मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ४३

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 43

चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनम्

श्रीशिव उवाच

चत्वारिंशत्तमं विद्धि त्र्यधिकं पर्वतात्मजे ॥

यस्य दर्शनमात्रेण जायते सर्वसंपदः

॥१॥

आदिकल्पे पुरा जातो वक्रांगो लोहितच्छविः ॥

रौद्रस्त्वंगारसदृशो मम गात्राद्वरानने ॥

मया धृतो धरण्यां स विख्यातो भूमिपुत्रकः

॥२॥

जातमात्रे सुते तस्मिन्महाकाये भयावहे ॥

कंपिता धरणी देवी देवास्त्रस्ताः सवासवाः

॥३॥

क्षोभं गताः समुद्राश्च चेलुश्च धरणीधराः ॥

तेनैव पीडितं सर्वं सदेवासुरमानुषम्

॥४॥

ऋषयो वालखिल्याश्च देवाः शक्रपुरोगमाः ॥

बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः प्रिये

॥५॥

सोच्छ्वाँसाः कथयामासुर्नमस्कृत्य पितामहम् ॥

वृत्तांतं विस्तरात्सर्वं लोकत्रयविनाशनम्

॥६॥

हरगात्रोद्भवेनैव जातमात्रेण लीलया ॥

लोकत्रयं समाक्रांतं पीडितं भक्षितं तथा

॥७॥

तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ॥

चिंतयित्वा तु तैः सार्द्धमाजगाम ममांतिकम्

॥८॥

मया पृष्टास्तु ते सर्वे किमर्थं भयविह्वलाः ॥

सोच्छ्वासहृदया दीनाः कस्माद्वो भयमागतम्

॥९॥

तैः सर्वं कथितं देवि ममाग्रे भयविह्वलैः ॥

त्वदंगसंभवेनैव देवदेव जगत्पते ॥

पीडितं भक्षितं चैव सदेवासुरमानवम्

॥१०॥

इति तेषां वचः श्रुत्वा क्षेमार्थं कृपया मया ॥

आकारितो मत्समीपमुवाच वदतां वरः

॥११॥

आदेशो दीयतां देव किं करोमीत्युवाच सः ॥

नाकर्ष त्वं जगदिदं मया प्रोक्तः पुनःपुनः

॥१२॥

ममांगाद्रजसा जातस्तेनांगारक उच्यसे ॥

लोकानां स्वस्तये नित्यं मंगलोसि मया कृतः

॥१३॥

इदानीं वक्रतां यातो वक्रस्त्वं गीयसे बुधैः ॥

विज्ञप्तोऽहं तदा तेन मम वाक्यं श्रुतं यदा ॥

आहारेण विना देव कथं तृप्तिर्भविष्यति

॥१४॥

तस्मान्मे देहि सुस्थानमाधिपत्यं च देहि मे ॥

शक्तिं च देहि मे शीघ्रमाहारं देहि मे प्रभो

॥१५॥

तस्य तद्वचनं श्रुत्वा पुत्रोऽयं मम वल्लभः ॥

तस्माद्दास्यामि परमं स्थानमक्षयमुत्तमम्

॥१६॥

इति संचिन्त्य मनसा स्मृतं स्थानं मयोत्तमम् ॥

उत्संगे च सुतं कृत्वा प्रेम्णा प्रोक्तं पुनःपुनः

॥१७॥

दत्तं पुत्र मया स्थानं महाकालवनोत्तमे ॥

गंगेश्वरस्य पूर्वे तु प्रशस्यं स्थानमुत्तमम्

॥१८॥

खगर्ता चैव शिप्रा च संगमस्तत्र विद्यते

॥१९॥

यदा मया धृता गंगा तदा सा चन्द्रमण्डलात् ॥

प्रमादात्पतिता भूमौ महाकालवनोत्तमे

॥२०॥

खगर्तेति च विख्याता खाद्भ्रष्टा प्रापतत्क्षितौ ॥

अतो मयावतारस्तु सहसा तव वै कृतः

॥२१॥

लिंगमूर्तिरहं पुत्र तिष्ठामि सुरपूजितः ॥

तत्स्थानं दुर्लभं देवैस्तस्मात्त्वं गच्छ सत्वरम्

॥२२॥

पूजितोऽहं त्वया तत्र संगमे लोकपूजिते ॥

त्रिषु लोकेषु यास्यामि ख्यातिं वै तव नामतः

॥२३॥

मध्ये ग्रहाणां सर्वेषामाधिपत्यं मया तव ॥

दत्तं तृतीयकं स्थानं तत्र तृप्तिर्भविष्यति

॥२४॥

पूजां प्राप्स्यसि तत्रैव ग्रहमध्ये व्यवस्थितः ॥

तिथिर्दत्ता चतुर्थी ते तस्यां ये व्रततत्पराः

॥२५॥

त्वामुद्दिश्य करिष्यंति पूजां शांतिं सदक्षिणाम् ॥

तेन सर्वेण ते तृप्तिर्भविष्यति न संशयः

॥२६॥

वारश्चैकश्च ते दत्तो मंगलार्थं मया तव ॥

नववस्त्रपरीधानं विद्यारंभं दिने तव ॥

तैलाभ्यंगं करिष्यंति न च प्राप्स्यंति ते बलम्

॥२७॥

इत्युक्तस्तु मया देवि वक्रांगो मंगलः सुतः ॥

अंगारकेति विख्यातस्तथेत्यंगीचकार सः

॥२८॥

सन्तुष्टस्तेन वाक्येन मदीयेन वरानने ॥

आजगाम मुदा युक्तो महाकालवनोत्तमे

॥२९॥

शिप्रायाश्च तटे रम्ये खगर्त्तासंगमांतिकम् ॥

दृष्टोऽहं लिंगरूपेण परां तुष्टिमुपागतः

॥३०॥

मया चालिंगितः प्रेम्णा चुम्बितः शिरसि प्रिये ॥

वरो दत्तो विशालाक्षि वांछितं ते भविष्यति

॥३१॥

दृष्टोऽहं च त्वया पुत्र भक्त्या चाराधितस्त्वया ॥

मम वाक्यं कृतं यस्मात्तस्मात्तुष्टोऽस्मि मंगल

॥३२॥

अंगारेश्वरनामाहमद्यप्रभृति पुत्रक ॥

त्रिषु लोकेषु विख्या तो भविष्यामि न संशयः

॥३३॥

ये मां पश्यंति सततं संगमेऽत्र व्यवस्थितम् ॥

न तेषां पुनरावृत्तिर्भविष्यति महीतले

॥३४॥

ये मां संपूज यिष्यंति ह्यंगारकदिने नराः ॥

कलौ युगे कृतार्थास्ते भविष्यंति न संशयः

॥३५॥

चतुर्थ्यां मंगलदिने ये मां पश्यंति सुव्रताः ॥

न ते यास्यंति संसारे घोरे दुःखशताकुले

॥३६॥

अमावास्या च भौमश्च संयोगो दृश्यते यदा ॥

खगर्त्तायाश्च शिप्रायाः संगमे देवपूजिते

॥३७॥

स्नात्वा तदा प्रपश्यंति मामत्रैव व्यवस्थितम् ॥

तेषां पुण्यफलं देवि समासाच्छृणु सांप्रतम्

॥३८॥

वाराणस्यां प्रयागे च कुरुक्षेत्रे च यत्फलम् ॥

गयायां पुष्करे प्रोक्तं तत्पुण्यमधिकं भवेत्

॥३९॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

अंगारेश्वरदेवस्य श्रूयतामुत्तरेश्वरम्

॥४०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥