्रयविनाशाय मा कोपं कुरु भूपते ॥
पृथ्व्यानया ग्रासितानि सस्यानि विविधानि च ॥
गिलितानि च अन्नानि विद्ध्येवैतन्मतं मम
॥१०॥नारदस्य च वाक्येन क्रोधं चक्रे पृथुस्तदा ॥
निर्दग्धुमैच्छत्पृथिवीं सशै लवनकाननाम्
॥११॥मुमोच शस्त्रमाग्नेयं तेन सा धरणी तदा ॥
दह्यमाना भयार्त्ता च गौर्भूत्वा पृधुमभ्यगात्
॥१२॥सा वध्यमाना तेनैव नृपं वचनमब्रवीत् ॥
शरणं समनुप्राप्ता गौरहं नृपसत्तम
॥१३॥गौरवध्या महीपाल वत्सं कृत्वा च दुग्धि माम्
॥१४॥तस्यास्तद्वचनं श्रुत्वा दुदोह नृपसत्तमः ॥
भास्वद्रत्नानि सस्यानि कृत्वा वत्सं हिमालयम्
॥१५॥जाताः प्रजाश्च सुमुखाः प्रवृत्तश्च महोत्सवः ॥
प्रवृत्ता यागदानादि क्रिया मगलपूर्विकाः
॥१६॥राजाथ चिंतयामास मया पापमिदं कृतम् ॥
अवध्याश्च स्त्रियः प्रोक्ता गौरवध्या द्विजस्तथा
॥१७॥स्त्रीरूपधारिणी पृथ्वी मोहादेषा मया हता ॥
गोवधे च कृता बुद्धिरहो पापपरंपरा ॥
तस्माद्वह्निं प्रवेक्ष्यामि चितां कृत्वा न संशयः
॥१६॥एवं चिंतयतस्तस्य पृथोरमिततेजसः ॥
आजगाम पुनस्तत्र नारदो भगवानृषिः
॥१९॥दृष्ट्वा तथाविधं दीनं चिंतयानं पृथुं प्रिये ॥
उवाच नारदो धीमान्किमेतदिति पार्थिव
॥२०॥ततः स कथयामास मया पापमिदं कृतम् ॥
अवध्या स्त्री हता विप्र कृता बुद्धिश्च गोवधे
॥२१॥काँल्लोकानु गमि ष्यामि कृत्वा कर्म सुदारुणम् ॥
मरिष्यामि न संदेहो ब्रह्महा पापपूरुषः
॥२२॥अथ चेष्टोपदेशेन दुःखादुद्धर मां द्विज ॥
तस्य तद्वचनं श्रुत्वा कथयामास नारदः ॥
महापापप्रशमनं लिंगमाहात्म्यमुत्तमम्
॥२३॥महाकालवने लिंगमभयेश्वरपश्चिमे ॥
महापापक्षयकरं विद्यते तत्र भूपते ॥
गच्छ त्वं सहसा राजंस्तत्र पूतो भविष्यसि
॥२४॥नारदस्य वचः श्रुत्वा पृधुस्तत्र जगाम सः ॥
दृष्ट्वा लिंगं च वै रम्यं विपापस्तत्क्षणादभूत्
॥२५॥द्वादशादित्यसंकाशो बभूव पृथिवीपतिः
॥२६॥ततोंऽतरिक्षगैर्देवि कृतं नाम वरानने ॥
पृथुना पूजितो यस्माद्भविष्यति महीतले ॥
अद्यप्रभृति विख्यातो देवोऽयं पृथुकेश्वरः
॥२७॥ये च द्रक्ष्यंति देवेशं पृथुकेश्वरमीश्वरम् ॥
ते सर्वकामसंपूर्णा भविष्यंति महीतले
॥२८॥अज्ञानाज्ज्ञानतो वापि यत्पापं जायते नृणाम् ॥
तत्पापं यास्यति क्षिप्रं पृथुकेश्वरदर्शनात्
॥२९॥वाचिकं मानसं वापि कायिकं गुह्यसंभवम् ॥
प्रकाशं वा कृतं पापं प्रसंगादपि यत्कृतम् ॥
तत्सर्वं यास्यति क्षिप्रं पुथुकेश्वरदर्शनात्
॥३०॥पूजयिष्यंति ये भक्त्या देवं वै पृधुकेश्वरम् ॥
राज्यं प्राप्स्यंति ते सम्यङ्नृलोके च त्रिविष्टपे
॥३१॥भुक्त्वा राज्यं मनुष्याणां देवानां च महीतले ॥
यास्यंति परमं स्थानं ब्रह्मणः परमेष्ठिनः
॥३२॥इत्युक्त्वा देवसंघैश्च पूजितः पृथुकेश्वरः ॥
पृथुः शशास पृथिवीं सपत्तनां सपर्वताम्
॥३३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
पृथुकेश्वर देवस्य शृणु वै स्थावरेश्वरम्
॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये पृथुकेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥