मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ७१

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 71

एकसप्ततिकं विद्धि प्रयागेश्वरसंज्ञकम्

ईश्वर उवाच

एकसप्ततिकं विद्धि प्रयागेश्वरसंज्ञकम् ॥

अद्वितीयं विजानीहि महापातकनाशनम्

॥१॥

हास्तिनेऽ भूत्पुरे श्रीमाञ्छंतनुर्नृपसत्तमः ॥

वैवस्वतेंऽतरे कल्पे युगे द्वापरसंज्ञके

॥२॥

स चाद्भुतमहावीर्यो वज्रसंहननो युवा ॥

सर्वशास्त्रेषु कुशलः कला पुंजविचक्षणः

॥३॥

बलेन विष्णुसदृशस्तेजसा भास्करोपमः ॥

गंगामेष चचारैकः सिद्धचारणसेविताम्

॥४॥

स कदाचिन्महाबाहुः प्रभूत बलवाहनः ॥

वनं जगाम गहनं हयनागशतैर्वृतः

॥५॥

गत्वा तत्र मृगान्व्याघ्रान्घातयामास लीलया ॥

महिषाश्ववराहांश्च विनिघ्नन्राजसत्तमः

॥६॥

स कदाचिद्वने तस्मिन्ददर्श परमां स्त्रियम् ॥

जाज्वल्यमानां वपुषा साक्षात्पद्मामिवापराम्

॥७॥

तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा ॥

पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः

॥८॥

सा दृष्ट्वैव च राजानं विचरंतं महाद्युतिम् ॥

स्नेहादागतसौहार्दान्नातृप्यत विलासिनी

॥९॥

तामुवाच ततो राजा सांत्वयञ्छ्लक्ष्णया गिरा ॥

देवी वा दानवी त्वं च गंधर्वी यदि वाप्सराः

॥१०॥

यक्षी वा पन्नगी वा त्वं मानुषी वा सुमध्यमे ॥

याचे त्वांऽभोजगर्भाभे भार्या मे भव शोभने

॥११॥

एतच्छ्रुत्वा वचो राज्ञः संस्तुतं मृदु वल्गु च ॥

अंगीकृतं तया देवि समयं प्रार्थितो नृपः

॥१२॥

वारिता विप्रिये वापि त्यजेयं त्वामसंशयम् ॥

न प्रष्टव्या त्वया राजन्कासि कस्येति सर्वथा

॥१३॥

एवमस्त्विति तेनोक्तं सत्येन सुकृतेन च ॥

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च

॥१४॥

उपचारेण च रहस्तुतोष जगतीपतिः ॥

दिव्यरूपा हि सा देवी गंगा त्रिपथगा नदी

॥१५॥

मानुषं विग्रहं कृत्वा श्रीमंतं वरवर्णिनि ॥

राजानं रमयामास यथा रेमे तथैव च

॥१६॥

स राजा रति सक्तत्वादुत्तमस्त्रीगुणैर्हृतः ॥

संवत्सरानृतून्मासान्न बुबोध बहून्गतान्

॥१७॥

रममाणस्तया सार्द्धं यथाकामं नरेश्वरः ॥

अष्टावजनयत्पुत्रां स्तस्याममरवर्णिनः

॥१८॥

जातं जातं च सा पुत्रं क्षिपत्यंभसि मुक्तये ॥

प्रीणामि त्वामहमिति गंगास्रोतसि पावने

॥१९॥

नास्य तत्तु प्रियं राज्ञः शंतनोर्ह्यभवत्तदा ॥

नोवाच किंचित्तां देवीं त्यागाद्भीतो महीपतिः

॥२०॥

अथैनामष्टमे पुत्रे जाते प्रहसतीमिव ॥

उवाच राजा दुःखार्त्तः परीप्सन्पुत्रमात्मनः

॥२१॥

मा वधीः कस्य कासीति किं विध्वंसि सुतानिति ॥

पुत्रहिंसा महत्पापं मा प्राप्सीस्तिष्ठ गर्हिते

॥२२॥

गंगोवाच

पुत्रकामा न ते हन्मि पुत्रं पुत्रवतांवर ॥

जीर्णस्तु मम वासोऽयं यथा मे समयः कृतः

॥२३॥

अहं गंगा जह्नुसुता महर्षिगणसेविता ॥

देवकार्यार्थसिद्ध्यर्थमुषित्वाहं त्वया सह

॥२४॥

इमेऽष्टौ वसवो देवा महाभीमा महौजसः ॥

वशिष्ठशापदोषेण मानुषत्वमुपागताः

॥२५॥

तेषामानयिता नान्यस्त्वदृते भुवि विद्यते ॥

मद्विधा मानुषी धात्री न चैवास्ति कदाचन

॥२६॥

तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ॥

स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रत

॥२७॥

सैवमुक्त्वा तदा गङ्गा विष्णुमायाविमोहिता ॥

रुरोद मानुषं भावमाश्रिता तनुमध्यमा

॥२८॥

अहो बत महत्कष्टं यदमी घातिताः सुताः ॥

मया नृशंसया मोहाज्जले क्षिप्तास्तु बालकाः

॥२९॥

हा वत्सा हा सुताः पुत्रा हा तातास्तनयाः क्व वै ॥

मां विहाय गताः कुत्र हृदयं किं न दीर्यते

॥३०॥

मातर्मातेति करुणं ब्रुवाणाः स्वयमागता ॥

उपगुह्ये कदा पुत्रान्वत्सवत्सेति सौहृदात्

॥३१॥

कस्य जातु प्रणीतेन पिंगेन क्षितिरेणुना ॥

ममोत्तरीयमुत्संगं कदाङ्ग मलयिष्यति

॥३२॥

अंगप्रत्यंगसंभूता मनोहृदयनंदनाः ॥

मया तु मात्रा हा वत्सा मारिता निधनं गताः

॥३३॥

काँल्लोकान्नु गमिष्यामि कृत्वा कर्म सुदारुणम् ॥

कथं पुण्या भविष्यामि पुत्रप्नी निर्दया सती

॥३४॥

इत्येवं करुणं कृत्वा रुदित्वा च पुनःपुनः ॥

मूर्छिता पतिताप्यार्ता निश्चेष्टा धरणीतले

॥३५॥

एतस्मिन्नंतरे देवि नारदो मुनिसत्तमः ॥

तस्या विलापशब्दं तमाकर्ण्य सहसा तदा

॥३६॥

विस्मयोप्फुल्लनयनः किमेतदिति चिंतयत् ॥

एषा सा जाह्नवी गंगा पावनी देववंदिता

॥३७॥

समुद्रमहिषी दिव्या पुण्या त्रिपथगा नदी ॥

मानुषं भावमाश्रित्य कस्माद्रोदिति विह्वला

॥३८॥

इत्येवं चिंतयित्वा च समीपमगमन्मुनिः ॥

गंगाया विलपन्त्याश्च ब्रह्मपुत्रस्तु नारदः ॥

उवाचोच्चैर्वियत्स्थोऽसौ देवि गंगे नमोऽस्तुते

॥३९॥

नारदोऽहं महापुण्ये कस्माद्रोदिषि पावनि ॥

हिमाद्रिपुत्री विख्याता देवगंधर्वसेविता

॥४०॥

धृता शिरसि देवेन शिवेन परमेष्ठिना

॥४१॥

नारदस्य वचः श्रुत्वा दिव्या देवनदी तथा ॥

अवलोक्य विमानस्थं प्रत्युवाच महामुनिम्

॥४२॥

मया नारद मोहेन कृतोऽधर्मो जुगुप्सितः ॥

जानंत्या सुमहत्पापं सप्तपुत्रा हता मया

॥४३॥

समुद्रेण वियोगस्तु संजातो मम दैवतः ॥

भार्या जाता मनुष्यस्य पुत्रा जाता हताश्च मे

॥४४॥

अतो मया विलपितं मग्नया शोकसागरे ॥

कथ्यतां मम देवर्षे येन पुण्या भवामि वै

॥४५॥

इति तस्या वचः श्रुत्वा नारदो मुनिसत्तमः ॥

त्रिकालवेदी शुद्धात्मा गंगां वचनमब्रवीत्

॥४६॥

नारद उवाच

किं विस्मृतो जगद्वंद्ये देवानां समयः शुभः ॥

प्रतिज्ञातं त्वया देवि वसूनां मोक्षकारणे

॥४७॥

प्राप्तास्ते वसवो लोकान्प्रसादात्तव सुव्रते ॥

त्वयावतारितो देवि समुद्रः शंतनुः स्मृतः

॥४८॥

इति तस्य वचः श्रुत्वा नारदस्य महात्मनः ॥

गंगा त्रिपथगा पुण्या प्रत्युवाच महामुनिम्

॥४९॥

सत्यमुक्तं त्वया ब्रह्मञ्ज्ञातं सर्वं मयाऽधुना ॥

किंतु योनिर्यतो लब्धा मानुषी तेन मोहिता

॥५०॥

अपवादभयाद्भीता भवंतं शरणं गता ॥

दीयतामुपदेशो मे कथ्यतां स्थानमुत्तमम्

॥५१॥

नारद उवाच

किं विस्मृतो जगद्वंद्ये देवानां समयः कृतः ॥

अपवादभयाद्भीता यदि त्वं देवि पुण्यदे ॥

मां पृच्छसि परं स्थानं शृणु त्वं वच्मि सुव्रते

॥५२॥

अवंती तु समाख्याता सप्त कल्पसनातनी ॥

तस्यां सखी त्वदीया तु शिप्रा विप्रप्रिया सदा

॥५३॥

तस्यास्तीरे शुभं लिंगं दुर्द्धर्षेश्वरदक्षिणे ॥

विद्यते त्रिदशैः पूज्यं सर्वती र्थैश्च सेवितम्

॥५४॥

तस्य दर्शनमात्रेण कृतकृत्या भविष्यसि ॥

तस्माद्गच्छ महापुण्ये गंगे देवर्षिसेविते

॥५५॥

इत्युक्ता सा त्रिपथगा नारदेन महात्मना ॥

गता तत्र महापुण्या सखीं शिप्रां ददर्श ह

॥५६॥

संश्लेषं च तदा कृत्वा लिंगं दृष्ट्वा सुपावनम् ॥

पूजयामास भावेन तत्रैव च चिरं स्थिता

॥५७॥

अथ सूर्यसुता देवी यमुना पापनाशिनी ॥

तत्रायाता सुहार्द्देन यत्र गंगा व्यवस्थिता

॥५८॥

ददर्श देवी तां गंगां ध्यायंती शंकरं शिवम् ॥

सापि तत्रैव तिष्ठंती पूजयंती परं शिवम्

॥५९॥

अथ तेनैव कालेन प्राचीदेवी सरस्वती ॥

समायाता सुगुप्ता च गंगायमुनयो र्जले

॥६०॥

एतस्मिन्नंतरे देवि शक्रं .प्राह स नारदः ॥

न दृश्यते प्रयागस्तु महाकालवनं गतः

॥६१॥

गंगायमुनयोर्मध्ये यत्र गुप्ता सरस्वती ॥

प्रयागः स तु विज्ञेयः सर्वपापप्रणाशनः

॥६२॥

स सांप्रतं प्रयागस्तु महाकालवनोत्तमे ॥

केनापि कारणेनैव गतो न ज्ञायते मया

॥६३॥

इति तस्य वचः श्रुत्वा नारदस्य महात्मनः ॥

शक्रेण सहिताः सर्वे ह्यवंतीं तु समागताः

॥६४॥

स्तुवंतो विविधैः स्तोत्रैर्गंगां त्रिपथगां शुभाम् ॥

गंगे देवि नमस्तुभ्यं सर्वपापप्रणाशिनि

॥६५॥

वसूनां जननी देवि वसूनां मोक्षदायिनि ॥

त्रैलोक्यपावनी नित्यं हरेण शिरसा धृता

॥६६॥

सेविता वालखिल्यैश्च कृष्णस्य परमा कला ॥

यमुने त्वां नमस्यामः कालिंदीं वरवाहिनीम्

॥६७॥

सुता त्वं पाविनी देवि मार्त्तंडस्य दिवस्पतेः ॥

शिप्रे देवि नमस्तुभ्यं ब्रह्मदेहोद्भवे शुभे

॥६८॥

प्राची त्वमेव विख्याता पुण्यदेहा सरस्वती ॥

या प्राची कौरवक्षेत्रे पुष्करे या महालये ॥

सा त्वं शिप्रा प्रसिद्धा च सर्वपातकनाशिनी

॥६९॥

त्वं दया सर्वजंतूनां स्वर्गः शरणं नृणाम् ॥

त्वं माता सर्वजंतूनां त्वं प्राची भुवि गीयसे

॥७०॥

बहुजन्मकलंकांकं दृष्ट्वा या देहिनां भुवि ॥

करोषि क्षालनं देवि सा त्वं त्रैलोक्यसंस्थिता

॥७१॥

आसां च संगमो यस्तु स प्रयागो बुधैः स्मृतः ॥

अत्रागत्य तु युष्माभिः स्थापितः स्नापितोऽधुना

॥७२॥

सोद्य प्रभृति देवोऽयं प्रयागेश्वरसंज्ञकः ॥

त्रिषु लोकेषु विख्यातः स्मरणात्पापनाशनः

॥७३॥

अत्रागत्य प्रपश्यंति ये प्रयागेश्वरं ततः ॥

ते कृतार्था भविष्यंति सर्वपातकवर्जिताः

॥७४॥

कुलं च तारितं तेषां पैतृकं मातृकं तथा ॥

गंगायास्त्रियुगं पुण्यं चतुर्वर्गफलप्रदम् ॥

जायते नात्र संदेहः प्रयागेश्वरदर्शनात्

॥७५॥

गंगायां च प्रयागे च देवदारुवने शुभे ॥

नैमिषे पुष्करे चैव श्रीशैले च त्रिपुष्करे

॥७६॥

त्र्यंबके धौतपापे च महेन्द्रे भैरवे तथा ॥

गोकर्णे च सुवर्णाख्ये रेवाकपिलसङ्गमे

॥७७॥

एतेषां दर्शनेनैव या सिद्धिर्द्वादशाब्दिका ॥

सा लभ्या मासमात्रेण प्रयागेश्वरदर्शनात्

॥७८॥

ये पश्यंति चतुर्द्दश्यामष्टम्यां च विशेषतः ।

भक्त्या च नियमं कृत्वा प्रयागेश्वरसंज्ञकम्

॥७९॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥

भोगदं मोक्षदं लिंगं भविष्यति महीतले

॥८०॥

कलास्तिस्रो भविष्यंति लिंगेऽस्मिन्मोक्षदे शुभे ॥

गंगा च यमुना प्राची सर्वपातकनाशिनी

॥८१॥

एवमुक्त्वा स्तुता गंगा यमुना च सरस्वती ॥

देवैः प्रणतिपूर्वेण गताः स्थानं स्वकं तदा

॥८२॥

देवाः प्रहृष्टाः शकाद्याः प्रयागेश्वरसंज्ञकम् ॥

स्तुत्वा च विविधैः स्तोत्रैः पूजयित्वा दिवं गताः

॥८३॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

प्रयागेश्वर देवस्य चंद्रादित्येश्वरं शृणु

॥८४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये उमामहेश्वरसंवादे प्रयागेश्वरमाहात्म्यवर्णनंनामैकसप्ततितमोऽध्यायः ॥ ७१ ॥