मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ४४

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 44

उत्तरेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

चत्वारिंशत्तमं विद्धि चतुर्भिरधिकं परम् ॥

यस्य दर्शनमात्रेण समीहितफलं लभेत् ॥

उत्तरेशमिति ख्यातं समीहि तफलप्रदम्

॥१॥

पुरा नियुक्ताः शक्रेण ये मेघा वृष्टिकारकाः ॥

तैः प्लावितं जगत्सर्वं सपर्वतमहीतलम्

॥२॥

एकार्णवे ततो जाते देवा भीता वरानने ॥

निःस्वाध्यायवषट्काराः स्वधास्वाहाविवर्जिताः

॥३॥

नैवाप्यायनमस्माकं विना होमेन जायते ॥

वयमाप्यायिता विप्रैर्यज्ञभागैर्यथोचितैः

॥४॥

तेषां वयं प्रयच्छामः कामान्यज्ञादिपूजिताः ॥

नास्ति तत्सर्वमेवैतदन्योन्यमवदन्सुराः

॥५॥

दृष्ट्वा पृष्वीं जले मग्नां ब्रह्माणं शरणं गताः ॥

कथयामासुरत्युग्रं नमस्कृत्य पितामहम्

॥६॥

एकार्णवा मही जाता विनष्टाः क्रतवः प्रभो ॥

निःस्वाध्यायवषट्कारं जगज्जातं पितामह

॥७॥

देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥

मुहूर्त्त चिंतयामास किमेतदिति विस्मितः

॥८॥

अकाले प्रलयः कस्मान्निमग्ना पृथिवी जले ॥

गता सृष्टिर्मदीया तु व्यर्थं जातं वचो मम

॥९॥

इति संचिंत्य हृदये सस्मार बलसूदनम् ॥

स्मृतमात्रस्तु बलहा ह्याजगाम पितामहम्

॥१०॥

प्रोवाच वचनं श्रुत्वा नम स्कृत्य पितामहम् ॥

स्मृतोऽहं केन कार्येण देह्याज्ञां मे पितामह

॥११॥

ब्रह्मणोक्तस्तदा शक्रः किमर्थं प्लाविता मही ॥

असंबद्धैस्त्वदीयैश्च मेघैः किं सहसा कृतम्

॥१२॥

ततः सर्वे समाहूता मेघाः शक्रेण पार्वति ॥

पितामहसमक्षं तु समायाताश्च तत्क्षणात्

॥१३॥

पितामहेन शक्रेण मर्यादा च कृता तदा ॥

गजोनाम महामेघः पूर्वस्यां दिशि निर्मितः

॥१४॥

गजाकारैस्ततो मेघैः सहस्रैर्दशभिर्वृतः ॥

गवयो दक्षिणामाशां षट् सहस्राधिपः कृतः

॥१५॥

शरभः पश्चिमामाशां सहस्राधिपतिः कृतः ॥

उत्तरोनाम यो मेघो मेघैः कोटिभिरावृतः

॥१६॥

उत्तरस्यां दिशि तदा प्रभुत्वे संप्रतिष्ठितः ॥

मर्यादा च कृता देवि ब्रह्मणा वासवेन तु

॥१७॥

प्रावृट्काले च वर्षध्वं नक्षत्रैर्जलजैद्रुतम् ॥

आर्द्रादिस्वातिपर्यंतं नक्षत्रद शकं स्मृतम्

॥१८॥

ब्रह्मशक्रवचः श्रुत्वा तथेति कृतनिश्चयाः ॥

ववृषुर्नियते काले तन्नामानि भवंति हि

॥१९॥

एवं व्यवस्थिते लोके मर्यादायां स्थिता घनाः ॥

ब्राह्मणा विज्वरा जातास्त्रिदशा मुदिता भृशम्

॥२०॥

क्रूरग्रहैरथो रुद्धास्ते मेघा वृष्टिकारकाः ॥

शनैश्चरेण भौमेन भास्करेणाथ केतुना

॥२१॥

पीडिताः शरणं जग्मुर्वासवं भयविह्वलाः ॥

निवेदितं भयात्सर्वं नमस्कृत्य पुनःपुनः

॥२२॥

मेघानां वचनं श्रुत्वा संत्र स्तो वासवस्तदा ॥

उवाच वचनं तेषां नाहं शक्तो निवारणे ॥

ग्रहाणामसमर्थोऽहं सर्वदैव पयोधराः

॥२३॥

अहं राज्यात्परिभ्रष्टः कृतः क्रूरग्रहैः पुरा ॥

स्थापितोऽहं कदाचिच्च सुप्रसन्नैर्ग्रहैः पदे

॥२४॥

मम मान्याश्च पूज्याश्च ग्रहा एव यतोधिकाः ॥

ग्रहाः स्रर्वहराः प्रोक्ता इति मे वर्त्तते मतिः

॥२५॥

एतस्मिन्नंतरे भूमौ संजाता शतवार्षिकी ॥

अनावृष्टिर्महारौद्रा सर्वप्राणिविनाशिनी

॥२६॥

अस्थिकंकालशकला श्वेतपर्वतसन्निभा ॥

पृथिवी तत्क्षणाज्जाता विना तोयेन पार्वति

॥२७॥

देवाः सर्वे पुनर्भीता ब्रह्माणं शरणं गताः ॥

ऊचुश्च प्रणताः सर्वे त्राहि नः शरणागतान्

॥२८॥

अनावृष्ट्या जगत्सर्वं पीडितं च पितामह ॥

अकाले प्रलयो जातः पुनरेव च तादृशः

॥२९॥

त्वया च वासवेनैव नियुक्ता ये पयोधराः ॥

कूरग्रहैरतीवोग्रैः पीडितास्ते पितामह

॥३०॥

देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥

अहं बिभेमि भो देवा ग्रहैस्तैर्बलवत्तरैः

॥३१॥

सर्वं जानामि माहात्म्यं ग्रहाणां क्रूरचेतसाम् ॥

शनैश्चरेण वक्रेण भवंतः पीडिताः सदा

॥३२॥

वरुणो यादसां नाथो मंगलेन प्रपीडितः ॥

राज्यभ्रष्टस्तु बहुधा केतुना वासवः कृतः

॥३३॥

शिरश्छेदो मया प्राप्तो वक्रेण रविणा पुरा ॥

एकैकशः समर्थास्ते किं पुनः संघशस्त्वमी ॥

तस्मात्सर्वे महादेवं गच्छामः शरणं वयम्

॥३४॥

ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः।

. ब्रह्माणं च पुरस्कृत्य मामव शरणं गताः

॥३५॥

उक्तोऽहं त्रिदशैः सर्वैः पाहि नः शरणागतान् ॥

त्वं नो धाता विधाता च सृष्टिसंहारकारकः

॥३६॥

क्रूरग्रहैर्महादेव रुद्धा मेघाः समंततः ॥

न कुर्वंति प्रभो वृष्टिमनावृष्टिः सुदारुणा ॥

सर्वप्राणिविनाशाय संजाता शतवार्षिकी ॥

तेषां तद्वचनं श्रुत्वा मया ज्ञातं वरानने ॥

क्रूरग्रहाणां सामर्थ्यं यथा च विदितं मम

॥३८॥

इति ज्ञात्वा महादेवि उपायश्चिंतितो मया ॥

उत्तरो नाम यो मेघो मेघैः कोटिभिरावृतः ॥

आहूतस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह

॥३९॥

मया प्रोक्तो ममादेशाद्गच्छ त्वं घनसंयुतः ॥

महाकालवनं रम्यं वांछितार्थफलप्रदम्

॥४०॥

गंगेश्वरस्य देवस्य दक्षिणे लिंगमुत्तमम् ॥

तमाराधय यत्नेन स ते दास्यति वांछितम्

॥४१॥

एवमुक्तो मया मेघ उत्तरो मेघसंयुतः ॥

जगाम त्वरया युक्तो महाकालवनोत्तमे

॥४२॥

दृष्ट्वा वृष्टिकरं लिंगं पूजयामास भक्तितः ॥

शिप्राजलं गृहीत्वा तु स्नात्वा स्नात्वा प्रयत्नतः ॥

तावद्यावज्जलं शिप्रां पुनरेवागतं प्रिये

॥४३॥

एतस्मिन्नंतरे तस्मादुद्भूतं धूममंडलम् ॥

लिंगमध्याद्वरारोहे ज्वालामालाकुलं महत्

॥४४॥

ततो ज्वालामयं सर्व मभूदम्बरगोचरम् ॥

तस्य ज्वालासमूहेन दग्धं वै ग्रहमंडलम्

॥४५॥

सनक्षत्रपथं यावत्ततो भीता ग्रहाः प्रिये ॥

तमेव शरणं प्राप्ता धूमज्वालाकुलाननाः

॥४६॥

ततो ब्रह्मा च विष्णुश्च तद्दृष्ट्वा महदद्भुतम् ॥

देवैर्वृतः सहस्राक्षो लिंगांतिकमुपागतः

॥४७॥

तल्लिंगं सुमहाज्वालं ज्वालाभिः पूरितांबरम् ॥

दुःप्रेक्ष्यं दुर्विदं भीमं वर्द्धमानं ददर्श सः

॥४८॥

अक्ष्णोर्निमेषमात्रेण ववृधे योजनायुतम् ॥

दृष्ट्वा तु वर्द्धमानस्य लिंगस्यात्य द्भुताकृतिम् ॥

सुरेशो मोहमापन्नो विसंज्ञाश्च ग्रहास्तदा

॥४९॥

ततस्तु तस्य लिंगस्य वारिधारा विनिःसृताः ॥

एकोद्देशाद्वरारोहे धरा त्वेकार्ण वीकृता

॥५०॥

लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान् ॥

इतरस्मिन्प्रदेशे तु समूहस्तडितामभूत्

॥५१॥

सधूमा समभूज्ज्वाला लिंगस्यान्य प्रदेशतः

॥५२॥

एवमत्यद्भुतं दृष्ट्वा वर्द्धमानं समंततः ॥

लिङ्गमव्यक्तमुद्भूतमापूरितनभोऽन्तरम्

॥५३॥

ग्रहाश्च विह्वला जाता धूमेनाकुलिते न्द्रियाः ॥

तुष्टुवुश्च तदा लिगं दह्यमानाः समंततः

॥५४॥

ग्रहा ऊचुः

नमः सुरूपाय सुरार्चिताय नमो विरूपप्रकृतिक्रियाय ॥

नमोनमो रूपनिराश्रयाय जलस्वरूपाय नमो नमस्ते

॥५५॥

इति स्तुतो यदा देवि ग्रहैः क्रूरैस्तदा प्रिये ॥

लिंगात्प्रादुरभूत्खस्थः स्वरूपो विग्रहाकृतिः

॥५६॥

भस्मधूसरसर्वांगो भोगिभोगांगदोज्ज्वलः ॥

हिमराशिनिभाकारो रजताचलनिर्मलः ॥

उवाच चैतान्प्रणतान्ग्रहान्कंपितक न्धरान

॥५७॥

किं वा कामं मनोऽभीष्टं भवद्भ्यो यद्ददाम्यहम् ॥

ममामोघमिदं सर्वं दर्शनं चातिदुर्लभम्

॥५८॥

भवद्भ्यो लोकतुष्ट्यर्थं दर्शनं हि ददाम्यहम् ॥

एवमुक्त्वा ग्रहाः सर्वे प्रोचुः प्रांजलयस्तदा

॥५९॥

यदि देयो वरो देव यदि तुष्टोऽसि शंकर ॥

कर्मारंभेषु सर्वेषु पूजाऽ स्माकं यथा भवेत् ॥

तथा कुरु महादेव तेन तृप्तिर्भविष्यति

॥६०॥

एवं भविष्यतीत्युक्त्वा मेघं चोत्तरमुक्तवान् ॥

तुष्टोऽस्म्यहं तु ते वत्स गृहाण वरमीप्सितम्

॥६१॥

तच्छ्रुत्वा वचनं तत्र ह्युत्तरः प्राह हर्षितः ॥

यन्मे तुष्टोऽसि भगवंस्तन्मह्यं दीयतां वरम्

॥६२॥

यदास्माकं महाबाधां कदा कोपि करिष्यति ॥

तदा वृष्टिर्विधातब्या त्वया देव सदा भुवि

॥६३॥

रक्षा कार्या च मेघानां रक्षणीयास्त्वया वयम् ॥

एवमस्त्विति तेनोक्तं लिंगेन नगगात्रजे

॥६४॥

अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले. ॥

उत्तरेश्वरसंज्ञोऽहं प्रभविष्यामि न संशयः

॥६५॥

ये मां संपूजयिष्यंति भक्त्या परमया युताः ॥

तेषां दास्यामि सततं वांछितार्थफलं भुवि

॥६६॥

पश्यंति प्रयता ये मां कृत्वा नियमपूर्वकम् ॥

ते यास्यंति पुरं शैवं यावत्कल्पाष्टकायुतम्

॥६७॥

आरूढाः सूर्यसंकाशैर्विमानैः सार्वकामिकैः ॥

रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः

॥६८॥

नृत्य वादित्रनिर्घुष्टैरुत्कटध्वनिनादितैः ॥

दोधूयमानैश्च नरैः स्तूयमानाः सुरासुरैः

॥६९॥

प्रसंगाद्भक्तिहीनोऽपि यो मां पश्यत्यशाठ्यतः ॥

ऐश्वर्यं तस्य दास्यामि ह्युत्तरेषु कुरुष्वथ

॥७०॥

स्मरिष्यति च यो नित्यं प्रभाते चोत्तरेश्वरम् ॥

स याति परमं स्थानं दाहप्रलयवर्जितम्

॥७१॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

उत्तरेश्वरदेवस्य शृणु त्रिलोचनेश्वरम्

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥