आशीतिकं विजानीहि देवं स्वप्नेश्वरं प्रिये
ईश्वर उवाच
आशीतिकं विजानीहि देवं स्वप्नेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण दुःस्वप्नं नश्यति ध्रुवम्
॥१॥कल्माषपादेति ख्यातो लोके राजा बभूव ह ॥
इक्ष्वाकुवंशजो देवि तेजसा सूर्यवद्भुवि
॥२॥स कदाचिद्वने राजा वशिष्ठसुतमौरसम् ॥
शक्तिं परमधर्मज्ञं ददर्श विजितेंद्रियम् ॥
मार्गस्थितं तपोनिष्ठमपगच्छेति चाब्रवीत्
॥३॥अमुंचंतं तु पंथानं तमृषिं नृपसत्तमः ॥
जघान कशया मोहात्तदा राक्षसवन्मुनिम्
॥४॥कशाप्रहाराभिहतस्ततः स मुनिपुंगवः ॥
तं शशाप रुषाविष्टो वाशिष्ठः क्रोधमूर्छितः
॥५॥हंसि राक्षसवद्यस्माद्राजापसद तापसम् ॥
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यति
॥६॥सततं पिशितासक्तश्चरिष्यसि महीमिमाम् ॥
स तु शप्तस्तदा तेन तत्क्षणाद्वै नृपोत्तमः
॥७॥जगाम शरणं शक्तिं प्रसादयितुम र्हयत् ॥
यदा न तुष्टो विप्रर्षिः शक्तिः परमकोपनः ॥
प्रसाद्यमानो भूपेन तदा तेनापि भक्षितः
॥८॥शक्तिं तं भक्षयित्वा तु वशिष्ठस्यापरान्तु तान् ॥
भक्षयामास सहसा सिंहः क्षुद्रमृगानिव
॥९॥तदाप्रभृति संजातः पुरुषादो नृपोत्तमः ॥
रात्रौ पश्यति दुःस्वप्नान्पापसंघेन मोहितः
॥१०॥दृष्ट्वा भयानकान्स्वप्नान्स राजा पर्य्यतप्यत ॥
पश्चात्तापेन संयुक्तो विललाप सुदुःखितः
॥११॥अथाप्युक्तममात्यैश्च किं करोषि महीपते ॥
कस्मात्ते निष्प्रभा कांतिर्विवर्णो हरिणः कृशः
॥१२॥स राजा कथयामास दुःस्वप्नाननुपूर्वशः ॥
स्वप्नेऽहं सागरं शुष्कं चन्द्रं च पतितं भुवि
॥१३॥उपरुद्धां च जगतीं घनेन तमसा वृताम् ॥
आत्मानं चाहमद्राक्षं मलिनं मुक्तमूर्द्धजम्
॥१४॥पतंतमद्रिशिखरात्कलुषे गोमये ह्रदे ॥
पिबन्नंजलिना तैलं हसन्निव मुहुर्मुहुः
॥१५॥तैलेनाभ्यक्तसर्वांगस्तैलमेवावगाहयन् ॥
पीठे कार्ष्णायसे चैव निषण्णोऽहमधो मुखः
॥१६॥गायंति प्रमदा रक्ता रक्तमाल्यानुलेपनाः ॥
कृष्णांबरधराश्चान्याः कृष्णमाल्यानुलेपनाः
॥१७॥ताभिराकृष्यमाणोऽपि नीतोऽहं दक्षिणां दिशम् ॥
बद्ध्वा रज्ज्वा सुवर्णस्य लोहस्य रजतस्य च
॥१८॥पांसुकर्दमयोर्मध्ये मग्नोहं लोहयंत्रितः ॥
कपोतैस्तुद्यमानोऽहं गृध्रैः काकैश्च दारुणैः
॥१९॥सृगालैर्भक्ष्यमाणश्च स्थितो मद्गुरमस्तके ॥
ऋक्षवानरयानस्थो गतोऽहं दक्षिणां दिशम्
॥२०॥नदीं निमग्नो निश्चेष्टो जलहीनां महीसमाम् ॥
दंतैर्विदारितो रात्रौ रासभेनाहमर्द्दितः
॥२१॥ताडितो हदयेत्यर्थं चरणैर्वज्रसंनिभैः ॥
दृष्टिश्च हन्यतेऽत्यर्थं वेतालैर्लोहशं कुभिः
॥२२॥करालैः कंटकैः कृष्णैः पुरुषैरुद्यतायुधैः ॥
स्वप्नेहं ताडितोत्यर्थमप्रमाणैः शितैः शरैः
॥२३॥एवमेतन्मया दृष्टमिमांरात्रिं भयावहाम् ॥
संख्यां कर्तुं न शक्येत दुःस्वप्नानपरान्बहून्
॥२४॥इमां तु दुःस्वप्नगतिं निरीक्ष्य वै ह्यनेकरूपामविचिंतितां पुरा ॥
भयं महन्मे हृदयं न शुद्ध्यति प्रगृह्य बाहू विलपाम्यनाथवत्
॥२५॥नृपस्य वचनं श्रुत्वा अमात्या भृशदुःखिताः ॥
पश्यंतो दुर्निमित्ताश्च उल्कापातादिकास्तदा
॥२६॥सौरि सूर्यकुजाक्रांतं नगरं दृश्यतेऽधुना ॥
नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा
॥२७॥करणानि न शस्यंते मुहूर्त्ता दारुणाभवन् ॥
विदित्वा नृपभंगं तु देशभंगकुलक्षयम्
॥२८॥आश्वासयंतो राजानमिदं वचनमब्रुवन् ॥
अलं शोकेन काकुत्स्थ सत्यासत्या हि विभ्रमाः
॥२९॥दृश्यंते भाविताः पुंसि स्वप्ने धातुवशेन हि ॥
तथा पित्रादिदेवांश्च पूजय ब्राह्मणांस्तथा
॥३०॥एभिस्ततो मोक्ष्यसे त्वं मानसादधिविभ्रमात् ॥
यस्माद्दैवोपघातानां दैवमेव हि रक्षणम्
॥३१॥एवमाश्वासितो भूपो ह्यमात्यैर्धर्मकोविदैः ॥
तत्पापं कथयामास गुरुपुत्रवधादिकम्
॥३२॥वशिष्ठस्य सुतो ज्येष्ठः शक्ति र्वै भक्षितो मया ॥
नृशंसेन तथामात्या एकोनं भक्षितं शतम्
॥३३॥तेन पापेन संतप्तः कथं स्वस्थो भवामि वै ॥
एकापि ब्रह्महत्याया सापि दैवात्सुदुष्करा
॥३४॥मया पुनर्नृशंसेन सा तथा न तु वर्जिता ॥
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम् ॥
राक्षसोऽहमनेनैव शरीरेण कुलांतकृत्
॥३५॥जातः कुले रघूणां वै पापात्मा पापसंभवः ॥
सोऽहमत्र मरिष्यामि साधयित्वा हुताशनम्
॥३६॥इति तस्य वचः श्रुत्वा सौदासस्य सुविस्मिताः ॥
अमात्या वेदतत्त्वज्ञाः सर्वशास्त्रविशारदाः
॥३७॥अहो पापमिदं भूरि कृतं पापेन सर्वथा ॥
प्रायश्चित्तं न जानीमो वशिष्ठेन विनाऽधुना
॥३८॥तस्मादद्यैव गंतव्यमस्य भूपस्य कारणात् ॥
यत्र तिष्ठति विप्रर्षिर्वशिष्ठो भगवान्मुनिः
॥३९॥इत्युक्त्वा सहितास्तेन तेऽमात्या भृशदुःखिताः ॥
गत्वा यत्राश्रमे विप्रो वशिष्ठो भगवानृषिः
॥४०॥अदृश्यंतीं वधूं दीनां यत्राश्वासयति प्रभुः ॥
अदृश्यंती तु तं दृष्ट्वा कूरकर्माणमग्रतः ॥
भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत्
॥४१॥असौ मृत्युरिवोग्रेण दण्डेन वहुगर्वितः ॥
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः
॥४२॥तन्निवारयितुं शक्तो नान्यो वै भुवि कश्चन ॥
त्वामृतेऽद्य महाभाग सर्ववेदविदां वर
॥४३॥त्राहि मां भग वन्पापादस्माद्दारुणदर्शनात् ॥
राक्षसोऽयमिहागत्य नूनमावां समीहते
॥४४॥वशिष्ठ उवाच
मा भैः पुत्रि न भेतव्यं राक्षसात्ते कथंचन ॥
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥
राजा कल्माषपादोऽयममात्यैः सहितो विभुः
॥४५॥स एषोऽस्मिन्वनोद्देशे समा यातो ममांतिकम् ॥
तमायांतमथालक्ष्य वशिष्ठो भगवानृषिः ॥
वारयामास तेजस्वी हुंकारेण नृपोत्तमम्
॥४६॥मन्त्रपूतेन च ततः समभ्युक्ष्य च वारिणा ॥
मोक्षयामास वै भावाद्राक्षसाद्राजसत्तमम्
॥४७॥प्रतिलभ्य ततः संज्ञामभिवाद्य कृतांजलिः ॥
उवाच नृपतिः काले वशिष्ठमृषिसत्त मम्
॥४८॥सौदासोऽहं महाभाग दासोऽहं तव सुव्रत ॥
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते
॥४९॥तस्य तद्वचनं श्रुत्वा नृपस्य द्विजसत्तमः ॥
ज्ञात्वा तपोबलेनैव विश्वामित्रस्य चेष्टितम् ॥
राजानं प्रत्युवाचेदं विनयावनतं तथा
॥५०॥ज्ञातमेव यथाकालं गच्छ राजन्कुश स्थलीम् ॥
महाकालसमीपे तु लिंगं दुःस्वप्ननाशनम्
॥५१॥राजसंपत्करं दिव्यं पुत्रपौत्रविवर्द्धनम् ॥
ब्रह्महत्यासहस्राणां स्फोटनं पापनाश नम् ॥
तस्य दर्शनमात्रेण विपाप्मा च भविष्यसि
॥५२॥दुःस्वप्नजं भयं घोरं विनंक्ष्यति न संशयः ॥
ग्रहाश्च सानुकूलास्ते भविष्यन्ति नृपो त्तम
॥५३॥इत्युक्तो गुरुणा भूयो वशिष्ठेन महात्मना ॥
जगाम त्वरितो देवि महाकालवनं शुभम् ॥
ददर्श तत्र तल्लिंगं दुष्टदुःस्वप्ननाशनम्
॥५४॥नष्टाः सर्वेपि दुःस्वप्नाः सुस्वप्नाश्चाभवंस्तदा ॥
राजा निष्कल्मषो भूत्वा पुनः प्राप्नोन्निजं पदम् ॥
अयोध्यायां गतो राज्यं चकार मुदितस्तदा
॥५५॥तदाप्रभृति देवोऽयं सुस्वप्नेश्वरसंज्ञकः ॥
बभूव भुवने ख्यातः सर्वदुःस्वप्ननाशनः
॥५६॥अष्टम्यां च चतुर्दश्यां देवं स्वप्नेश्वरं शिवम् ॥
दर्शनं ये करिष्यंति स्नात्वा शिप्राजले शुभे ॥
आजन्मप्रभवं तेषां दुःस्वप्नं च विनश्यति
॥५७॥स एव सर्वदा पूज्य इह लोके परत्र च ॥
यः पश्यति नरो भक्त्या देवं स्वप्नेश्वरं शिवम्
॥५८॥यं यं काममभिध्याय मनसाभिमतं नरः ॥
तं तं दुर्ल्लभमाप्नोति सुस्वप्नेश्वरदर्शनात्
॥५९॥नियमेन प्रपश्यंति देवं स्वप्नेश्वरं सदा ॥
ते प्रयांति तनुं त्यक्त्वा मदीयं भवनं प्रिये
॥६०॥भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः ॥
सुपुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि
॥६१॥ये च पुष्पैर्विचित्रैश्च पूजयन्ति च पर्वसु ॥
ते सर्वकामसंपन्नाः श्रीबलारोग्यसंयुताः ॥
दीर्घायुषः शुभाचारा जायन्ते देहिनोऽमलाः
॥६२॥एते च ब्रह्मविष्ण्विंद्रकुबेरदहनादयः ॥
सुस्वप्नं परमं प्राप्ताः श्रीस्वप्नेश्वरदर्शनात्
॥६३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
स्वप्नेश्वरस्य देवस्य शृणु लिंगचतुष्टयम्
॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे उमामहेश्वरसंवादे स्वप्नेश्वरमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः ॥ ८० ॥