अष्टाधिकं विजानीहि चत्वारिंशत्तमं प्रिये
श्रीरुद्र उवाच
अष्टाधिकं विजानीहि चत्वारिंशत्तमं प्रिये ॥
यस्य दर्शनमात्रेण न भवस्य भयं भवेत्
॥१॥कल्पावसाने प्रथमे पाद्मे पद्मनिभेक्षणे ॥
नष्टचंद्रार्कनक्षत्रे नष्टभूमित्रिविष्टपे ॥
ब्रह्मा वै चिंतयामास कथं सृष्टिर्भवेदिति
॥२॥इत्याकुलितरूपस्य तस्य नेत्रद्वयात्तदा ॥
पपाताश्रुकणः स्थूलो नेत्राद्वामान्महात्मनः
॥३॥तस्मादश्रुकणाज्जातो हारवोनाम दानवः ॥
तीक्ष्णदंष्ट्रो महाकायो भिन्नांजनचयप्रभः
॥४॥दक्षिणान्नयनाज्जातः कालकेलीतिविश्रुतः ॥
कृष्णदेहोऽतिदीर्घश्च महादंष्ट्रोर्ध्वरोमकः
॥५॥करालवदनो दुष्टो यमरूपो दुरासदः ॥
कृष्णांजनचयाकारः पाशपाणिर्विभीषणः
॥६॥तौ तु दैत्यौ समागत्य कृतसंकेतकौ तदा ॥
ब्रह्माणं हंतुमिच्छंतौ प्रमत्तावभिधावितौ
॥७॥ततो ब्रह्मा भयाविष्टः कांदिशीकश्चचार ह ॥
ततो जलेऽतिगंभीरे सोऽपश्यदमितद्युतिम्
॥८॥पुरुषं पीतवसनं शंखचक्रगदाधरम् ॥
तमालोक्य ततो ब्रह्मा संत्रासं परमं गतः ॥
उवाच को भवाञ्छेते निःशेषेस्मिंश्चराचरे
॥९॥तमुवाच ततो विष्णुरहमेवं जगत्पिता ॥
लोककृल्लोकसंहर्त्ता लोकस्थितिविधायकः
॥१०॥इत्युक्तः पद्मजस्तेन कृष्णेनाक्लिष्टकर्मणा ॥
प्रत्युवाच तदा ब्रह्मा स्रष्टाहं भुवनत्रये
॥११॥मया सृष्टं जगत्सर्वं सदेवासुरमानुषम् ॥
अत्रांतरे च तौ दैत्यावायातौ बलदर्पितौ
॥१२॥भोक्तुकामौ क्षुधाविष्टौ दृष्ट्वा ब्रह्माब्रवीदिदम् ॥
कृष्णं कमलपत्राक्षं कंपिताधरपल्लवः
॥१३॥यदि त्वं कारणं किंचिदस्य लोकस्य कथ्यसे ॥
तदा तावसुरौ भीमौ हंतुमर्हसि सांप्रतम्
॥१४॥तच्छ्रुत्वा तु तदा विष्णुर्ज्ञात्वा दुःखं परस्परम् ॥
क्षणं विश्रम्यतां तावत्पश्चाद्द्वंद्वं भविष्यति
॥१५॥इत्युक्त्वा कृतसंकेतौ तौ दैत्यौ बलगर्वितौ ॥
ब्रह्मनारायणौ हंतुं धावितौ तु त्वरान्वितौ
॥१६॥ब्रह्मविष्णू तदा दृष्ट्वा दानवौ दुर्जयौ रणे ॥
संत्रासं जग्मतुस्तत्र स्वेदकंपपरिप्लुतौ
॥१७॥अन्योन्यमूचतुस्तौ हि देशकालोचितं वचः ॥
कर्तव्यं किं नु वा कार्यं मम वा तव वा भवेत्
॥१८॥उपस्थितं भयं घोरं तत्र किं कार्यमस्ति नौ ॥
आसन्नं मरणं दृष्ट्वा ब्रह्मा प्रोवाच केशवम्
॥१९॥गम्यतां कृष्ण शीघ्रं वै महाकालवनोत्तमम् ॥
प्रलयेऽप्यक्षयं प्रोक्तं तत्र रक्षा भविष्यति ॥
अहं तत्र गमिष्यामि व्रज त्वं तत्र केशव
॥२०॥इत्युक्तो ब्रह्मणा कृष्णो जगाम सह तेन वै ॥
महाकालवनं प्राप्तौ न च दृष्टो महेश्वरः ॥
तत्रापि दशसाहस्रकालः पर्यटतोस्तयोः
॥२१॥ततो ज्वालामयं दिव्यं नूपुरेश्वरदक्षिणे ॥
दृष्ट्वा तल्लिंगमाहात्म्यं ब्रह्मविष्णू ततः स्वयम् ॥
प्रार्थयांचक्रतुर्देवमभयं देहि नौ प्रभो
॥२२॥शरणं भव देवेश दानवाभ्यां प्रपीडितौ ॥
अभयं च ततो दत्तं तेन लिंगेन पार्वति
॥२३॥शुश्राव गर्जितं ताभ्यां दानवाभ्यां पितामहः ॥
प्रत्युवाच भयत्रस्तो लिंगं कंपितकं धरः
॥२४॥स एष मृत्युरस्माकमेति शीघ्रं भयावहः ॥
दीयतामभयं देव कृष्णेनोक्तं तदा प्रिये
॥२५॥भयार्त्तवचनं श्रुत्वा ब्रह्मणः केशवस्य च ॥
तौ दैवौ तेन लिंगेन जठरे संनिवेशितौ
॥२६॥दृष्टं ताभ्यां जगत्सर्वं सार्कचंद्रमहीधरम् ॥
ससिद्धगंधर्वकुलं शैलताललताकुलम्
॥२७॥समुद्रपीठसंयुक्तं नानावर्णाश्रमोज्ज्वलम् ॥
सपातालतलं देवि सभुजंगमहीरुहम्
॥२८॥ससप्तलोकविन्यासं सदेवासुरराक्षसम् ॥
पुनस्तौ निःसृतौ तस्माज्जठराद्विस्मयान्वितौ
॥२९॥दृष्ट्वौ भस्मीकृतौ दैत्यौ तेन लिंगेन पार्वति ॥
तुष्टुवाते परं लिंगं भक्त्या परमया युतौ
॥३०॥लिंगेनोक्तं प्रसन्नेन भवद्भ्यां किं ददाम्यहम् ॥
ममामोघमिदं देवौ दर्शनं चातिदुर्लभम्
॥३१॥ततो ब्रह्मा च विष्णुश्च वरयामासतुर्वरम् ॥
यदि देयो वरोऽ स्माकं नृणामभयदो भव
॥३२॥ये च त्वां पूजयिष्यंति यक्ष्यंति च समाहिताः ॥
संस्मरिष्यंति सततं तेषामभयदो भवे
॥३३॥अभयेश्वरसंज्ञस्तु ख्यातो भुवि भविष्यसि ॥
ते कृतार्था भविष्यंति ये त्वां पश्यंति भक्तितः
॥३४॥भविष्यति भयं नैव संसारपतनं तथा ॥
धनपुत्रकलत्राणां वियोगो न भविष्यति
॥३५॥दुःखिता दुर्भगा नारी दर्शनं या करिष्यति ॥
सौभाग्यसुखसंयुक्ता भविष्यति न संशयः ॥
वीरं तु गुर्विणी कन्या पतिमाप्स्यति शोभनम्
॥३६॥यंयं काममभिध्याय ये त्वां पश्यंति मानवाः ॥
तंतं मनोरथं सर्वं गमिष्यंति न संशयः
॥३७॥एवं भविष्यतीत्युक्त्वा लिंगेन परमेश्वरि ॥
विसर्जितौ गतौ दैवौ ब्रह्मविष्णू स्वमालयम्
॥३८॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
अभयेश्वर देवस्य श्रूयतां पृथुकेश्वरम्
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्येऽभयेश्वरमाहात्म्यवर्णनंनामाष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥