इन्द्रेश्वरमाहात्म्यवर्णनम्
श्रीमहादेव उवाच
पंचत्रिंशत्तमं देवर्मिद्रेश्वरमनुत्तमम् ॥
महासिद्धिप्रदं देवि ब्रह्महत्याविनाशनम्
॥१॥आसीत्प्रजापतिस्त्वष्टा तस्य पुत्रः कुशध्वजः ॥
स्वकर्मनिरतो दांतो वासवेन निपातितः
॥२॥तस्य पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ॥
अवलुच्य जटामेकामिदं वचनमब्रवीत्
॥३॥अद्य पश्यंतु मे वीर्यं त्रयो लोकाः सदेवताः ॥
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः
॥४॥स्वकर्मनिरतो येन मत्सुतो विनिपातितः ॥
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम्
॥५॥ततो वृत्रः समुत्तस्थौ ज्वालामालासमाकुलः ॥
महाकायो महादंष्ट्रो भिन्नांजनचयप्रभः
॥६॥इंद्रशत्रुरमेयात्मा त्वष्टुस्तेजोऽभिबृंहितः ॥
अहन्यहनि सोऽवर्द्धदिषुपातं महाबलम्
॥७॥वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् ॥
चिंतयामास सहसा किं कृतं सुकृतं भवेत्
॥८॥एतस्मिन्नंतरे प्राप्तो वृत्रो बलवतां वरः ॥
ददर्श वासवं तत्र देवैः सार्द्धं वरानने
॥९॥दैत्यो वृत्रो महाकायश्चक्रे संग्राममुल्बणम् ॥
नानाशस्त्रास्त्रसंक्षोभं भटसंघट्टसंकटम्
॥१०॥छिन्नभिन्नतनुत्राणक्रोधरक्तधरातलम् ॥
लूनाननाब्जप्रकरं करपल्लवदुर्गमम्
॥११॥कबंधसंघघटनं घटितामरसैनिकम् ॥
विकीर्णाभरणस्फीतस्फुरद्योधांगभूषणम्
॥१२॥कल्लोलरुधिरोद्गारपाटलीकृतदिङ्मुखम् ॥
तस्मिन्रणे महाभीमे देवान्भित्त्वा सगुह्यकान्
॥१३॥वासवं बंधयित्वा तु स्वर्गलोकं जगाम ह ॥
राज्यं चकार निःशंको निस्सपत्नं वरानने
॥१४॥ततस्तु बद्धे देवेंद्रे बृहस्पतिरुदारधीः ॥
आजगाम तमुद्देशं यत्र बद्धः शतक्रतुः
॥१५॥दृष्ट्वा तथाविधं शक्रमाशीर्भिरभिनंद्य च ॥
बंधनान्मोचयित्वा तु प्रोवाचेदं वचस्तदा
॥१६॥अनुकूलो न कालोयं सुरेशस्य तवाधुना ॥
उद्योगः सुमहान्दृष्टः संघातश्च सुरद्विषाम् ॥
दृष्टा हि प्रवराः सर्वे मया तत्र महासुराः
॥१७॥एकैकोपि विजेतुं त्वां शक्तः स्यादिति मे मतिः ॥
न तादृक्संगमः शक्र कदाचित्सुरविद्विषाम् ॥
दृष्टो वापि श्रुतो वापि यादृशो ह्यवलोकितः
॥१८॥बृहस्पतिवचः श्रुत्वा शक्रः संभ्रममागमत ॥
ध्यात्वा मुहूर्त्तं प्रोवाच बृहद्बुद्धे बृहस्पते
॥१९॥किमत्र प्रतिकर्त्तव्यं वद तावद्बृहस्पते ॥
बहवो बलवंतश्च दानवाः स्वल्पकैर्दिनैः ॥
मत्सकाशं समेष्यंति स च वृत्रो महा बलः
॥२०॥इति शक्रवचः श्रुत्वा बृहस्पतिरुवाच तम् ॥
उपायः क्रियतां तूर्णं गच्छ शक्र ममाज्ञया
॥२१॥महाकालवने रम्ये खंडेश्वरस्य दक्षिणे ॥
सर्वसंपत्करं लिंगं विद्यते तत्र वासव
॥२२॥तदाराधय यत्नेन तत्ते कामं प्रदास्यति ॥
बृहस्पतिवचः श्रुत्वा शक्रः शीघ्रतरं गतः
॥२३॥महाकालवने देवि दृष्ट्वा लिंगमनुत्तमम् ॥
स्तुतिं चकार सहसा भक्तिनम्रात्मकंधरः
॥२४॥नमो देवाधिदेवाय शंकराय वृषाय च ॥
काम्याय बहुरूपाय व्यालयज्ञोपवीतिने ॥
वरेण्याय नमो नित्यं नमस्ते सर्वकामद
॥२५॥आद्यः प्रजा सृष्टिकरस्त्वमेव कालः प्रजाः संहरसि त्वमेव ॥
अपांपतिर्भूतपतिस्त्वमेव धनेश्वरस्त्वं दहनस्त्वमेव
॥२६॥चंद्रश्च सूर्यः पवन स्त्वमेव धाता विधाता परमः पुराणः ॥
जलाशयस्त्वं वरुणस्त्वमेव शैलोत्तमस्त्वं भुजगेश्वरश्च ॥
डिंडिर्महाकाल वृषस्त्वमेव विनायको गुह्यवरस्त्वमेव
॥२७॥इतीरितां स्तुतिं श्रुत्वा लिंगेनोक्तः शतक्रतुः ॥
गच्छ शक्र ममादेशान्मत्तेजोबृंहितो रणे ॥
हनिष्यसि न संदेहो वृत्रं रिपुविदारण
॥२८॥तस्य लिंगस्य माहात्म्यादपां फेनेन पार्वति ॥
जघान समरे वृत्रं पश्यतां त्रिदशद्विषाम्
॥२९॥निहत्य दानवान्पश्चाल्लीलया रणकर्कशः ॥
उवाचेन्द्रस्तदा देवान्हतो वृत्रो महारणे
॥३०॥त्रैलोक्याध्यक्षतां प्राप्ता भवंतो मत्पराक्रमात् ॥
एवमुक्तास्तु शक्रेण ते देवा विस्मयान्विताः
॥३१॥अस्य देवस्य माहात्म्याद्धतो वृत्रो महासुरः ॥
शरीरे च स्थिताः पापा दर्शनात्संक्षयं गताः
॥३२॥इन्द्रेणाराधितो यस्माद्देवदेवो महेश्वरः ॥
तस्मादिंद्रेश्वरोनाम ख्यातो भुवि भविष्यति
॥३३॥दर्शनादस्य लिंगस्य पुरीमिंद्रस्य शोभनाम् ॥
पापिनोपि गमिष्यंति सर्वपातकवर्जिताः
॥३४॥यः पश्यति नरो नित्यं श्रीइन्द्रेश्वरसंज्ञकम् ॥
स मुक्तः पातकैः सर्वैर्दिवि मोदिष्यते चिरम्
॥३५॥इंद्रेणाराधितं लिंगं भक्त्या यः पूजयिष्यति ॥
स याति वै परं स्थानं दिव्यकल्पचतुष्टयम्
॥३६॥येन चेंद्रेश्वरो देवो भक्त्या सम्यक्प्रपूजितः ॥
तेन विष्णुप्रभृतयो वयं सर्वे सवासवाः ॥
मुनयो लोकपालाश्च पूजिताः स्युर्न संशयः
॥३७॥इत्युक्तः स सुरैः शक्रो वैकुण्ठाद्यैः समंततः ॥
तैरेव सहितो देवो जगामाथ त्रिविष्टपम्
॥३८॥इंद्रेश्वरस्य देवस्य प्रभावः कथितस्त्वयम् ॥
मार्कंडेयेश्वरं देवं शृणु पार्वति सांप्रतम्
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥