मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३८

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 38

अष्टात्रिंशत्तमं विद्धि कुसुमेश्वरसंज्ञकम्

ईश्वर उवाच

अष्टात्रिंशत्तमं विद्धि कुसुमेश्वरसंज्ञकम् ॥

देवं स्वर्गप्रदं देवि महापातकना शनम्

॥१॥

पुरा वैवस्वते कल्पे प्राप्ते वाराहसंज्ञके ॥

प्रादुर्भूते विशालाक्षि कैलासादहमागतः

॥२॥

महाकालवने रम्ये रममाणस्य पार्वति ॥

त्वया सार्द्धं ममाक्षैश्च प्रादुरासीन्महास्वनः

॥३॥

पृष्टोऽहं च तदा श्रुत्वा शब्दं चातीव दुःसहम् ॥

शब्दोत्पत्तिर्मया देवि कथिता सा त्वदग्रतः

॥४॥

एते गणेशाः क्रीडंति मध्ये वै वीरको गणः ॥

कुसुमैर्भूषितोऽत्यर्थं ममातीव सुवल्लभः

॥५॥

कुसुमैर्हन्यतेऽप्यर्थं पूज्यते कुसुमोत्करैः ॥

स एव वीरको देवि सदा मे हर्षदायकः

॥६॥

नानाश्चर्यगुणाधारो गणेश्वरशतार्चितः ॥

मदीयं वचनं श्रुत्वा त्वयाप्युक्तं वरानने

॥७॥

न दृश्यते विना पुण्यैः पुत्रस्याननपंकजम् ॥

ईदृशस्य सुतस्यापि ममोत्कण्ठा महेश्वर

॥८॥

कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकम् ॥

मया तव वचः श्रुत्वा हसित्वा च पुनःपुनः ॥

प्रोक्तं पार्वति पुत्रोऽयं प्रदत्तो वीरकोऽधुना

॥९॥

एष एव सुतस्तेस्तु नयनानन्ददायकः ॥

त्वया मात्रा कृतार्थस्तु वीरकः कुसुमार्चितः

॥१०॥

मदीयं वचनं श्रुत्वा प्रेषिता विजया त्वया ॥

दत्तो हरेण मे पुत्रो विजये शीघ्रमानय

॥११॥

विजयोवाच गणपं गणमध्ये च वर्त्तिनम् ॥

एहि वीरक चापल्यात्त्वया देवः प्रकोपितः ॥

किमुन्मत्तवदत्यर्थं नृत्यरागेण मोहितः

॥१२॥

इत्युक्तो भयसंत्रस्तः कुसुमैर्भूषितस्तदा ॥

त्वत्समीपं समायातो विजयानुगतः शनैः

॥१३॥

भूषितं कुसुमैर्दृष्ट्वा भयत्रस्तं च वीरकम् ॥

त्वया चाकारितो देवि गिरा मधुरवर्णया

॥१४॥

एह्येहि जातोऽसि मे पुत्रकस्त्वं देवेन दत्तोऽधुना वीरकोसि ॥

उक्तवत्येवमंके निधायाथ तं पर्यचुम्बः कपोले कलंवादिनम्

॥१५॥

मूर्धन्युपाघ्राय सम्मार्ज्य गात्राणि सा भूषयामास दिव्यैः स्वयं भूषणैः ॥

किंकिणीमेखलानूपुरैः सन्मणीनिष्ककेयूरहारोत्करैः सद्गुणैः

॥१६॥

कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्य मन्त्रोद्भवैस्तस्य शुभ्रैस्ततः ॥

भूतिभिश्चाकरोर्मिश्रसिद्धार्थकैरंगरक्षाविधींस्तस्यतुष्टा सती

॥१७॥

एवमाधाय चोवक्थ कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्वलैः ॥

वत्स गच्छाधुना क्रीड सार्द्धं गणैरप्रमत्तो यथा बालचर्यां शनैः

॥१८॥

सोऽपि सिद्ध्याकुले गण्डशैले मिलद्रत्नजाले वृहच्छा लतालाकुले ॥

क्षणं फुल्लमालातमालालिमाले क्षणं वृक्षमूले विलोलालिमाले

॥१९॥

क्षणं स्वल्पपंके जले पंकजाले क्षणं वृक्षखण्डे शुभे निष्कलंके ॥

परिक्रीडते बालको वै विहारी गणेशाधिपो देवतानन्दकारी

॥२०॥

एवं विक्रीडतस्तस्य वीरकस्य गणस्य च ॥

संध्या तमो मयी प्राप्ता विज्ञप्तोऽहं त्वया प्रिये

॥२१॥

ऐश्वर्यं दीयतामस्य मम पुत्रस्य शंकर ॥

शरीरार्द्धं गणेशत्वं लोकपालत्वमग्रतः

॥२२॥

लिंगत्वमक्षयत्वं च स्थानं दिव्यं सुदुर्ल्लभम् ॥

वंद्यमानं यथा देव सिद्धगन्धर्वकिंनरैः ॥

ब्रह्मेन्द्रवरुणादित्यलोकपालेश्वरेश्वरैः

॥२३॥

एतैरेव गणैः सार्द्धं स्तूय मानं महात्मभिः ॥

अलंकृतो मया यस्मात्कुसुमैर्विविधैः शुभैः

॥२४॥

कुसुमेश्वरसंज्ञस्तु तस्मात्ख्यातो भवत्विति ॥

मयाप्युक्तं विशालाक्षि वीरकं दयितं मम

॥२५॥

मत्प्रभावसमं दिव्यं सेवितं गणपैः सदा ॥

शृणु गन्धर्वगीतानां माधुर्यममृतोपमम्

॥२६॥

पश्य किन्नरनारीणां गायन्तीनां मनोरमम् ॥

पश्याप्सरःसमूहस्यनृत्यमेतन्निरन्तरम्

॥२७॥

विद्याधरैः परिवृतः कुसुमेशो वरानने ॥

विशेषतो मया देवि प्रथमं प्रमथे श्वरः ॥

कुसुमेश्वरतां नीतो यदा कुसुममंडितः

॥२८॥

स्थानं दत्तं विशालाक्षि शिवलिंगस्य चोत्तरे ॥

वरो दत्तो बहुमतो दुष्प्राप्यस्त्रिदशैरपि

॥२९॥

ये त्वां द्रक्ष्यंति गणप कुसुमेश्वरसंज्ञकम् ॥

न तेषां जायते पापं पद्मपत्रे यथा जलम्

॥३०॥

कुसुमैरर्चयिष्यंति ये नराः कुसुमेश्वरम् ॥

मत्स्थानं ते समासाद्य मोदिष्यंति गतव्यथाः

॥३१॥

योऽप्येकं दिवसं मर्त्त्यस्त्वां पश्यति समाहितः ॥

स मुक्तः पातकैः सर्वैर्मम लोकं गमिष्यति

॥३२॥

यः पूजयति भावेन कुसुमैः कुसुमेश्वरम् ॥

स प्राप्स्यति परं स्थानं पुनरावृत्तिदुर्लभम्

॥३३॥

एवमादिवरैः पुष्टः कृतोयं कुसु मेश्वरः ॥

कृतकृत्यो गणो देवि लिंगेनेश्वरतां गतः

॥३४॥

कुसुमेश्वरदेवस्य प्रभावः कथितस्त्वयम् ॥

अक्रूरेशस्य देवस्य श्रूयतां तदनन्तरम्

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे कुसुमेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥