नूपुरेश्वरमाहात्म्यवर्णनम्
श्रीदेवदेव उवाच
सप्ताधिकं विजानीहि नूपुरेश्वरसंज्ञकम् ॥
यस्य दर्शनमात्रेण प्राप्यंते सर्वसिद्धयः
॥१॥पुरा राथन्तरे कल्पे नूपुरोनाम वै गणः ॥
रुद्रभक्तिपरोनित्यं पंचमुद्राविभूषितः
॥२॥स एकदा कुबेरस्य सभायां प्राप्य संस्थितः ॥
द्रष्टुं महोत्सवं तत्र अप्सरोभिः कृतं तदा
॥३॥ननृतुश्चापरास्तत्र ह्युर्वशी योषितां वरा ॥
रंभा तिलोत्तमा मेना ननृतुर्हर्षसंयुताः
॥४॥तासां नृत्यं तदा वीक्ष्य नूपुरो गणपस्तदा ॥
कामबाणार्दितो नूनं तासां मध्ये ननर्त्त ह
॥५॥नृत्यमानस्ततो हृष्टः पुष्पगु च्छेन वक्षसि ॥
उर्वशीं ताडयामास कामबाणप्रपीडितः
॥६॥उर्वशी तु ततः क्रुद्धा पुष्पगुच्छेन ताडिता ॥
जगाम शरणं देवं धनदं सर्वकामदम्
॥७॥उवाच धनदस्तत्र क्रोधेनाकुलमानसः
॥८॥यस्मात्त्वया रंगभंगः कृतः कामार्द्दितेन वै ॥
तस्मात्त्वं मानुषे लोके पतस्व पापपूरुष
॥९॥कुबेरस्य च शापात्तु जगाम धरणीतलम् ॥
विललाप सुदुःखार्त्तः किं कृतं पापिना मया
॥१०॥विलप्य सुभृशं सोऽथ शरणं परमेश्वरीम् ॥
जगाम मनसा देवि त्वां स वै वरदायिनीम्
॥११॥त्वं तुष्टा तु तदा जाता प्रत्यक्षा परमेश्वरी ॥
उवाच गणपं प्रीत्या भक्तिनम्रं तदा भुवि
॥१२॥गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ॥
प्राचीसरस्वती तत्र वाप्याकारा च विद्यते
॥१३॥तस्या दक्षिणतो वत्स विद्यते लिंगमुत्तमम् ॥
वाप्यां स्नात्वा च तल्लिंगं समाराधय भक्तितः
॥१४॥सा प्राची स च देवेशस्त्वन्नाम्ना ख्यातिमेष्यति ॥
इत्युक्तो नूपुरो देवि महाकालवनं गतः
॥१५॥त्वया च प्रेरितो देवि कीर्त्यर्थं तत्र गम्यताम् ॥
इत्युक्तो नूपुरो दिव्यो गणो हृष्टः कृतांजलिः
॥१६॥महाकालवनं रम्यं देवगंधर्वसेवितम् ॥
ददर्श तत्र तल्लिंगं सुरगन्धर्वसेवितम्
॥१७॥प्राची सरस्वती तत्र वाप्याकारा च संस्थिता ॥
तस्यां स्नात्वा ततो देवं पूजयामास नूपुरः
॥१८॥ततो देवः प्रसन्नात्मा प्रत्युवाचाथ नूपुरम् ॥
साधु नूपुर भद्रं ते स्वस्ति प्राप्नुहि सर्वदा
॥१९॥भविता वल्लभो देव्याः पार्वत्याः शंकरस्य च ॥
इत्युक्तस्तेन लिंगेन तत्क्षणान्नूपुरः प्रिये
॥२०॥उदितादित्यसंकाशो विभावसुसम द्युतिः ॥
तेजोराशिश्च संजातो दुर्निरीक्ष्यस्त्रिविष्टपैः
॥२१॥प्रभावं तादृशं दृष्ट्वा देवैरुक्तं वरानने ॥
अहो लिंगस्य माहात्म्यं दृश्यतेत्यद्भुतं भुवि
॥२२॥प्राप्ता च कामिकी सिद्धिर्नूपुरेण च दर्शनात् ॥
अतो देवोऽद्यप्रभृति विख्यातो भूतलेऽभवत्
॥२३॥सर्वकामप्रदो नित्यं नूपुरेश्वर नामतः ॥
दर्शनं ये करिष्यंति स्नात्वा वाप्यां समाहिताः
॥२४॥नूपुरेश्वररुद्रस्य ते यांति परमं पदम् ॥
ये च पूजां करिष्यंति भक्तिभावसम न्विताः ॥
वसंति मुदिताः सर्वे यावदाभूतसंप्लवम्
॥२५॥जन्ममृत्युजरारोगदुःखानि विविधानि च ॥
प्रयांति विलयं सद्यः पूजिते नूपुरेश्वरे
॥२६॥वापी गंगासमा सा तु स्वयमेव शुभेक्षणे ॥
संगमस्तु वितस्तायां यमुनायास्तु सुव्रते ॥
प्रयागमेतज्जानीहि भूधरेंद्रांगसंभवे
॥२७॥सोमतीर्थं तदा देवि सर्वपातकनाशनम् ॥
तत्र स्नात्वा पुमान्देवि वाजपेयफलं लभेत्
॥२८॥कृष्णाष्टम्यां च यः स्नात्वा पूजयेन्नूपुरेश्वरम् ॥
कुलं वै तारयेत्सोपि मातृकं पितृकं शतम्
॥२९॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
नूपुरेश्वरदेवस्य श्रूयतामभयेश्वरम्
॥३०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये नूपुरेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशो ऽध्यायः ॥ ४७ ॥