मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय २२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 22

कर्कटेश्वरमाहात्म्यवर्णनम्

श्रीविश्वनाथ उवाच

द्वाविंशतितमं विद्धि कर्कटेश्वरसंज्ञकम् ॥

यस्य दर्शनमात्रेण तिर्यग्योनिर्न दृश्यते

॥१॥

आसीत्पुरा बृहत्कल्पे धर्म मूर्तिर्जनाधिपः ॥

सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः

॥२॥

सोमसूर्यादयो यस्य तेजसा निष्प्रभाः कृताः ॥

प्रजाश्च पालिता येन निहत्य समरे द्विषः

॥३॥

यथेच्छारूपधारी च संग्रामेष्वपराजितः ॥

तस्य भानुमतीनाम भार्या त्रैलोक्यसुंदरी

॥४॥

राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी ॥

दशनारीसहस्राणां मध्ये श्रीरिव राजिता

॥५॥

नृपो नृपसहस्रेण न कदाचित्प्रमुच्यते ॥

कदाचिदेकांतगतः पप्रच्छ स्वपुरोहितम् ॥

विस्मयेनावृतमना वशिष्ठमृषिसत्तमम्

॥६॥

भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा ॥

कस्माच्च विपुलं तेजो दुःसहं मम दृश्यते

॥७॥

वशिष्ठ उवाच

पुरा त्वमवनीपाऽऽसीः शूद्रजातिसमुद्भवः ॥

बहुदोषसमाविष्टो दुष्टया भार्ययाऽनया

॥८॥

निवसन्दुष्टहृदयो वर्षाणि सुबहून्यपि ॥

महाक्रोधाभिभूतात्मा सदा निष्ठुरजल्पकः

॥९॥

सदा ब्रह्मस्वहारी त्वं सदा वेदविनिंदकः ॥

सदा चासूयको राजन्सदा विश्वासघातकः

॥१०॥

अथ पंचत्वमापन्नः काले नरकमाप्तवान् ॥

ताम्रभ्राष्ट्रे परं दग्धो दशवर्षाणि पंच च

॥११॥

रौरवे कुम्भिपाके च महारौरवसंज्ञके ॥

सूक्ष्माणि तिलमात्राणि कृत्वा खंडान्यनेकशः

॥१२॥

मूषायां धीमतो राजन्नसिपत्रे च दारितः ॥

शेषपातकशुद्ध्यर्थं धराया मवतारितः

॥१३॥

विधाय कार्कटं रूपं यमेन त्वयि पार्थिव ॥

शिवस्य सरो विख्यातं महाकालवनोत्तमे

॥१४॥

दत्तं जप्तं कृतं यच्च हुतं देवार्चनादि यत् ॥

सर्वं तदक्षयं कर्म तस्मिन्सरसि विश्रुतम्

॥१५॥

निक्षिप्तस्त्वं तदा तेन भाविपुण्येन कर्मणा ॥

तत्र स्थितस्त्वं भूपाल वर्षाणां पंचकं तथा

॥१६॥

कदाचित्तीरभूम्यां त्वं गतः संक्रीडितुं शनैः ॥

समीक्ष्य तत्र काकेन धृत्वा चंचुपुटेन च

॥१७॥

आकाशमार्गं चोड्डीनः स त्वया ताडितो भृशम् ॥

त्वत्तीक्ष्णपातैश्चरणैस्ताडितो व्यथितस्तदा

॥१८॥

मुक्तस्त्वं चंचुपुटतो वायसेनाकुलेन तु ॥

स्वर्गद्वारस्य पूर्वे तु देव्यगारे सुपुण्यदे

॥१९॥

शिवस्य क्षिप्तस्त्वं शीघ्रं चञ्च्वाक्षेपप्रपीडितः ॥

मृतोऽसि संनिधौ तत्र देवस्य परमेष्ठिनः

॥२०॥

विमुच्य देहं तज्जीर्णं यावत्तं कार्कटं पुरा ॥

तत्क्षणाद्दिव्य देहश्च दिव्याभरणभूषितः

॥२१॥

तस्य लिंगस्य माहात्म्याद्भूत्वा विद्याधरेश्वरः ॥

कामगेन विमानेन पूज्यमानो गणेश्वरैः

॥२२॥

स्वर्गे व्रजंस्त्वं संपृष्टः सुरसंघैश्च सादरम् ॥

कोयं महात्मा मुदितो याति दिव्यपथोंऽबरात्

॥२३॥

ततो रुद्रगणैः सर्वं सुराणां कथितं पुरा ॥

वृत्तांतं विस्तरात्सर्वं कार्कटत्वविमोचनूम्

॥२४॥

तस्य लिंगस्य देवेशाः प्रभावोऽयमुपस्थितः ॥

देवैः प्रोक्तं च सहसा लिंगस्यास्य प्रभावतः

॥२५॥

कार्कटीयोनि मुक्तस्य प्राप्तं स्वर्गसुखं यतः ॥

कर्कटेश्वरनामायमतो लोके भविष्यति

॥२६॥

तदाप्रभृति देवोऽयं कर्कटेश्वरसंज्ञकः ॥

त्वया स्वर्गे महाभोगा भुक्ता राजन्यथेच्छया

॥२७॥

आगतोऽसि पुनर्भूमौ लब्धं राज्यमकंटकम् ॥

तस्य लिंगस्य माहात्म्याज्जातं सर्वं तवाधुना

॥२८॥

तस्मात्पार्थिव भूयस्त्वं लिंगमाराधय द्रुतम् ॥

जातिस्मरत्वमापन्नो वशिष्ठवचनात्तदा

॥२९॥

पूर्वं कर्म स्मृतं तेन स्वकीयं पार्थिवेन तु ॥

पुनर्गत्वा च तल्लिंगं पूजयामास यत्नतः

॥३०॥

तस्मिँल्लिंगे लयं प्राप्तः स्वशरीरेण पार्वति ॥

येऽर्चयंति सदा भक्त्या कर्कटेश्वरसंज्ञकम् ॥

भुक्त्वा भोगांश्चिरं भूमौ ते यांति परमां गतिम्

॥३१॥

नियमेन प्रपश्यंति ये देवं कर्कटेश्वरम् ॥

अष्टम्यां वा चतुर्दश्यां तेषां पुण्यफलं शृणु

॥३२॥

सूर्यदीप्तिप्रतीकाशैर्विमानैः सार्वकामिकैः ॥

मृता मम पुरं यांति त्रिसप्तकुलसंयुताः ॥

तत्र दिव्यैर्महाभोगैः स्त्रीसहस्रैर्मनोरमैः ॥

कल्पकोटिशतैर्देवि सेव्यमाना वसंति हि

॥३४॥

तदंते विष्णुभवने तावत्कालं च संति हि ॥

वैष्णवैर्विविधैर्भोगैः स्त्रीसहस्रैस्तु सेविताः

॥३५॥

विष्णुलोकाद्ब्रह्मलोकं संप्राप्य मुदिताः पुनः ॥

भोगान्नानाविधान्भुक्त्वा ततो यांति परं पदम्

॥३६॥

दशाश्वमैधैर्यत्पुण्यं तत्फलं तीर्थयात्रया ॥

कर्कटेश्वरदेवस्य मेघनादेश्वरं शृणु

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कर्कटेश्वरमाहात्म्यवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥