मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३३

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 33

आनंदेश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

त्रयस्त्रिंशत्तमं देवमानंदेश्वरमीश्वरम् ॥

विद्धि पापहरं पुण्यं सर्वसंपत्करं सदा

॥१॥

पुरा राथंतरे कल्पे बभूव पृथिवीपतिः ॥

अनमित्र इति ख्यातः सार्वभौमो महीतले

॥२॥

धर्मात्मा महात्मा च पराक्रमधनो नृपः ॥

अतीत्य सर्वभूतानि बभौ भानुरिवाव्ययः

॥३॥

समः शत्रौ च पुत्रे च मित्रे च परधर्म्मवित् ॥

गिरिभद्रा गिरेः पुत्री तेनोढा वरवर्णिनी

॥४॥

अतीव वल्लभा सा च प्राणेभ्योऽपि गरीयसी ॥

आनंद इति पुत्रोऽभूत्तस्य ज्ञानरतः सुधीः

॥५॥

जातमात्रो निजोत्संगे स्थिरमुल्लाप्य वै पुनः ॥

परिष्वजति हार्देन उल्लापयति पुनःपुनः

॥६॥

स जातिस्मरणो जातो मातुरुत्संगमास्थितः ॥

जहास च तदा माता संक्षुब्धा वाक्यमव्रवीत्

॥७॥

भीतास्मि किमिदं वत्स हासो यद्वदने तव ॥

अकालबोधः संजातः किंस्वित्पश्यसि शोभनम्

॥८॥

इत्युक्तो मातरं प्राह सर्वोऽपि स्वार्थमीहते ॥

मां नेतुमिच्छति पुरो मार्जारी किं न पश्यसि ॥

अंतर्धानगता चेयं द्वितीया जातहारिणी

॥९॥

पुत्रप्रीत्या च मातस्त्वमतः स्वार्थं समीहसे ॥

उल्लाप्योल्लाप्य बहुशः परिष्वजसि मां बत

॥१०॥

उद्भूते बालके स्नेहात्संभ्रमात्स्त्रीजनोऽप्ययम् ॥

ततोयमागतो हासः शृणु चाप्यत्र कारणम्

॥११॥

स्वार्थे प्रसक्ता मार्जारी लोलुपा मामवेक्षते ॥

तथांतर्द्धानगा चेयं द्वितीया जातहारिणी

॥१२॥

त्वं तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥

न मां जानासि कोऽप्येवं न वै चोपकृतं मया

॥१३॥

संगतिर्नाति बालानां पंचसप्तदिनात्मकम् ॥

तथापि स्निह्यसि प्रीत्या परिष्व जसि संततम्

॥१४॥

ततेति वत्स भो भद्र इत्यलीकं ब्रवीषि माम् ॥

पुत्रस्य वचनं श्रुत्वा क्रुद्धा माताऽब्रवीदिदम्

॥१५॥

नाहं त्वामुपकारार्थं वत्स प्रीत्या परिष्वजे ॥

स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति

॥१६॥

इत्युक्त्वा सा तमुत्सृज्य निष्क्रांता सूतिकागृहात् ॥

जहार तत्परित्यक्तं सा तदा जातहारिणी

॥१७॥

सा हृत्वा तं तदा बालं पूर्वजातिस्मरं प्रिये ॥

हैमिन्याः शयने न्यस्यद्विक्रांतस्य महीभृतः

॥१८॥

मत्वा स्वकीयं पुत्रं तु विक्रांतेन महीभृता ॥

कृतं वै नामकरणमानंद इति विश्रुतम्

॥१९॥

विक्रांतस्य सुतो नीतो बोधस्य च द्विजन्मनः ॥

चैत्रनामा कृतस्तेन संस्कृतो वेदमंत्रकैः

॥२०॥

तृतीयं भक्षयामास बोधपुत्रं निशाचरी ॥

जातिस्मरोऽप्यथानंदः कृतोपनयनस्तदा

॥२१॥

गुरुणा समनुज्ञातं क्रियतामभिवादनम् ॥

जनन्याः प्रागुपस्थानमित्युक्तो वाक्यमब्रवीत्

॥२२॥

वंद्या मे कतमा माता जनित्री पालिनी च वा ॥

आनंदस्य वचः श्रुत्वा गुरुर्वचनमब्रवीत्

॥२३॥

नन्वियं ते महाभाग जनित्री जनकात्मजा ॥

विक्रांतस्याग्रमहिषी हैमिनीनाम नामतः

॥२४॥

आनंद उवाच

चैत्रस्य प्रसवित्रीयं चैत्रोऽयं द्विजवेश्मनि ॥

संस्कृतो ब्राह्मणैर्मंत्रैर्गिरिभद्रासुतस्त्वहम्

॥२५॥

गुरुराह ततः कस्त्वं चैत्रः को वा त्वयोच्यते ॥

ततः स कथयामास पूर्ववृत्तांतमादितः

॥२६॥

गुरुरुवाच

अतीव गहनं वत्स संकटं महदागतम् ॥

न वेद्मि किंचिन्मोहेन भ्रमंति मम बुद्धयः

॥२७॥

आनंद उवाच

मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थितः ॥

कः कस्य पुत्रो विप्रर्षे को वा कस्य न बांधवः

॥२८॥

अतः संसारता हंति संसारं प्राणिनामिह ॥

महामोहहतं चेतश्चित्रमत्र कथं गुरो

॥२९॥

ब्रह्मपुत्रस्य दुष्टस्य दुःसहस्य सुता भुवि ॥

जातहारिणिकानाम परिवर्त्तयते सुतान्

॥३०॥

मातृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ॥

मातृद्वयमथो प्राप्तं जातिं संस्मरता सता

॥३१॥

सोऽहं तपः करिष्यामि चैत्र आनीयतामिति ॥

ततः सुविस्मितो राजा सभार्यः सह बंधुभिः

॥३२॥

तस्मान्निवर्त्त्य ममता मनुमेने च तं प्रति ॥

चैत्रमानीय तनयं राज्ययोग्यं चकार सः

॥३३॥

सन्मान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥

सोऽप्यानंदस्तपस्तेपे महाकालवने शुभे

॥३४॥

इंद्रेश्वरस्य देवस्य पश्चिमे लिंगमुत्तमम् ॥

भक्त्या ह्याराधयामास तपसा दुष्करेण तु

॥३५॥

तपस्यंतं ततस्तं तु देवः प्राह शुचिस्मिते ॥

किमर्थं तप्यसे वत्स तपस्तीव्रं ब्रवीमि ते

॥३६॥

मनुना भवता भाव्यं षष्ठेन व्रज तत्कुरु ॥

अलं ते तपसा तस्मिंस्ततो मुक्तिमवाप्स्यसि

॥३७॥

इत्युक्तो देवदेवेन तथेत्याह महामतिः ॥

बभूव स मनुर्देवि ब्रह्मतुल्यो महायशाः

॥३८॥

पुत्रानुत्पादयामास लिंगस्यास्य समर्चनात् ॥

कृतं नाम तदा देवैरानंदेश्वरमुत्तमम्

॥३९॥

आनंदेन यतः प्राप्ता सिद्धिर्देवि सुदुर्ल्लभा ॥

अतो नाम सुविख्यातमानंदेश्वरमीक्ष्यताम्

॥४०॥

ये पश्यंति विशालाक्षि आनंदेश्वरमीश्वरम् ॥

ते पुत्रपौत्रसंपन्ना भविष्यंति महीतले

॥४१॥

येषां क्षीणं नृणां पापं कोटिजन्मशतोद्भवम् ॥

तेषां भवति सा भक्तिरानंदेश्वरदर्शनात्

॥४२॥

तदैव पुरुषो मुक्तो जन्ममृत्युजरादिभिः ॥

यदा पश्यति देवेशमानंदेश्वरसंज्ञकम्

॥४३॥

मयोक्तं मुक्तिदं नृणामानन्देश्वरदर्शनम् ॥

स्वर्गापवर्गदं देवमानंदं लिंगमुत्तमम् ॥

अत्र देवैर्विशालाक्षि पूजितं लिंगमुत्तमम्

॥४४॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

आनंदेश्वरदेवस्य शृणु त्वं कंथडेश्वरम्

॥४५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य आनंदेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥