मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६७

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 67

केदारेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

सप्तषष्टिकसंख्याकं केदारेश्वरसंज्ञकम् ॥

देवं शृणु वरारोहे दर्शनात्पापनाशनम्

॥१॥

सृष्टिकाले पुरा देवि देवा व्याप्ता हिमेन हि ॥

शीतार्त्ता विह्वलाः सर्वे ब्रह्माणं शरणं गताः

॥२॥

हिमाद्रिणार्दिताः सर्वे वयं देव जगत्पते ॥

त्राहि भीतांश्चतुवक्त्र पितामह नमोऽस्तु ते

॥३॥

देवानां वचनं श्रुत्वा प्रोक्तं वै ब्रह्मणा प्रिये ॥

पीडिता हिमशैलेन शंकरश्वशुरेण च

॥४॥

नाहं यातुं समर्थोऽस्मि सत्यमेतन्मयोदितम् ॥

महादेव मृते देवा गतिरन्या न विद्यते

॥५॥

स एव शरणं देवः सर्वेषां नो भविष्यति ॥

तस्याज्ञया मया सर्वे पर्वता रचिताः पुरा

॥६॥

कृता बुद्धिर्विचित्रा च हिमाद्रिश्च मया कृतः ॥

असेव्यः सर्वजंतूनामधृष्यो दुर्गमो गिरिः

॥७॥

हिमाचलस्य तस्यैव शास्ता देवो महेश्वरः ॥

तस्माद्यास्यामहे देवा कैलासं पर्वतोत्तमम्

॥८॥

यत्र तिष्ठति विश्वात्मा देवदेवो महेश्वरः ॥

एवमुक्त्वा गतो ब्रह्मा देवैः सार्द्धं ममांतिकम् ॥

दृष्टोहं पूजितस्तैस्तु स्तुतोऽहं विविधैः स्तवैः

॥९॥

मया संमानिता देवाश्चतुवक्त्रः प्रपूजितः ॥

पूजयित्वा मया पृष्टो ब्रह्मा गमनकारणम् ॥

किं कार्यं त्रिदशैः सार्द्धमागतोऽसि पितामह ॥

कथितं ब्रह्मणा सर्वं श्रुतं सर्वं मया प्रिये

॥११॥

हिमाचलं समाहूय मर्यादा च कृता मया ॥

शैलानां राजराजत्वे हिमाद्रिश्च प्रतिष्ठितः

॥१२॥

देवानां विषयाश्चैव गंधर्वाणां तथैव च ॥

यक्षाणामथ नागानां किंनराणां तथैव च

॥१३॥

विद्याधराणां क्रीडार्थं पृथक्पृथङ्निवेशिताः ॥

रूपतो भाति शैलेंद्रः शुद्धस्फटिकसंनिभः

॥१४॥

जाह्नवीनिर्झरोष्णीषः शर्वाणीजनकस्तथा

॥१५॥

सर्वदेवमयो दिव्यः सर्वतीर्थमयः कृतः ॥

सर्वाश्रमनिवासश्च सर्वामरनिषेवितः

॥१६॥

एवं संस्थाप्य शैलेंद्रं लिंगमूर्त्तिरहं स्थितः ॥

विख्यातस्त्रिषु लोकेषु केदारेश्वरनामतः

॥१७॥

उदकं निर्मितं तत्र मंत्रपूर्णं मया प्रिये ॥

माहात्म्यं विविधं प्रोक्तं लिंगस्य च जलस्य च

॥१८॥

योत्रागत्य नरो भक्त्या सम्यङ्मां पूजयिष्यति ॥

जलं योऽत्रैव गृह्णाति विधानेन वरानने ॥

तस्योदरे भविष्यामि लिंगरूपी न संशयः

॥१९॥

इत्युक्ते वचने देवि सदेवासुरपन्नगाः ॥

यक्षरक्षःपिशाचाश्च भूतवैतालकिंनराः

॥२०॥

विद्याधरगणाश्चैव मम दर्शनलालसाः ॥

समायाता वरारोहे पीत्वा तत्र जलं शुभम्

॥२१॥

दृष्टोऽहं विधिना तैस्तु लिंगमूर्त्तिगतः प्रिये ॥

मम तुल्याश्च ते जातास्तस्मिन्नद्रिवरे स्थिताः ॥

जनलोकगतैः सिद्धैः पूज्यमाना वरानने

॥२२॥

अथ कालेन बहुना श्रुत्वा माहात्म्यमुत्तमम् ॥

केदारेश्वरदेवस्य जलस्य च विशेषतः

॥२३॥

मनुष्याः समुपायातास्ते रजोबहुला यतः ॥

तमःप्राया विशालाक्षि तदाहं माहिषं वपुः

॥२४॥

कृतवांस्तद्भयार्थाय न च ते भीतिमागताः ॥

इह देवोत्र देवोऽत्र बभ्रमुस्ते दिदृक्षवः

॥२५॥

न तैर्दृष्टो महादेवि यतोऽहं महिषाकृतिः ॥

स्थितोऽस्म्यलक्ष्यरूपेण ततस्ते दीनमानसाः ॥

उद्विग्ना निश्वसन्तश्च वैराग्यं परमं गताः

॥२६॥

नात्र देवो न तीर्थानि न गंगा पुण्यदायिनी ॥

न धर्मो न परो लोकः सर्वमे तद्विडम्बनम्

॥२७॥

एवं किल पुराणेषु श्रूयते सर्वदा श्रुतौ ॥

हिमालये च केदारं लिंगं मोक्षप्रदायकम्

॥२८॥

एवं तु वदतां तेषां मानुषाणां यशस्विनि ॥

आकाशादुत्थिता वाणी मया प्रोक्तानुकंपया

॥२९॥

अमार्गं मा वदत्वत्र न निंद्याः श्रुतयोऽव्ययाः ॥

पुराणं नान्यथा प्रोक्तं ब्रह्मणा लोककर्तृणा

॥३०॥

ये निंदंति पुराणानि धर्मशास्त्राणि नास्तिकाः ॥

ते यांति नरकं घोरं यावदाभूतसंप्लवम्

॥३१॥

सदा देवोत्र केदारः स्वर्गमोक्षप्रदायकः ॥

विद्यते त्रिदशैः पूज्यः सततं नैव दृश्यते

॥३२॥

करोति पूजां हिमवान्मासानष्टौ च शाश्वतान् ॥

हिमाद्रिस्तेन पुण्येन नगेन्द्रस्तु कृतो नगैः ॥

सेव्यश्च रमणीयश्च सर्वतीर्थनमस्कृतः

॥३३॥

सर्वरत्ननिधानश्च देवानां वल्लभस्तथा ॥

ग्रीष्मे चैव वसन्ते च देवदेवोऽत्र दृश्यते

॥३४॥

नियतेनैव कालेन मानुषाणां च सर्वदा ॥

यदि बुद्धिः परा जाता सर्वदा मम दर्शने

॥३५॥

आख्यास्ये तदुपायं च श्रूयतां सावधानतः ॥

मा विकल्पोऽत्र कर्त्तव्यः सर्वान्कामानवाप्स्यथ

॥३६॥

क्षेत्राणामुत्तमं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ॥

प्रलयेऽप्यक्षयं प्रोक्तं महाकालवनं नराः

॥३७॥

तत्राहं संभविष्यामि लोकानामनुकंपया ॥

लिंगरूपेण शिप्रायास्तटे पुण्ये सुशोभने

॥३८॥

सोमेश्वरस्य देवस्य पश्चिमे स्थानमुत्तमम् ॥

प्रसिद्धमुपयास्यामि केदारेश्वरनामतः

॥३९॥

सर्वदा दर्शनं तत्र मया सार्द्धं भविष्यति ॥

सर्वेषां च प्रदास्यामि सर्वा न्कामान्न संशयः

॥४०॥

इह यावत्फलं तस्माद्दास्यामि ह्यधिकं ततः ॥

इति ते मानवाः सर्वे श्रुत्वा वाणीं मनोरमाम् ॥

आकाशादुत्थितां दिव्यां मनःप्रह्रादकारिकाम्

॥४१॥

गता वनं महाकालं संस्मरन्तो महेश्वरम् ॥

विकल्पेन विचित्रेण सत्यमेवेति नान्यथा

॥४२॥

स्नात्वा शिप्राजले पुण्ये यावत्पश्यन्ति भास्करम् ॥

तावदृष्टिपथोत्पन्नं लिंगं पापप्रणाशनम्

॥४३॥

अथ ते हर्षिताः प्रोचुः केदारोऽयं न संशयः ॥

दृष्टोऽस्माकं न सन्देहो गंगा शिप्राजले स्थिता

॥४४॥

ततस्ते पूजयामासुः पुष्पैर्नानाविधैस्तथा ॥

पूजितोऽहं विशालाक्षि तेषां तुष्टो वरानने

॥४५॥

दुर्लभोऽतिवरो दत्तः कैलासे स्थानमुत्तमम् ॥

अक्षयं च पदं दत्तं पुनरावृत्तिवर्जितम्

॥४६॥

अतोऽहं त्रिदशैः प्रोक्तः केदारेश्वरना मतः ॥

प्रार्थितः परया भक्त्या लोकानामनुकंपया

॥४७॥

इहागत्य नरा ये च त्वां पश्यंति सुभक्तितः ॥

तेषां फलं त्वया देव दातव्यमधिकं यतः

॥४८॥

हिमाद्रौ हिमनाथस्य यात्रायाः प्रत्यहं फलम् ॥

लभन्ते च नरा नित्यं नात्र कार्या विचारणा

॥४९॥

ब्रह्महा वा सुरापो वा स्ते यी वा गुरुतल्पगः ॥

तत्संपर्की नरो यस्तु त्वां दृष्ट्वा किल्विषाकरः

॥५०॥

सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् ॥

चांद्रायणानां विधि वच्छतानां चैव यत्फलम् ॥

तत्फलं समवाप्नोति केदारेश्वरदर्शनात्

॥५१॥

ते नराः पशवो लोके तेषां जन्म निरर्थकम् ॥

यैर्न दृष्टो महाकाले केदारेश्वरसंज्ञकः

॥५२॥

कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम् ॥

तत्पापं संक्षयं याति केदारेश्वरदर्शनात्

॥५३॥

हिमालयकृता यात्रा तस्याः प्रोक्तं च यत्फलम् ॥

तत्फलं समवाप्नोति केदारेश्वरदर्शनात्

॥५४॥

इत्युक्तोऽहं तदा देवि देवैः प्रणतिपूर्वकम् ॥

तथेति च मया प्रोक्तं तेऽपि देवा दिवं गताः

॥५५॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

केदारेश्वरदेवस्य पिशाचाख्यमतः शृणु

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये केदारेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥