कुटुंबेश्वरमाहात्म्यवर्णनम्
श्रीमहादेव उवाच
कुटुंबेश्वरसंज्ञं तु देवं विद्धि चतुर्दशम् ॥
यस्य दर्शनमात्रेण गोत्रवृद्धिश्च जायते
॥१॥यदा देवासुरैः पूर्वं मथितः क्षीरसागरः ॥
तदा च निर्गतं देवि दुर्द्धरं दुःसहं विषम्
॥२॥कालकूटमयं रौद्रं विषं ज्वालाविभीषणम् ॥
दह्यते च जगत्तेन सदेवासुरमानुषम्
॥३॥ततो देवगणाः सर्वे सासुरा यक्षराक्षसाः ॥
विषज्वालातिभीताश्च मामेव शरणं गताः
॥४॥स्तुतोहं विविधैः स्तोत्रैरिदमुक्तं वरानने ॥
अमृतार्थे कृतो यत्नः संप्राप्तं मरणं विभो
॥५॥अन्यथा चिंतितं कार्यं दैवेन कृतमन्यथा ॥
अतिमथितुमारब्धे लोभाद्वै क्षीरसागरम्
॥६॥उत्पन्नं कालकूटं तु येन दग्धं चराचरम् ॥
ततोऽस्माकं भयं जातं कालकूटोद्भवं प्रभो
॥७॥रक्षां कुरु जगन्नाथ शरणागतवत्सल ॥
हितार्थं सर्वलोकानां यथा न प्रलयो भवेत्
॥८॥मया तेषां वचः श्रुत्वा त्रिदशानां यशस्विनि ॥
मायूरं रूपमास्थाय देवानामनुकंपया ॥
कंठे धृतं महारौद्रं कालकूटाह्वयं तदा
॥९॥त्वं भीता सहसा नष्टा रूपं दृष्ट्वा तु मामकम् ॥
विषवृक्षमसेव्यं तु ततोऽहं दुःखितोऽभवम् ॥
नदीसंघसमायुक्ता गंगा दृष्टा च पार्श्वतः ॥
सा च प्रोक्ता मया देवि सादरं स्तुतिपूर्वकम्
॥११॥कालकूटविषं गंगे वेगान्नय महोदधिम् ॥
नान्या शक्ता समानेतुं त्वां विना लोकपावनि
॥१२॥गंगोवाच
नास्ति मे भगवञ्छक्तिर्विवोढुं च जगत्पते ॥
रौद्ररूपी च दुःसेव्यो दहत्येव न संशयः
॥१३॥ततस्तु यमुना प्रोक्ता न समर्था सरस्वती ॥
अन्याश्च विविधा नद्यो मयाहूताः पृथ क्पृथक्
॥१४॥अशक्तास्ताः समानेतुं कालकूटाह्वयं विषम् ॥
तदाहूता मया देवि शिप्रा ब्रह्मसमुद्भवा
॥१५॥शिप्रे पुत्रि ममादेशान्महाकाल वनं व्रज ॥
गृहीत्वा कालकूटं तु पुरः कामेश्वरस्य हि
॥१६॥विद्यते परमं लिंगं तस्मिंल्लिंगे नियोजय ॥
मया प्रोक्ता तदा प्राह ब्रह्मणः परमा कला
॥१७॥एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥
दुःस्पर्शः कालकूटोऽयं नूनं मां भक्षयिष्यति
॥१८॥असेव्याहं भविष्यामि दुष्टसंपर्क योगतः ॥
ततो मया पुनः प्रोक्ता शिप्रा पातकनाशिनी
॥१९॥यानि तीर्थानि भूलोके पाताले यानि संति वै ॥
स्वर्गलोके ह्यंतरिक्षे पुण्यानि चारुहासिनि
॥२०॥तानि सर्वाणि सेवार्थमागत्य मम वाक्यतः ॥
आज्ञां तव करिष्यंति गच्छ पुत्रि ममाज्ञया
॥२१॥एवमुक्ता तदा शिप्रा गृहीत्वा कालकूटकम् ॥
समायाता वरारोहे यत्र लिंगमनुत्तमम्
॥२२॥तद्विषं कालकूटाह्वं निक्षिप्तं लिंगमूर्द्धनि ॥
विषलिंगस्ततो जातो दृष्टो मृत्युप्रदायकः
॥२३॥पशुः पक्षी नरो वापि यो हि पश्यति तं शिवम् ॥
म्रियते स तदा देवि तस्य देवस्य दर्शनात्
॥२४॥तीर्थयात्रां ततः कर्तुं तत्रायातांस्तपोधनाः ॥
तं च देवं ततो दृष्ट्वा मृताः सर्वे च तत्क्षणात्
॥२५॥ततो हाहाकृतं देवि त्रैलोक्यं सचराचरम् ॥
हाहाकारं महच्छ्रुत्वा मया ते द्विजसत्तमाः ॥
संजीविताश्च वै सर्वे दृष्टिपातेन पार्वति
॥२६॥तुष्टुवुः प्रणता विप्रा मामतो विविधैः स्तवैः ॥
मया प्रोक्तास्तु ते विप्रा वृणुध्वं वरमुत्तमम्
॥२७॥तैरुक्तं प्रणतैर्देवि लोकानां च हितार्थतः ॥
संम्रियंते प्रजा देव लिंगेनानेन शंकर
॥२८॥ताः संरक्ष जगन्नाथ ह्येषोऽस्माकं वरः प्रभो ॥
प्रतिज्ञातं मया देवि लोकानामनुकंपया
॥२९॥क्षेमारोग्यकरं लिंगं भविष्यति न संशयः ॥
कायावरोहणाद्विप्राः स्वयमत्रागमिष्यति
॥३०॥लकुलीशस्तदा चायं देवः स्पृश्यो भविष्यति ॥
वृद्धिकारी कुटुम्बस्य भविष्यति न संशयः
॥३१॥कुटुंबेश्वर इति नाम्ना लोके ख्यातिं गमिष्यति ॥
इत्युक्तास्ते मया विप्रास्तत्रैव तपसि स्थिताः
॥३२॥लकुलीशोऽथ तल्लिंगमारुरोह ममाज्ञया ॥
जनयन्विस्मयं लोके कीर्तिं जनपदे तथा
॥३३॥कुटुम्बेश्वरसंज्ञं तु ये पश्यंति यशस्विनि ॥
तेषां कुले तु वृद्धिः स्यात्कुटुंबस्य न संशयः
॥३४॥आश्विनासितपंचम्यां दर्श नं यः करिष्यति ॥
बहुपुत्रो बहुधनो भविष्यति न संशयः
॥३५॥महतीं श्रियमाप्नोति रोगैश्चापि प्रमुच्यते ॥
सर्वकामसमृद्धोऽसौ मम लोके स मोदते
॥३६॥दर्शनं ये करिष्यंति स्पर्शनं यजनं तथा ॥
ते सर्वे कामसंपूर्णाः प्रयांति मम मंदिरम्
॥३७॥समीपे तु सरिच्छिप्रा वापीकूपेन संयुता ॥
यस्या दर्शनमात्रेण नरः पापात्प्रमुच्यते
॥३८॥सोमवारेर्कवारे च स्नात्वा तस्यां समाहितः ॥
अष्टम्यां वा चतुर्दश्यां यः पश्येत्कुटुंबेश्वरम्
॥३९॥राजसूयसहस्रस्य वाजपेयशतस्य च ॥
फलं स लभते देवि सत्यमेतन्मयोदितम्
॥४०॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
कुटुंबेश्वरदेवस्य त्विंद्रद्युम्नेश्वरं शृणु
॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥